पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अग्निर्नेता येषां देवानां ते अग्निनेत्राः तेभ्यो देवेभ्य इति तादर्थ्ये चतुर्थी । पुरःसद्भ्यः पुरः सीदन्तीति पुरःसदः तेभ्यः सुहुतमस्तु । अथ दक्षिणार्धे जुहोति । यमनेत्रेभ्यो देवेभ्यः । शेषं तुल्यव्याख्यानम् । अथ पश्चार्धे जुहोति । विश्वदेवनेत्रेभ्यो देवेभ्यः । अथोत्तरार्धे जुहोति । मित्रावरुणनेत्रेभ्यो वा मरुन्नेत्रेभ्यो देवेभ्यः । अथ मध्ये जुहोति । सोमनेत्रेभ्यो देवेभ्यः दुवस्वद्भ्यः । दुवःशब्देन हविरभिधीयते तद्येष्वस्ति ते दुवस्वन्तः तेभ्यो दुवस्वद्भ्यः ॥ ३५ ॥
म० अथ राजसूयमन्त्राः । तेषां वरुण ऋषिः । 'अष्टाकपालोऽनुमत्यै शम्यायाः पश्चाद्धविष्यमन्नᳪस्रुवे कृला दक्षिणाग्न्युल्मुकमादाय दक्षिणा गत्वा स्वयमप्रदीर्ण इरिणे वाग्नौ जुहोत्येष ते निर्ऋत इति' (का० १५ । १ । ९-१०)। फाल्गुनाद्यदशम्यामनुमत्यै अष्टाकपालः पुरोडाशो भवति तदर्थं गृहीतहविषः पेषणकाले दृषदधस्तान्निहितशम्यापश्चाद्भागे पन्नं पतितं यद्धविस्तण्डुलपिष्टरूपं तत् स्रुवे निधाय दक्षिणाग्नेरुल्मुकमादाय दक्षिणस्यां दिशि गत्वा स्वयं स्फुटिते भूभागे ऊषरे वोल्मुकाग्निं संस्थाप्य तद्धविर्जुहोतीति सूत्रार्थः । पृथिवीदेवत्यम् । निर्ऋतिरत्र पृथिवी । हे निर्ऋते पृथिवि, एष पिष्टरूपस्ते तव भागः तं भागं त्वं जुषस्व सेवस्व स्वाहा सुहुतमस्तु । 'पञ्चवातीयमाहवनीयं प्रतिदिशं व्यूह्य मध्ये च स्रुवेणाग्निषु जुहोत्यग्मिनेत्रेभ्य इति प्रतिमन्त्रमिति' (का० १५। १ ।२०)। एवं वर्षमिष्टाः कृत्वा पञ्चवातीयाख्यं कर्म विधेयं तत्राहवनीयं प्रागादिदिक्षु कृत्वा मध्ये चावशिष्य स्रुवेणाज्यं पञ्चस्वग्निषु यथालिङ्गं जुहोति। अध्यायसमाप्तिपर्यन्तं देवा ऋषयः । दश यजूंषि देवदेवत्यानि । अग्निर्नता येषां ते अग्निनेत्रास्तेभ्यः । पुरः पुरस्तात्पूर्वस्यां दिशि सीदन्तीति पुरःसदस्तेभ्यो देवेभ्यः स्वाहा सुहुतमस्तु । अथ दक्षिणे जुहोति । यमनेत्रेभ्यः यमो नेता येषां तेभ्यः । दक्षिणस्यां सीदन्तीति दक्षिणासदस्तेभ्यो देवेभ्यः स्वाहा । अथ पश्चाज्जुहोति । विश्वदेवनेत्रेभ्यः विश्वेदेवा नेतारो येषां तेभ्यः पश्चात्सीदन्तीति पश्चात्सदस्तेभ्यः स्वाहा । अथोत्तरार्धे जुहोति । मित्रावरुणनेत्रेभ्यः मित्रावरुणौ नेतारौ येषां ते मित्रावरुणनेत्राः। वा यद्वा मरुतो नेतारो येषां ते मरुन्नेत्राः । उत्तरस्यां सीदन्तीत्युत्तरासद उत्तरभागार्थास्तेभ्यो देवेभ्यः स्वाहा । अत्र मित्रावरुणनेत्रेभ्यो देवेभ्य उत्तरासद्भ्यः मरुन्नेत्रेभ्यो देवेभ्य उत्तरासद्भ्य इति मन्त्रयोर्विकल्पः । मध्ये जुहोति । सोमनेत्रेभ्यः सोमो नेता येषां तेभ्यः। उपरि सीदन्ति तिष्ठन्तीत्युपरिसदस्ते। दुवस्वद्भ्यः परिचर्यावद्भ्यः । यद्वात्र दुवःशब्देन हव्यं तद्येषामस्ति ते दुवस्वन्तस्तेभ्यो देवेभ्यः स्वाहा ॥ ३५॥

षट्त्रिंशी
ये दे॒वा अ॒ग्निने॑त्राः पुर॒: सद॒स्तेभ्य॒: स्वाहा॒ ये दे॒वा य॒मने॑त्रा दक्षि॒णासद॒स्तेभ्य॒: स्वाहा॒ ये दे॒वा वि॒श्वदे॑वनेत्राः पश्चा॒त्सद॒स्तेभ्य॒: स्वाहा॒ ये दे॒वा मि॒त्रावरु॑णनेत्रा वा म॒रुन्ने॑त्रा वोत्तरा॒सद॒स्तेभ्य॒: स्वाहा॒ ये दे॒वाः सोम॑नेत्रा उपरि॒सदो॒ दुव॑स्वन्त॒स्तेभ्य॒: स्वाहा॑ ।। ३६ ।।
उ० सार्धं समुह्य जुहोति । ये देवा अग्निनेत्राः पुरःसदः तेभ्यः स्वाहा । तुल्यव्याख्यानाः पञ्चमन्त्रा ऋजवः ॥ ३६ ॥
म० 'उत्तराः समस्य ये देवा इति प्रतिमन्त्रमिति' (का० १५ । १ । २१) पञ्चधा विभक्तमाहवनीयमेकीकृत्य ये देवा इति पञ्चमन्त्रैः प्रत्येकं जुहुयादिति शेषः । ये देवा अग्निनेत्राः पुरःसदस्तेभ्यो देवेभ्यः स्वाहा । ये देवा यमनेत्राः पूर्ववद्व्याख्या । ये देवा विश्वदेवनेत्राः पश्चात्सदः । ये देवा मित्रावरुणनेत्राः ये देवा मरुन्नेत्रा इति मन्त्रयोर्विकल्पः । ये देवाः सोमनेत्राः उपरिसदः उपरि स्थिता दुवस्वन्तो हव्यवन्तस्तेभ्यः स्वाहा ॥ ३६ ॥

सप्तत्रिंशी।
अग्ने॒ सह॑स्व॒ पृत॑ना अ॒भिमा॑ती॒रपा॑स्य । दु॒ष्टर॒स्तर॒न्नरा॑ती॒र्वर्चो॑ धा य॒ज्ञवा॑हसि ।। ३७ ।।
उ० अपामार्गहोमः । उल्मुकमादत्ते । अमे सहस्त्र पृतनाः आग्नेय्यनुष्टुप् । हे भगवन्नग्ने, सहस्वाभिभव पृतनाः संग्रामान् । किंच अभिमातीरपास्य । सपत्नोऽभिमातिरुच्यते । सपत्नांश्च अपास्य । 'असु क्षेपणे' इत्यस्यैतद्रूपम् । अपक्षिप। कस्मात्पुनरेवं त्वमुच्यसे अत आह । दुष्टरस्तरन्नरातीः तरतेस्तृणातेर्वा दुष्टरः अशक्यप्रतिक्रियो दुर्निवारस्त्वम् । किंकुर्वन् तरन्नरातीः विनाशयन् शत्रुसेनाः। किंच वर्चोधा यज्ञवाहसि । वर्च इत्यन्ननामसु पठितम् । अन्नस्य धाता दाता वा वर्चस ओजसो वा धारयितासि । यज्ञं वहतीति यज्ञवाहास्तस्मिन्यज्ञवाहसि यजमाने ॥ ३७॥
म० 'अग्ने सहस्वेत्युल्मुकादानमिति' (का० १५ । २।५) अपामार्गतण्डुलहोमार्थं दक्षिणाग्नेरुल्मुकमादद्यात् । अग्निदेवत्यानुष्टब्देवश्रवोदेववातदृष्टा । हे अग्ने, त्वं पृतनाः शत्रुसेनाः सहस्व अभिभव । तथा अभिमातीः सपत्नोऽभिमातिरुच्यते स्त्रीत्वमार्षम् । अभिमातीन् शत्रून् अपास्य अपक्षिप निवर्तय । 'असु क्षेपणे' अस्य लोटि रूपम् । किंच यज्ञं वहतीति यज्ञवाहास्तस्मिन् यज्ञवाहसि यज्ञनिर्वाहके यजमाने वर्चोऽन्नं धाः धेहि । दधातेर्लुङि रूपम् 'बहुलं छन्दस्यमाङ्योगेऽपि' (पा० ६।४।७५) इत्यडभावः । किंभूतस्त्वम् । दुष्टरः दुस्तरः केनापि तर्तुमशक्यः अशक्यप्रतिक्रियो दुर्निवार इत्यर्थः । अरातीः शत्रून् तरन् तिरस्कुर्वन्विनाशयन्नित्यर्थः ॥ ३७॥

अष्टत्रिंशी। ।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । उ॒पा॒ᳪशोर्वी॒र्ये॒ण जुहोमि ह॒तᳪ रक्ष॒: स्वाहा॒
रक्ष॑सां त्वा व॒धायाव॑धिष्म॒ रक्षोऽव॑धिष्मा॒मुम॒सौ ह॒तः ।। ३८ ।।