पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तदशी।
ते नो॒ अर्व॑न्तो हवन॒श्रुतो॒ हवं॒ विश्वे॑ शृण्वन्तु वा॒जिनो॑ मि॒तद्र॑वः ।
स॒ह॒स्र॒सा मे॒धसा॑ता सनि॒ष्यवो॑ म॒हो ये धन॑ᳪ समि॒थेषु॑ जभ्रि॒रे ।। १७ ।।
उ० ते नो अर्वन्तः । जगती । ते अर्वन्तः अश्वाः नोsस्माकं हवनश्रुतः । हवनमाह्वानं ये स्वभावत एव शृण्वन्ति त एवमुच्यन्ते । हवमाह्वानं विश्वे सर्वे शृण्वन्तु वाजिनोऽश्वाः मितद्रवः यजमानमपरिच्छिन्नं ये गच्छन्ति त एवमुच्यन्ते । मितद्रवः शोभनगमना वा । सहस्रसाः सहस्रस्य सनितारः संभक्तारः । मेधसाता मेधो यज्ञः स यत्र सन्यते संभज्यते स मेधसातिः तत्र मेधसातौ । सप्तम्यर्थे आकारः। सनिष्यवः संभक्तारः । महो महान्तः ये धनं समिथेषु संग्रामेषु जभ्रिरे आहृतवन्तः। तेनोऽर्वन्त इत्यतिक्रान्तं प्रतिवचनम् ॥ १७ ॥
म० अश्वदेवत्या जगती नाभानेदिष्ठदृष्टा । विश्वे सर्वे ते वाजिनोऽश्वा नोऽस्माकं हवमाह्वानं शृण्वन्तु । किंभूता अर्वन्तः। इ-यति कुटिलं गच्छन्तीत्यर्वन्तः । 'ऋ गतौ' इत्यस्माद्वनिप् 'अर्वणस्त्रसावनञः' (पा० ६ । ४ । १२७) इति त्रन्तादेशे रूपम् । हवनश्रुतः हवनमाह्वानं शृण्वन्तीति हवनश्रुतः । मितद्रवः यजमानचित्तानुकूल्येन परिमितगामिनः । सहस्रसाः सहस्रस्यानेकजनतृप्तिक्षमस्य महतोऽन्नराशेः सनितारो दातारः । मेधसाता सनिष्यवः मेधो यज्ञः सन्यते संभज्यते यत्र सा मेधसातिर्यज्ञशाला । ङेर्डाकारः । तस्यां सनिष्यवः संभक्तारः पूरयितारः । ते के । येऽश्वाः समिथेषु संग्रामेषु महः महत्पूज्यं वा धनं जभ्रिरे जह्रिरे आहृतवन्तः ॥ १७ ॥

अष्टादशी।
वाजे॑-वाजेऽवत वाजिनो नो॒ धने॑षु विप्रा अमृता ऋतज्ञाः ।
अ॒स्य मध्व॑: पिबत मा॒दय॑ध्वं तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानै॑: ।। १८ ।।
उ० वाजेवाजे । त्रिष्टुप् । अन्नेअन्ने उपस्थिते सति अवत पालयत । हे वाजिनोऽश्वाः, नोऽस्मान् धनेषु च उपस्थितेषु पालयत हे विप्राः मेधाविनः परिदृष्टकारिणः, अमृताः अमरणधर्माणः । ऋतज्ञाः सत्यज्ञा वा यज्ञज्ञा वा। किंच अस्य नैवारचरुलक्षणस्य मध्वः मधुनः पिबत । मादयध्वं तृप्यध्वम् । नैवारं चरुमवजिघ्रन्त्यश्वस्य तदभिप्रायमेतत् । तृप्ताश्च सन्तः यात पथिभिर्देवयानैः देवाध्यासितैः ॥ १८॥
म० अश्वदेवत्या त्रिष्टुब् वसिष्ठदृष्टा । हे वाजिनोऽश्वाः, वाजेवाजे सर्वस्मिन्नन्ने उपस्थिते सति धनेषु चोपस्थितेषु सत्सु नोऽस्मानवत पालयत । किंभृता यूयम् । विप्रा मेधाविनः परिदृष्टकारिणः अमृता अमरणधर्माणः ऋतज्ञाः सत्यज्ञाः यज्ञज्ञा वा । किंच अस्य मध्वः पिबत । कर्मणि षष्ठी। इदं मधु धावनात्पूर्वं पश्चाच्चावघ्रायमाणं नैवारचरुलक्षणं मधुरं हविः पिबत । पीत्वा च मादयध्वं तृप्ता भवत । ततस्तृप्ताः सन्तो देवयानैर्देवाधिष्ठितैः पथिभिर्मार्गैर्यात गच्छत ॥ १८ ॥

एकोनविंशी।
आ मा॒ वाज॑स्य प्रस॒वो ज॑गम्या॒देमे द्यावा॑पृथि॒वी वि॒श्वरू॑पे ।
आ मा॑ गन्तां पि॒तरा॑ मा॒तरा॒ चा मा॒ सोमो॑ अमृत॒त्वेन॑ गम्यात् ।
वाजि॑नो वाजजितो॒ वाज॑ᳪ ससृ॒वाᳪसो॒ बृह॒स्पते॑र्भा॒गमव॑जिघ्रत निमृजा॒नाः ।। १९ ।।
उ० यजमानो नैवारं चरुमालभते । आ मा वाजस्य । त्रिष्टुप् । आजगम्यात् आगच्छेत् मा मां प्रति वाजस्यान्नस्य प्रसवोऽभ्यनुज्ञा । आ इमे द्यावापृथिवी विश्वरूपे । आगच्छेतां च इमे द्यावापृथिव्यौ विश्वरूपे सर्वरूपे । आ मा गन्तां पितरा मातरा च आगन्तामागच्छेतां च मां प्रति मातापितरौ 'पितरामातरा च छन्दसि' इति विरूपैकशेषो निपात्यते । आ मा सोमो अमृतत्वेन गम्यात् । आगच्छेच्च मां प्रति सोमः अमृतत्वेन सहितः । अश्वानवघ्रापयति नैवारं चरुम् । वाजिनो वाजजितः । हे वाजिनोऽश्वाः, वाजस्यान्नस्य जेतारः । वाजमन्नं जेतुं ससृवाᳪसः सृप्तवन्तः सन्तो बृहस्पतेः संबन्धिनं भागमवजिघ्रत निमृजानाः । 'मृजूष् शुद्धौ'। शोधयन्त एनं चरुं यजमानं च ॥ १९ ॥
म०. 'अवरुह्य नैवारमालभते तीर्थे स्थितमामा वाजस्येति' ( का० १४ । ४ । ११ ) यजमानो रथादवतीर्य चात्वालोत्करान्तरे स्थितं नैवारं चरुं स्पृशति । प्रजापतिदेवत्या त्रिष्टुब् वसिष्ठदृष्टा । वाजस्यान्नस्य प्रसव उत्पत्तिर्मा मामाजगम्यात् आगच्छतु । गच्छतेर्व्यत्ययेन ह्वादित्वे लिङि रूपम् । आ इमे विश्वरूपे सर्वरूपात्मिके इमे द्यावापृथिव्यौ मां प्रत्यागच्छेताम् । पितरा मातरा । 'पितरामातरा च छन्दसि' (पा० ६ । ३ । ३३) इति द्विरूपैकशेषो निपात्यते। अस्मदीयः पिता माता च मा मां प्रति आगन्तामागच्छताम् । व्यत्ययेनादादित्वे लोटि रूपम् । सोमश्चामृतत्वेन सहितो मा मामागम्यात् । चतुर्थ्यर्थे तृतीया । अमृतत्वाय मम देवत्वजन्मने सोमो मां प्रत्यागच्छेत् । लिङि रूपम् । 'यजुर्युक्तानाघ्रापयति वाजिन इति' ( का० १४ । ४ १२) इति । मन्त्रेण युक्तानश्वान्नैवारचरुमाघ्रापयेत् । अश्वदेवत्यं यजुः । हे वाजिनोऽश्वाः, यूयं बृहस्पतेः संबन्धिनं भागं चरुमवजिघ्रत आघ्राणं कुरुत । किंभूताः । वाजजितः वाजस्यान्नस्य जेतारः । वाजमन्नं जेतुं ससृवांसः सृतवन्तो गतवन्तः । सर्तेः क्वसुप्रत्यये रूपम् । निमृजानाः 'मृजूष् शुद्धौ' शानच्प्रत्ययः। शोधयन्तः चरुमेनं यजमानं वा पुनन्त इत्यर्थः ॥ १९ ॥