पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नवमोऽध्यायः।
तत्र प्रथमा
देव॑ सवित॒: प्रसु॑व य॒ज्ञं प्रसु॑व य॒ज्ञप॑तिं॒ भगा॑य ।
दि॒व्यो ग॑न्ध॒र्वः के॑त॒पूः केतं॑ नः पुनातु वा॒चस्पति॒र्वाजं॑ नः स्वदतु॒ स्वाहा॑ ।। १ ।।
उ० देव सवितः । वाजपेयिका मन्त्रा एष ते निर्ऋते भाग इत्येतस्मात्प्राक् । बृहस्पतेरार्षम् इन्द्रस्य च । कर्मणः कर्मणः पुरस्तादाहुतिं जुहोति गायत्र्या त्रिष्टुभा । हे देव सवितः, प्रसुव अभ्यनुजानीहि वाजपेयलक्षणं यज्ञम् । अभ्यनुजानीहि यजमानं यज्ञपतिम् । भगाय भजनीयाय यज्ञफलाय । एवं पुरुषमुक्त्वा अथेदानीं मण्डलमाह । त्वत्प्रसादाच्च मण्डललक्षणो दिव्यो दिवि भवो गन्धर्वो गवां वाचां रश्मीनां वा धारयिता केतपूः । केतशब्देनान्नमुच्यते । अन्नस्य पविता । केतमन्नं नोऽस्माकं पुनातु शोधयतु । त्वत्प्रसादाच्च वाचस्पतिः वाजमन्नं नोऽस्माकं स्वदतु । 'स्वद आस्वादने' । आस्वादयतु ॥१॥
म० चतुर्थाध्यायमारभ्याष्टमान्तमध्यायपञ्चके अग्निष्टोममन्त्रास्तदीयप्रासङ्गिका मन्त्राश्चोक्ताः । नवमेऽध्याये वाजपेयमन्त्रा उच्यन्ते चतुस्त्रिंशत्कण्डिकापर्यन्तम् । तेषां बृहस्पतीन्द्रावृषी । तत्र 'देव सवितरिति जुहोति यजत्यादिष्विति' ( का० १४ । १ । ११) । वाजपेयाङ्गभूतानां यजतीनां दीक्षणीयाप्रापणीयादीनामादिषु सकृद्गृहीतमाज्यं जुहोति । सवितृदेवत्या त्रिष्टुप् । हे सवितः सर्वस्य प्रेरकान्तर्यामिन्, हे देव दीप्यमान, यज्ञं वाजपेयलक्षणं यागं प्रसुव अभ्यनुजानीहि प्रवर्तयेत्यर्थः । यज्ञपतिं यजमानं भगाय भजनीयायानुष्ठानरूपायैश्वर्याय प्रसुव प्रेरय । एवं मण्डलाधिष्ठातारं पुरुषमुक्त्वेदानीं मण्डलं प्रत्याह । त्वत्प्रसादाद्दिवि भवो दिव्यो गन्धर्वो गवां रश्मीनां धारयिता केतपूः केतशब्देनान्नमुच्यते । केतमन्नं पुनातीति केतपूः । अन्नस्य पावयिता सूर्यमण्डलरूपो देवो नोऽस्माकं केतमन्नं पुनातु शोधयतु । किंच त्वत्प्रसादाद्वाचस्पतिः प्रजापतिर्नोऽस्माकं वाजमन्नं हविर्लक्षणं स्वदतु आस्वादयतु स्वाहा सुहुतमस्तु ॥ १ ॥

द्वितीया
ध्रु॑व॒सदं॑ त्वा नृ॒षदं॑ मन॒:सद॑मुपया॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम् ।
अ॑प्सु॒षदं॑ त्वा घृत॒सदं॑ व्योम॒सद॑मुपया॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम् ।
पृथि॒वी॒सदं॑ त्वाऽन्तरिक्ष॒सदं॑ दिवि॒सदं॑ देव॒सदं॑ नाक॒सद॑मुपया॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम् ।। २।।
उ० पञ्च वाजपेयिका ग्रहा गृह्यन्ते ऐन्द्राः । ध्रुवसदं त्वा सोमाहुतिपरिणामभूतो रस एषु लोकेष्वावर्तमान इह गृह्यते सोमाध्यस्तः । ध्रुवे अस्मिन् लोके सीदतीति ध्रुवसत् ध्रुवसदं त्वाम् नृषदं मनुष्यसदम् । मनसि सीदतीति मनःसदम् । इन्द्राय त्वां जुष्टमभिरुचितं गृह्णामि उपयामगृहीतोऽसीत्ययं भिन्नक्रमः। आदौ मन्त्रावयवो द्रष्टव्यः अर्थसंबन्धात् सादयति । एष ते योनिरिन्द्राय त्वा जुष्टतममभिरुचिततमम् । द्वितीयं गृह्णाति । अप्सुषदमुदकसदं त्वां घृतसदं व्योमसदम् । व्योमशब्देनान्तरिक्षमभिधीयते । शेषं व्याख्यातम् । तृतीयं गृह्णाति । पृथिवीसदं त्वान्तरिक्षसदं दिविसदं देवसदं नाकसदम् । कमिति सुखनाम तत्प्रतिषिद्धं दुःखं प्रतिषिध्यते । यत्र गतानामल्पमप्यसुखं न विद्यते स नाको लोकः स्वर्लोकविशेषः । शेषमृजु ॥ २॥
म० 'प्रातःसवनेऽतिग्राह्यान् गृहीत्वा षोडशिनं पञ्च चैन्द्रान्ध्रुवसदमिति प्रतिमन्त्रमिति' ( का० १४ । १ । २६१ )। प्रातःसवन आग्रयणानन्तरं त्रीनतिग्राह्यानादाय षोडशिनं चादाय पञ्चेन्द्रदेवत्यान्ग्रहान्गृह्णीयात् । त्रीणि यजूंषीन्द्रदेवत्यानि । हे सोम, त्वम् उपयामयतीत्युपयामो ग्रहस्तेन गृहीतोऽसि । इन्द्राय जुष्टं प्रियं वा त्वां गृह्णामि । किंभूतं त्वाम् । ध्रुवसदं ध्रुवे स्थिरेऽस्मिन् लोके सीदतीति ध्रुवसत्तम् । | नृषु मनुष्येषु सीदतीति नृषत्तम् । मनसि सीदतीति मनःसत्तम् । । सोमाहुतिपरिणामभूतो रस एषु लोकेष्वावर्तमानः सोमाध्यस्त उच्यते । सादयति हे ग्रह, एष खरप्रदेशस्तव स्थानम् । इन्द्राय प्रियतमं त्वां सादयामीति शेषः । अथ द्वितीयम् । अप्सुषदमुदकसदं घृते सीदतीति व्योम्नि अन्तरिक्षे सीदतीति । शेषो व्याख्यातः । अथ तृतीयम् । पृथिव्यामन्तरिक्षे दिवि स्वर्गे देवेषु नास्ति अकं दुःखं यस्मिन् तस्मिन्नाके सुखान्विते स्वर्गविशेषे सीदतीति तादृशम् । शेषमृजु ॥ २ ॥

तृतीया।
अ॒पाᳪ रस॒मुद्व॑यस॒ᳪ सूर्ये॒ सन्त॑ᳪ स॒माहि॑तम् । अ॒पाᳪ रस॑स्य॒ यो रस॒स्तं वो॑ गृह्णाम्युत्त॒ममु॑पया॒मगृ॑हीतो॒ सीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम् ।। ३ ।।
उ० चतुर्थं गृह्णाति । अपाᳪरसम् । रसदेवत्यानुष्टुप् । रसः सारः सोऽपां वायुः । 'एष वा अपाᳪरसो योयं पवत' इति श्रुतिः । उद्वयसम् । उद्गतं वयोऽन्नं यस्माद्वायोस्तमुद्वयसं वायुम् सूर्ये सन्तं समाहितमित्यनयोः पदयोर्व्यत्ययोऽर्थसंबन्धात् । सूर्ये समाहितं सन्तं समारोपितं स्थापितं सन्तं गृह्णामीति वक्ष्यमाणेन संबन्धः । अपां रसस्य यो रसस्तं वो गृह्णाम्युत्तमम् । अपां रसो वायुस्तस्यापि रसः प्रजापतिः, स हि यज्ञलोककालाग्निवायुसूर्यऋग्यजुःसामादि