पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० जुहोति देवस्य त्वा व्याख्यातम् । उपांशोर्वीर्येण जुहोमि । अतो हतं हिंसितं रक्षः । स्वाहा सुहुतं चैतद्धविर्भवतु । स्रुवं प्रास्यति । रक्षसां त्वा वधार्थम् प्रास्यामीति शेषः । प्रत्यागच्छति । अवधिष्म हतवन्तो वयं रक्षः । जातावेकवचनम् । अवधिष्म । अमुमिति नामग्रहणं असाविति च । अथ कोर्थः । हतवन्तो वयं खदिरवर्माणं खदिरवर्मा वा हतोस्माभिः ॥ ३८ ॥
म० 'देवस्य त्वेति जुहोतीति' ( का० १५ । २ । ६) प्रागुदग्वा गत्वा गृहीतमुल्मुकं संस्थाप्य स्रुवेणापामार्गतण्डुलान्जुहुयात् । देवस्य त्वा व्याख्यातम् । उपांशोः त्रीणि यजूंषि रक्षोघ्नदेवत्यानि । उपांशुर्नाम प्रथमो ग्रहस्तस्य वीर्येण सामर्थ्यनाहं जुहोमि । अतएव रक्षो राक्षसजातिर्हतं निहतम्' स्वाहा सुहतं हविरस्तु । 'रक्षसां त्वेति स्रुवमस्यति तां दिशं यस्यां जुहोतीति' ( का० १५ । २ । ७) यस्यां दिशि होमं कुर्यात्तां दिशं प्रति स्रुवं प्रक्षिपेत् । रक्षसां राक्षसानां वधाय नाशार्थ त्वा त्वां प्रास्यामीति शेषः । 'अवधिष्म इत्यायन्त्यनपेक्षमिति' (का० १५ । २ । ७)। अध्वर्य्वादयः पश्चादनवलोकयन्तो देवयजनं प्रत्यागच्छन्ति । रक्षो राक्षसजातिं वयमवधिष्म हतवन्तः। जातावेकवचनम् । अमुमिति शत्रुनामग्रहणम् असाविति च । अमुं देवदत्तं वयमवधिष्म असौ देवदत्तो हतो मारितोऽस्माभिः ॥ ३८॥

एकोनचत्वारिंशी
स॒वि॒ता त्वा॑ स॒वाना॑ᳪ सुव॒ताम॒ग्निर्गृ॒हप॑तीना॒ᳪ सोमो॒ वन॒स्पती॑नाम् ।
बृह॒स्पति॑र्वा॒च इन्द्रो॒ ज्यैष्ठ्या॑य रु॒द्रः प॒शुभ्यो॑ मि॒त्रः स॒त्यो वरु॑णो॒ धर्म॑पतीनाम् ।। ३९ ।।
उ० गृहीत्वा दक्षिणं यजमानबाहुं जपति । सविता त्वां सवानाम् प्रसवानामाधिपत्ये सुवतां प्रसुवताम् अभ्यनुजानतु । स हि तेषामीष्टे अग्निर्गृहपतीनाम् आधिपत्ये सुवतामित्यनुवृत्तिः । सोमो वनस्पतीनामाधिपत्ये सुवताम् । बृहस्पतिर्वाचे वागर्थमभ्यनुजानातु । इन्द्रो ज्येष्ठ्याय ज्येष्ठभावायार्थं सुवताम् । रुद्रः पशुभ्यः पश्वर्थं सुवताम् । मित्रः सत्यः सत्यायेति विभक्तिव्यत्ययः । सत्यार्थं सुवताम् । वरुणो धर्मपतीनामाधिपत्ये सुवताम् ॥ ३९ ॥
म० 'उत्तमेन चरित्वा सविता त्वेत्याह यजमानबाहुं दक्षिणं गृहीत्वा नामास्य गृह्णाति मन्त्रे यथास्थानं मातापित्रोश्च यस्याश्च जाते राजा भवतीति' (का. १५ । ४ । १३-१५)। अष्टौ देवसूहवींषि । तत्रान्तिमेन वरुणाय धर्मपतय इति वारुणेन चरुणा चरित्वा यजमानान्तिके गत्वा स्रुचौ सव्ये पाणौ कृत्वा दक्षिणं तद्बाहुमादाय सविता त्वेति कण्डिकाद्वयरूपं मन्त्रमाह । मन्त्रे यथास्थानं यजमानस्य तन्मातापित्रोर्यस्या जनपदजाते राजा भवति तस्याश्च नामानि गृह्णातीति सूत्रार्थः । अतिजगती यजमानदेवत्या । सविता सवानां प्रसवानामाज्ञानामाधिपत्ये हे यजमान, त्वा त्वां सुवतां प्रेरयतु । सर्वेषामाज्ञादानेऽधिकारी भवेत्यर्थः । अग्निर्गृहपतीनां गृहस्थानामाधिपत्ये त्वां सुवताम् । सोमो वनस्पतीनां वृक्षाणामाधिपत्ये त्वां सुवताम् । | वृक्षाः सर्वे तवोपकारका भवन्त्वित्यर्थः । बृहस्पतिर्वागर्थं त्वां सुवतां पाण्डित्याय प्रेरयतु । यद्वा षष्ठ्यर्थे चतुर्थी । वाचआधिपत्ये सुवताम् । इन्द्रो देवो ज्यैष्ठ्याय ज्येष्ठभावाय त्वां सुवताम् । रुद्रः पशुभ्यः पश्वर्थं पश्वाधिपत्ये वा त्वां सुवताम् । मित्रो देवः सत्यः । 'सुपां सुलुक्' (पा० ७ । १ । ३९) इत्यादिना चतुर्थ्याः सुआदेशः । सत्याय सत्यवाक्याय सत्यं वदितुं त्वां सुवताम् । वरुणो धर्मपतीनां धर्मेश्वराणां धर्मशीलानामाधिपत्ये त्वां सुवताम् । सवित्रादयोऽष्टौ देवसूहविषां देवतास्त्वां नानाधिपत्यानि ददत्विति वाक्यार्थः ॥ ३९ ॥

चत्वारिंशी।
इ॒मं दे॑वा असप॒त्नᳪ सु॑वध्वं मह॒ते क्ष॒त्राय॑ मह॒ते ज्यैष्ठ्या॑य मह॒ते जान॑राज्या॒येन्द्र॑स्येन्द्रि॒याय॑ ।
इ॒मम॒मुष्य॑ पु॒त्रम॒मुष्यै॑ पु॒त्रम॒स्यै वि॒श ए॒ष वो॑ऽमी॒ राजा॒ सोमो॒ऽस्माकं॑ ब्राह्म॒णाना॒ᳪ राजा॑ ।। ४० ।।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां नवमोऽध्यायः ॥९॥
उ० इमं देवा असपत्नं सुवध्वम् । इमं राजानं हे देवाः, असपत्नं सुवध्वम् । महते क्षत्राय महते ज्यैष्ठ्याय ज्येष्ठभावाय । महते च जनानां राज्याय । इन्द्रस्य च इन्द्रियाय वीर्याय । सुवध्वमिति प्रत्येकं संबन्धः । इमं अमुष्यपुत्रम् । अमुष्येति यजमानस्य पितुः षष्ठ्यन्तं नाम गृह्यते । अमुष्यै पुत्रम् । अमुष्यै इति यजमानस्य मातुर्नामग्रहः । ‘स आदित्येन दिनं मिथुनं समभवत्' इत्यादिश्रुतिः । इमममुष्य पुत्रमित्यादिस्तृतीयपादः सोमपरत्वेन व्याख्येयः। अस्यै विशे । जनपदनामग्राहः । एष वः अमी राजा । एष वः कौरवो राजा सोमः अस्तु । अस्माकं ब्राह्मणानां राजा ॥ ४०॥
इति उवटकृतौ मन्त्रभाष्ये नवमोऽध्यायः ॥ ९ ॥
म० अत्यष्टिर्यजमानदेवत्या । हे देवाः सवित्रादयः, इमममुकसंज्ञं यजमानमसपत्नं सपत्नरहितं कृत्वा सुवध्वं प्रेरयध्वम् । किमर्थं । महते क्षत्राय महत्यै क्षत्रपदव्यै । महते ज्यैष्ठ्याय ज्येष्ठभावाय । महते जानराज्याय जनानामिदं जानं जानं च तद्राज्यं च जानराज्यं । जनानामाधिपत्यायेत्यर्थः । इन्द्रस्यात्मन इन्द्रियाय वीर्याय आत्मज्ञानसामर्थ्याय इमं यजमानं