पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वपुः तं वःशब्देनाह । हे आपः, गृह्णामि उत्तमम् उत्कृष्टतमम् । यद्वा वःशब्दोऽनर्थकः । अपां रसस्य वायोर्यो रसः प्रजापतिस्तं गृह्णामीति तस्मिन्पक्षे योजना। उपयाम इत्यादि समानम् ॥ ३॥
म० अथ चतुर्थम् । रसदेवत्यानुष्टुप् सूर्ये समाहितं समारोपितं स्थापितं सन्तमपामुदकानां रसं सारं वायुमहं गृह्णामि । 'एष वा अपाᳪ रसो योऽयं पवते' (५।१।२।६) इति श्रुतेः। किंभूतं रसम् । उद्वयसमुद्गतं वयोऽन्नं यस्माद्वायोःस उद्वयास्तम् । वायुनैव धान्यानि निष्पद्यन्ते । किंच अपां रसस्य वायोर्यो रसः सारः प्रजापतिर्हिरण्यगर्भः स हि यज्ञलोककालाग्निवायुसूर्यर्ग्यजुःसामादिवपुः हे देवाः, वो युष्मदर्थं तं प्रजापतिमहं गृह्णामि । किंभूतम् । उत्तममुत्कृष्टतमम् । वःशब्दोऽनर्थको वा। सोमरूपेण वायुं तदभिमानिनं प्रजापतिं च गृह्णामीत्यर्थः। उपयामेति व्याख्यातम् । एष त इति सादनम् ॥ ३ ॥

चतुर्थी।
ग्रहा॑ ऊर्जाहुतयो॒ व्यन्तो॒ विप्रा॑य म॒तिम् । तेषां॒ विशि॑प्रियाणां वो॒ऽहमिष॒मूर्ज॒ᳪ सम॑ग्रभमुपया॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम् । स॒म्पृचौ॑ स्थ॒: सं मा॑ भ॒द्रेण॑ पृङ्क्तं वि॒पृचौ॑ स्थो॒ वि मा॑ पा॒प्मना॑ पृङ्क्तम् ।। ४ ।।
उ० पञ्चमं गृह्णाति । ग्रहा ऊर्जाहुतयः । अनुष्टुप् । हे ग्रहाः ऊर्जमन्नं रसं ये आह्वयन्ति ते ऊर्जाहुतयः । व्यन्तः पश्यन्तो जानन्तः विप्राय मेधाविने इन्द्राय मतिं विशिप्रिया भवतेति शेषः । शिप्रे हनूनासिके वेत्युक्तम् । इह तु हनू एव गृह्येते । विगतं हन्वोः कर्म येषु ग्रहेषु ते विशिप्रियाः शोभनाभिषवसंस्कृताः सुपूताश्च विशिप्रिया उच्यन्ते। तत्र हि हन्वोर्व्यापारो न भवति । तेषां च विशिप्रियाणां सतां वः संबन्धिनाम् अहम् इषमन्नम् ऊर्जं च रसम् समग्रभम् संगृह्णामि । शेषं व्याख्यातम् । उपयाम इत्यादि व्याख्यातम् । उपर्युपर्यक्षं सोमग्रहं करोत्यध्वर्युः । अधोऽधोऽक्षं नेष्टा सुराग्रहं करोति संपृचौस्थः । 'पची संपर्के' । यौ युवां ग्रहौ संपृक्तौ स्थः तौ संपृङ्क्तं संसृजतं मां भद्रेण भन्दनीयेन कल्याणेन । तौ पुनर्विहरतः विपृचौ स्थः। यतो युवां विगतसंसर्गौ स्थः ततो वि मा पाप्मना पृङ्क्तम् विगतसंसर्गं पाप्मना मां कुरुतम् ॥ ४ ॥
म०. अथ पञ्चमम् । ग्रहदेवत्यानुष्टुप् । हे ग्रहाः, तेषां वो युष्माकं संबन्धिनमिषमन्नमूर्जं रसं चाहं समग्रभं समग्रभं सम्यग्गृह्णामि । किंभूतानां । विशिप्रियाणाम् । शिप्रे हनू नासिके वा । इह तु हनू । शिप्रयोर्हन्वोः कर्म शिप्रियं हनुचलनम् । विगतं शिप्रियं येषु ग्रहेषु ते विशिप्रियाः सम्यगभिषुताः सुपूताश्च । तत्र हि हन्वोर्व्यापारो नास्ति सुपेयत्वात् । तेषां केषां । ये यूयमूर्जाहुतयः ऊर्जमन्नरसमाह्वयन्ति ये यैर्वा ते ऊर्जाहुतयः । तथा विप्राय मेधाविने इन्द्राय मतिं विशिष्टबुद्धिं व्यन्तः जानन्तो गमयन्तो वा । वीत्यस्य गतिकर्मणो धातोः शतृप्रत्यये रूपम् । उपयाम० एष ते इति व्याख्याते ( का० १४ । २ । । ७)। उपर्युपर्यक्षमध्वर्युर्धारयत्यधोऽधो नेष्टा संपृचाविति । अध्वर्युः सोमग्रहमक्षोपरि धारयति नेष्टा सुराग्रहमक्षाधस्तात् । सहैव धारणं मन्त्रपाठश्च । ग्रहदेवते यजुषी । हे सोमसुराग्रहौ, यौ युवां संपृचौ स्थः संपृक्तौ भवथः । 'पृची संपर्के' क्विप् । तौ युवां मा मां भद्रेण भन्दनीयेन कल्याणेन संपृङ्क्तं संसृजतं संयोजयतम् । 'विपृचावित्याहरते' ( का० १४ । २ । ८) इति । अध्वर्युनेष्टारौ स्वं स्वं ग्रहं स्वसमीपमानयतः । हे ग्रहौ, यतो युवां विपृचौ वियुक्तौ स्थः ततो मा मां पाप्मना विपृङ्क्तं वियोजयतम् ॥ ४ ॥

पञ्चमी
इन्द्र॑स्य॒ वज्रो॑ऽसि वाज॒सास्त्वया॒यं वाज॑ᳪ से॑त् । वाज॑स्य॒ नु प्र॑स॒वे मा॒तरं॑ म॒हीमदि॑तिं॒ नाम॒ वच॑सा करामहे ।
यस्या॑मि॒दं विश्वं॒ भुव॑नमावि॒वेश॒ तस्यां॑ नो दे॒वः स॑वि॒ता घर्मं॑ साविषत् ।। ५ ।।
उ० रथमुपावहरति । इन्द्रस्य वज्रोऽसि । इन्द्रो ह यत्र वृत्राय वज्रं प्रजहारेत्युपक्रम्य रथस्तृतीयं वा यावद्वेति | यदुक्तं तदिदमभिधीयते । यस्त्वमिन्द्रस्य वज्रोऽसि वाजसाश्च । वाजमन्नं सनोतीति वाजसाः तं त्वां ब्रवीमि । त्वया वज्रीभूतेनायं यजमानो वाजमन्नं सेत् । सनोतेर्वा एतद्रूपम् । सनुयात् संभजेदित्यर्थः । सिनुयाद्बध्नीयादित्यर्थः । धूर्गृहीतमभ्यावर्तयति । वाजस्य नु । जगत्यतिजगती वा पार्थिवी। चतुर्थः पादः सावित्रः । वाजस्य अन्नस्य । नु अनर्थकः । | प्रसवे अभ्यनुज्ञायां वर्तमाना इति शेषः । या मातरं जगन्निर्मात्रीं महीं महतीम् अदितिम् अदीनां नाम । ताम् अनुकूलां वचसा वेदवाक्येनानेन करामहे कृतवन्तः साहसिकाः । आत्मनेपदं करोतेः । यस्यां चेदं विश्वं भुवनं भूतजातम् आविवेश आविष्टम् । तस्यां पृथिव्यां नोऽस्माकं देवः दानादि गुणयुक्तः सविता सर्वस्य प्रसविता । घर्मं धारणमवस्थानं साविषत् प्रसुवताम् ॥ ५॥
म० 'मरुत्वतीयान्त इन्द्रस्य वज्र इति रथावहरणमिति' ( का० १४ । ३ । १)। महामरुत्वतीयान्ते माहेन्द्रात्पूर्वं रथवाहनाच्छकटाद्रथमवतारयति। रथदेवत्यं यजुः। हे रथ, त्वमिन्द्रस्य वज्रोऽसि । इन्द्रेण यदा वृत्राय वज्रं प्रहृतं तत्त्रिधा जातं तस्यैको भागो रथ इति 'इन्द्रो ह यत्र वृत्राय वज्रं प्रजहार' (१।२।४।१) इत्यादिश्रुत्या उक्तम् । किंभूतस्त्वम् । वाजसाः वाजमन्नं सनोति ददातीति वाजसाः । 'षणु दाने' विट्प्रत्ययः 'विड्वनोरनुनासिकस्यात्-' (पा० ६।४।४१) इत्याकारः । किंच