पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नवमी।
ज॒वो यस्ते॑ वाजि॒न्निहि॑तो॒ गुहा॒ यः श्ये॒ने परी॑त्तो॒ अच॑रच्च॒ वाते॑ ।
तेन॑ नो वाजि॒न् बल॑वा॒न् बले॑न वाज॒जिच्च॒ भव॒ सम॑ने च पारयि॒ष्णुः ।
वाजि॑नो वाजजितो॒ वाज॑ᳪ सरि॒ष्यन्तो॒ बृह॒स्पते॑र्भा॒गमव॑जिघ्रत ।। ९ ।।
उ० तृतीयं युनक्ति । जवो यस्ते । जगती अश्वस्तुतिः । जवो वेगो यस्ते तव हे वाजिन् , निहितः स्थापितः गुहा । गुहायामिति विभक्तिव्यत्ययः । गुहाशब्दो रहस्यवचनः । यश्च श्येने पक्षिणि परीत्तः। परिपूर्वस्य तनोतेरेतद्रूपम् । परिततो व्यवस्थितः अचरच्च वाते यश्च वाते त्वदीयो जवः अचरत् । तेन नो वाजिन्बलवान्बलेन वेगलक्षणेन बलेन बलवान् भूत्वा हे वाजिन् , नोऽस्माकं वाजजिच्च भव अन्नस्य च जेता भव । समने च पारयिष्णुः समने च संग्रामे च पारयिता भव । बार्हस्पत्यमश्वानवघ्रापयति । वाजिनो वाजजितः। हे वाजिनोऽश्वाः वाजजितः अन्नस्य जेतारः वाजमन्नं जेतुं सरिष्यन्तो बृहस्पतेर्भागं चरुम् अवजिघ्रत ॥९॥
म० 'दक्षिणाप्रष्टिं जवो यस्त इति' (का. १४ । ३ । ८)। दक्षिणायां धुरि प्रकृष्टं देशमश्नुत इति दक्षिणाप्रष्टिस्तादृशं तृतीयमश्वं युनक्ति । अश्वदेवत्या जगती । हे वाजिन्नश्व, यस्ते तव जवो वेगः गुहा गुहायां हृदयप्रदेशे निहितोऽवस्थापितः । 'सुपां सुलुक्' ( पा० ७ । १ । ३९) इति गुहाशब्दात् ङेर्लुक् । श्येने श्येनाख्ये पक्षिणि यो जवः परीत्तः त्वयैव परिदत्तः सन् अचरत् चरति प्रवर्तते । यश्च ते जवः परिदत्तः सन् वाते अचरत् वायौ चरति । परिपूर्वाद्ददातेर्निष्ठायां 'अच उपसर्गात्तः' (पा. ७ । ४ । ४७) इति तादेशे 'दस्ति' ( पा० ६ । ३ । १२४ ) इति दादेशे तकारे परे इगन्तोपसर्गस्य दीर्घे परीत्त इति । हे वाजिन् , तेन त्रिविधेन बलेन वेगलक्षणेन बलवान्वेगवान्सन्नोऽस्माकं वाजजित् अन्नस्य जेता भव । च पुनः समने सङ्ग्रामे पारयिष्णुः पारयिता च पारप्रापको भव । 'पार तीर कर्मसमाप्तौ' इत्यस्माच्चुरादिणिजन्तात् 'णेश्छन्दसि' (पा० ३ । २ । १३७ ) इतीष्णुप्रत्ययः । 'बार्हस्पत्यमेनानाघ्रापयति वाजिन इति' (का० १४ । ३ । १०) । बार्हस्पत्यं चरुमश्वानाघ्रापयेत् । अश्वदेवत्यं यजुः । वाजजितोऽन्नस्य जेतारो वाजमन्नं प्रति सरिष्यन्तो गमिष्यन्तो हे वाजिनोऽश्वाः, यूयं बृहस्पतेर्भागं चरुमवजिघ्रत आघ्राणं कुरुत ॥ ९॥

दशमी
दे॒वस्या॒हᳪ स॑वि॒तुः स॒वे स॒त्यस॑वसो॒ बृह॒स्पते॑रुत्त॒मं नाक॑ᳪ रुहेयम् ।
दे॒वस्या॒हᳪ स॑वि॒तुः स॒वे स॒त्यस॑वस॒ इन्द्र॑स्योत्त॒मं नाक॑ᳪ रुहेयम् ।
दे॒वस्या॒हᳪ स॑वि॒तुः स॒वे स॒त्यप्र॑सवसो॒ बृह॒स्पते॑रुत्त॒मं नाक॑मरुहम् ।
दे॒वस्या॒हᳪ स॑वि॒तुः स॒वे स॒त्यप्र॑सवस॒ इन्द्र॑स्योत्त॒मं नाक॑मरुहम् ।। १० ।।
उ० ब्रह्मा रथचक्रमारोहति । देवस्याहं सवितुः सवे अभ्यनुज्ञायां सत्यसवसः सत्याभ्यनुज्ञायां वर्तमानस्य बृहस्पतेः संबन्धि उत्तममुत्कृष्टं नाकं स्वर्गलोकं रुहेयम् आरो
हामि । देवस्याहं सवितुः सवे सत्यसवस इन्द्रस्योत्तमं नाकं रुहेयमिति देवतामात्रं विशेषः । रथचक्रादवतरति । देवस्याहं सवितुः सवे सत्यप्रसवसौ बृहस्पतेरुत्तमं नाकम् अरुहम् । प्रशब्दः प्रकर्षद्योतनार्थः । अरुहमिति च भूतकालाभिधायी। भूतो हि कालः । आरूढवानस्मीत्यर्थः । शेषमारोहणमन्त्रेण समानम् । इन्द्रस्य इति उत्तरे मन्त्रे विशेषः ॥ १०॥ |
म० 'देवस्याहमिति ब्रह्मा रथचक्रमारोहत्युत्करे नाभिमात्रे स्थाणौ स्थितमिति' ( का० १४ । ३ । १२)। उत्करप्रदेशे निखातस्य नाभिमात्रकाष्ठस्याग्रे स्थितं रथचक्रं ब्रह्मारोहेत् । ब्राह्मणकर्तृके वाजपेये लिङ्गोक्तदेवतम् । सत्यसवसः सत्याभ्यनुज्ञस्य सवितुर्देवस्य सवेऽनुज्ञायां वर्तमानोऽहं बृहस्पतेः संबन्धिनमुत्तममुत्कृष्टं नाकं स्वर्गं रुहेयमारोहामि । क्षत्रियवाजपेये चक्रारोहमन्त्रः । तत्र इन्द्रस्य नाकं रुहेयमिति विशेषः । | 'आगतेषु ब्रह्मावरोहति देवस्याहमिति' (का० १४ । ४ । ८)। यजमानादीनां सप्तदशरथेषु सप्तदशशरप्रक्षेपप्रदेशे निखातामौदुम्बरीं शाखां प्रदक्षिणीकृत्य देवयजनदेशमागतेषु सत्सु ब्रह्मा रथचक्रादवरोहति । विप्रयज्ञे पूर्वमन्त्रेण क्षात्रे उत्तरेण । सत्यं प्रकृष्टं च सवो यस्येति सत्यप्रसवाः । अत्र प्रशब्दः प्रकर्षद्योतकः । अरुहमिति भूतकालः नाकमारूढवानस्मीत्यर्थः । शेषं पूर्ववत् ॥ १० ॥

एकादशी।
बृह॑स्पते॒ वाजं॑ जय॒ बृह॒स्पत॑ये॒ वाचं॑ वदत॒ बृह॒स्पतिं॒ वाजं॑ जापयत ।
इन्द्र॒ वाजं॑ ज॒येन्द्रा॑य॒ वाचं॑ वद॒तेन्द्रं॒ वाजं॑ जापयत ।। ११।।
उ० दुन्दुभिमाहन्त्येकं सर्वेषां तु संस्कारो बहुवचनान्तत्वान्मन्त्रस्य । बृहस्पते वाजं जय । हे दुन्दुभयः, यूयमुच्यध्वम् बृहस्पतये वाजमन्नं जय इत्थंभूतां वाचं बृहस्पतयेऽर्थाय वदत । बृहस्पतिं च वाजमन्नं जेष्यामीति जापयत । 'जप जल्प व्यक्तायां वाचि' । जपतेः 'हेतुमति च' इति णिच्लोट् मध्यमपुरुषस्य बहुवचनम् । जापयत उद्वादय । बृहस्पतिना वाजं जितमित्यर्थः । 'जि जये' इत्यस्य वा जयं कारयतेति वा । इन्द्रवाजं जयेति देवतामात्रविशेषः ॥ ११ ॥
म० 'बृहस्पते वाजमित्येकं दुन्दुभिमाहन्ति तूष्णीमितरानिति' (का. १४ । ३ । १५) अनुवेद्युच्छ्रितस्थाण्वारोपितसप्तदशदुन्दुभीनां मध्ये एकं मन्त्रेणाहन्ति षोडश तूष्णीम् । यजुः विप्रयज्ञे मन्त्रः हे दुन्दुभयः, यूयं बृहस्पतये इति वाचं