पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अयं यजमानस्त्वया वज्रीभूतेन सहायेन वाजमन्नं सेत् । सनोतेः सिनोतेर्वा रूपम् । अन्नं सनुयात्संभजेत । यद्वा सिनुयाद्बध्नीयात्। बह्वन्नवान्भूयादित्यर्थः । 'चात्वालमावर्तयति वाजस्येति धूर्गृहीतमिति' (का० १४।३।२) । अवतारितं रथं धुरि गृहीत्वा चात्वालाद्दक्षिणेनानीय वेद्यां स्थापयेत् । पृथिवीदेवत्यातिजगती अन्त्यः पादः सवितृदेवत्यः । नु एवार्थे । वाजस्यान्नस्य प्रसवेऽनुज्ञायामेव वर्तमाना वयं यां भूमिं नाम प्रसिद्धं यथा तथा वचसा वेदवाक्येन एवंविधामनुकूलां करामहे कृतवन्तः कुर्महे वा । करोतेः शपि रूपम् । किंभूतां भूमिम् । मातरं जगन्निर्मात्रीं महीं महतीं महनीयां वा अदितिमदीनामखण्डितां वा । किंच इदं विश्वं भुवनं सर्वं भूतजातं यस्यां भूमावाविवेश आविष्टम् । सविता देवस्तस्यां भूमावेव नोऽस्माकं घर्मं धारणमवस्थानं साविषत् प्रसुवतां प्रेरयतु । 'षू प्रेरणे' इति धातोर्णिजन्तस्य लेटि साविषदिति रूपम् 'सिब्बहुलं लेटि' (पा० ३ । १ । ३४) 'लेटोऽडाटौ' (पा० ३ । ४ । ९४ ) 'इतश्च लोपः परस्मैपदेषु' ( पा० ३ । ४ । ९७ ) इति सूत्रैः ॥ ५॥

षष्ठी।
अ॒प्स्वन्तर॒मृत॑म॒प्सु भे॑ष॒जम॒पामु॒त प्रश॑स्ति॒ष्वश्वा॒ भव॑त वा॒जिन॑: ।
देवी॑रापो॒ यो व॑ ऊ॒र्मिः प्रतू॑र्तिः क॒कुन्मा॑न् वाज॒सास्तेना॒यं वाज॑ᳪ सेत् ।। ६ ।।
उ० अश्वानद्भिरभ्युक्षति । अप्स्वन्तः । अनवसाना पुरउष्णिक् अश्वदेवत्या । अप्सु अन्तरवस्थितममृतम् अप्सु च भेषजम् । तत्र हे अश्वाः, यूयं भवत वाजिनः । वाज इत्यन्ननाम तद् येषु विद्यते ते वाजिनः । अन्नवन्तो यूयं तत्र भवतेत्यर्थः । अपामुत प्रशस्तिषु । उत अपिच अपां प्रशस्तिषु प्रशस्तेषु पवित्रेषु भागेषु भवतेत्यनुषज्यते । द्वितीयः प्रोक्षणमन्त्रः । देवीरापः । हे देव्यः आपः, यो व ऊर्मिः प्रतूर्तिः । वो युष्माकम् ऊर्मिः कल्लोलो महानुदकसन्नाहः । प्रतूर्तिः प्रत्वरणः । ककुन्मान् । ककुदितिशब्देन ऋषभस्य स्कन्धदेश उन्नत उच्यते । तत्सामान्यादुदकसंघातोप्युन्नततमः ककुच्छब्देनोच्यते। बहुभिरुदकनिचयैः संयुक्तो महाप्राग्भार इत्यर्थः। वाजसाः अन्नस्य संभक्ता । तेनायमश्वः प्रोक्षितो वाजमन्नं सेत् । सनोतेः सिनोतेर्वा लिटि एतद्रूपम् । सनुयात् संभजेत् । सिनुयात् बध्नीयात् ॥ ६ ॥
म० 'अश्वान् प्रोक्षत्यपोऽवनीयमानान् स्नातान्वागतानप्स्वन्तरिति देवीराप इति वा समुच्चयो वेति' (का० १४ । ३ । ३ । ५) स्नानार्थमपो नीयमानान् स्नात्वागतान्वाश्वानप्स्वन्तरिति देवीराप इति मन्त्रेण वोभाभ्यां वा प्रोक्षेत् । अश्वदेवत्यावसानरहिता पुरउष्णिक् । अस्याः पाद आद्यो द्वादशाक्षरो द्वावष्टाक्षरौ । अप्सु उदकेषु अन्तर्मध्ये अमृतमवस्थितमप्सु भेषजमारोग्यपुष्टिकरमोषधं चावस्थितम् । हे अश्वाः, यूयं तत्रामृतभेषजयुतास्वप्सु वाजिनोऽन्नवन्तो भवत । उतापि च अपां प्रशस्तिषु प्रशस्तेषु भागेषु यूयं भवत । द्वितीयः प्रोक्षणमन्त्रः अब्देवत्यं यजुः । हे देवीः देव्यो दीप्यमाना आपः, वो युष्माकं य ऊर्मिः कल्लोलस्तेन सिक्तोऽयमश्वो वाजमन्नं सेत् सनुयाद् बध्नीयाद्वा । किंभूत ऊर्मिः । प्रतूर्तिः प्रकृष्टा तूर्तिर्वेगो यस्य प्रत्वरणशीलः। तथा ककुन्मान् ककुच्छब्देन वृषभस्कन्धे उन्नतप्रदेश उच्यते । सादृश्ये मतुप् । तत्सामान्यादुदकनिचयैः संयुक्तो बहुलोदकसंघातवान्ककुन्मानित्युच्यते । तथा वाजसाः अन्नस्य दाता ॥ ६ ॥

सप्तमी।
वातो॑ वा॒ मनो॑ वा गन्ध॒र्वाः स॒प्तवि॑ᳪशतिः । ते अग्रेऽश्व॑मयुञ्जँ॒स्ते अ॑स्मिञ्ज॒वमा द॑धुः ।। ७ ।।
उ० अश्वं युनक्ति । वातो वा उष्णिक् अश्वस्तुतिः । वाशब्दः समुच्चयार्थीयः । वनश्च मनश्च गन्धर्वाश्च सप्तविंशतिर्नक्षत्राणि । एते त्वां युञ्जन्तु । त्वयि च जवमादधातु । यतस्ते अग्ने प्रथममश्वमयुञ्जन् । ते अस्मिन् जवमादधुः ते च अस्मिन जवं वेगमाहितवन्तः ॥ ७ ॥
म० 'दक्षिणं युनक्ति वातो वेति' (का० १४ । ३ । ६)। दक्षिणमश्वं रथे योजयेत् । अश्वदेवत्या उष्णिक् । वाशब्दौ समुच्चयार्थौ । वातो वायुर्मन इन्द्रियं सप्तविंशतिर्नक्षत्राणि गन्धर्वा गोभूमेर्धर्तारः ते वातादयोऽग्रे पूर्वमश्वमयुञ्जन् रथे योजितवन्तः । ते च वातादयोऽस्मिन्नश्वे जवं वेगमादधुः स्थापितवन्तः ॥७ ॥

अष्टमी।
वात॑रᳪहा भव वाजिन्यु॒ज्यमा॑न॒ इन्द्र॑स्येव॒ दक्षि॑णः श्रि॒यैधि॑ ।
यु॒ञ्जन्तु॑ त्वा म॒रुतो॑ विश्व॒वेद॑स॒ आ ते॒ त्वष्टा॑ प॒त्सु ज॒वं द॑धातु ।। ८ ।।
उ० द्वितीयं युनक्ति । वातरंहा त्रिष्टुप् अश्वस्तुतिः । रिहतिर्गत्यर्थः । वातजवो भव हे वाजिन् , युज्यमानः सन् । इन्द्रस्येव च दक्षिणोऽश्वः श्रिया एधि भव अस्य यजमानस्य । युञ्जन्तु त्वां मरुतो विश्ववेदसः सर्वधना वा सर्वज्ञाना वा। आदधातु च ते तव त्वष्टा पत्सु पादेषु जवं वेगं युक्तस्य सतः ॥ ८॥
म० 'उत्तरं वातरᳪहा इति' ( का० १४ । ३ । ७)। उत्तरमश्वं युनक्ति । अश्वदेवत्या त्रिष्टुप् । हे वाजिन् वेगवन्नश्व, युज्यमानः सन् त्वं वातरंहा वातवद्वेगयुक्तो भव वातस्येव रंहो यस्य । किंच दक्षिणो दक्षिणभागे स्थितस्त्वमिन्द्रस्याश्व इव श्रिया शोभया युक्त एधि भव । किंच विश्ववेदसः सर्वज्ञाः सर्वधना वा मरुतः हे अश्व, त्वां युञ्जन्तु रथे नियोजयन्तु । | किंच त्वष्टा देवः हे अश्व, ते तव पत्सु पादेषु जवं वेगमादधातु स्थापयतु ॥८॥