पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दानीमवरोहक्रममाह । ततो द्युलोकादवरोहणकाले यज्ञो मनुष्यात् मनुष्यलोकमागच्छन् अन्तरिक्षलोकमगन् गतः । तत्र स्थितात् यज्ञाद् द्रविणं यज्ञफलं मामष्टु व्याप्नोतु । दक्षिणायने पु गमनागमनमाह । अयं यज्ञो धूमादिमार्गेण पितॄन्प्राप्य पृथिवीं भूलोकमगन् तत्र स्थिताद्यज्ञाद्द्रविणं मामष्टु व्याप्नोतु । किं बहुना । यं कंच यं कमपि लोकं यज्ञोऽगन् गतस्तस्माद् यज्ञात् मे मम भद्रं कल्याणमभूद्भूयादिति यजमानेनाशास्यते ॥ ६० ॥

एकषष्टी।
चतु॑स्त्रिᳪश॒त्तन्त॑वो॒ ये वित॑त्नि॒रे य इ॒मं य॒ज्ञᳪ स्व॒धया॒ दद॑न्ते ।
तेषां॑ छि॒न्नᳪ सम्वे॒तद्द॑धामि॒ स्वाहा॑ घ॒र्मो अप्ये॑तु दे॒वान् ।। ६१ ।।
उ० महावीरभेदे होमः । चतुस्त्रिᳪशत्। पङ्क्तिर्वा त्रिष्टुब्वा । चतुस्त्रिंशत्तन्तवो यज्ञस्य परमेष्ठ्यादयो ये यज्ञं वितत्निरे वितन्वन्ति । ये च इमं यज्ञं स्वधया अन्नेन ददन्ते । 'दद दाने' इत्यस्यैतद्रूपम् । पुष्यत्यर्थस्य तु पुष्णन्ति तेषां वितन्वतां यच्छिन्नं तदेतत्संदधामि । उकारोऽनर्थकः । स्वाहा सुहुतमस्तु । घर्मो महावीरो देवान् अपि गच्छतु ॥ ६१ ॥
म०. धर्मदेवत्या पतिस्त्रिष्टुब् वा द्वाचत्वारिंशदक्षरत्वात् । कात्यायनेनास्या विनियोगो नोक्तः । महावीरभेदे घृतहोमः शाखान्तरे। तन्वन्ति प्रायश्चित्तशमनेन यज्ञं विस्तारयन्तीति तन्तवो देवाश्चतुस्त्रिंशत्संख्याका ये परमेष्ठ्यादय इमं यज्ञं वितत्निरे वितेनिरे वितन्वन्ति । तनोतेर्लिटि तङि प्रथमबहुवचने 'लिटि धातोरनभ्यासस्य' (पा० ६ । १ । ८) इति द्वित्वे 'तलिपत्योश्छन्दसि' (पा० ६ । ४ । ९९ ) इत्युपधालोपे तत्निरे इति रूपम् । ये चेमं स्वधयान्नेन ददन्ते धारयन्ति 'दद दानधारणयोः' तेषां यज्ञं वितन्वतां देवानां यत् छिन्नं तदेतत् अहं संदधामि । उकारः पादपूरणः । स्वाहा सुहुतमस्तु । अनेन घृतहोमेन महावीरः संहितो भवत्वित्यर्थः । घर्मो महावीरः सविता सन्देवानप्येतु देवान्प्रति गच्छतु ॥ ६१ ॥

द्विषष्टी।
य॒ज्ञस्य॒ दोहो॒ वित॑तः पुरु॒त्रा सो अ॑ष्ट॒धा दिव॑म॒न्वात॑तान ।
स य॑ज्ञ धुक्ष्व॒ महि॑ मे प्र॒जाया॑ᳪ रा॒यस्पोषं॒ विश्व॒मायु॑रशीय॒ स्वाहा॑ ।। ६२ ।।
उ० यज्ञस्य दोह इति वाचयति । त्रिष्टुप् । प्रथमोऽर्धर्चो परोक्षो यज्ञः, द्वितीयः प्रत्यक्षो यज्ञः, अतो यत्तद्यां वाक्यपरिपूर्तिः क्रियते । यस्य तव यज्ञस्य सतः दोहः आहुतिपरिणामः विततः प्रसारितः पुरुत्रा बहुधा । ब्रह्मादिस्तम्बपर्यन्तो भूतग्रामो यज्ञपरिणाम इत्याशयः । य एवं दोहो दिग्भेदेनाष्टधा भिद्यमानो द्युलोकमन्वाततान भूमिमन्तरिक्षं च व्याप्य द्युलोकमन्वाततान स त्वं हे यज्ञ, धुक्ष्व प्रक्षर दोहं महि महान्तम् मे मम प्रजायाम् । अहं च रायस्पोषं धनस्य पुष्टिं विश्वं सर्वं च आयुः अशीय व्याप्नुयां त्वत्प्रसादात् ॥६२॥
म० 'सोमेज्योपपाते चैकैकां यथाकालᳪ हुत्वा यज्ञस्य दोह इति वाचयतीति' (का० २५ । ६ । ७)। सोमयागे यज्ञाङ्गविनाशे परमेष्ठ्यादिचतुस्त्रिंशदाहुतीनां मध्ये यथाकालम् 'अथ यदि पण्यमाने' ( १२ । ५। १ । १० ) इत्यादिश्रुत्युक्ते काले एकैकामाहुतिं हुत्वा यजमानं वाचयेत् । यज्ञदेवत्या त्रिष्टुप् । पूर्वार्धः परोक्षो द्वितीयः प्रत्यक्षोऽतो यच्छब्दाध्याहारेण योजना । हे यज्ञ, स त्वं मे मम प्रजायां सन्ततौ महि महिमानं धुक्ष्व क्षर देहीत्यर्थः । यद्वा महि महान्तं पूर्वोक्तं दोहं धुक्ष्व । अहं च त्वत्प्रसादाद्रायो धनस्य पोषं पुष्टिं विश्वं सर्वमायुश्चाशीय व्याप्नुयाम् । स कः । यस्य यज्ञस्य यजनीयस्य तव दोह आहुतिपरिणामः स प्रसिद्धो यज्ञफलरूपः पुरुत्रा बहुधा विततः प्रसृतः सन् दिग्भेदेनाष्टधा भिद्यमानो द्युलोकमन्वाततान व्याप । भूमिमन्तरिक्षं च व्याप्य स्वर्गं व्यापेत्यर्थः। ब्रह्मादिस्तम्बपर्यन्तो भूतग्रामो यज्ञपरिणाम इति भावः ॥ ६२ ॥

त्रिषष्टी।
आ प॑वस्व॒ हिर॑ण्यव॒दश्व॑वत्सोम वी॒रव॑त् । वाजं॒ गोम॑न्त॒मा भ॑र॒ स्वाहा॑ ।। ६३ ।।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायामष्टमोऽध्यायः॥८॥
उ० ध्वाङ्क्षारोहणे यूपस्य होमः । आपवस्व गायत्री सौमी पावमानी । हे सोम, आपवस्व प्रक्षर । हिरण्यवत् । क्रियाविशेषणान्येतानि । हिरण्यसंयुक्तम् । अश्ववदश्वसंयुक्तम् । वीरवत् वीरैः संयुक्तम् । वाजमन्नं च गोमन्तं गोभिः संयुक्तम् आभर । 'हृग्रहोर्भश्छन्दसि' इति हकारस्य भकारः। अकृपणमाहर ॥ ६३ ॥
इति उवटकृतौ मन्त्रभाष्ये अष्टमोऽध्यायः ॥ ८॥
म० 'आपवस्व हिरण्यवदित्युद्गातृहोमो ध्वाङ्क्षारोहणे यूपस्येति' ( का० २५। ६ । ९)। पशौ सोमे च यूपस्य काकारोहणे उद्गात्रा होमः कार्यः । सोमदेवत्या गायत्री कश्यपदृष्टा । । हे सोम, त्वमापवस्व आगच्छ । तत्र क्रियाविशेषणानि । कथं हिरण्यवत्कनकयुक्तमश्ववदश्वयुक्तं वीरवद् वीरयुक्तं यथा तथा याहीत्यर्थः । स्वर्णाश्ववीरान्मह्यं देहीत्यर्थः । किंच हे सोम, गोमन्तं धेनुयुक्तं वाजमन्नमाभर आहर । अन्नं धेनूंश्च देहीत्यर्थः । स्वाहा सुहुतमस्तु । 'हृग्रहोर्भश्छन्दसि' (पा० ८।२। | ३२ ) इति भकारः ॥ ६३ ॥ प्रायश्चित्तानि समाप्तानि ।
श्रीमन्महीधरकृते वेददीपे मनोहरे।
ग्रहग्रहान्निमित्तान्तोऽष्टमोऽध्यायः समीरितः ॥ ८॥