पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टपञ्चाशी।
विश्वे॑ दे॒वाश्च॑म॒सेषून्नी॒तोऽसु॒र्होमा॒योद्य॑तो रु॒द्रो हू॒यमा॑नो॒ वातो॒ऽभ्यावृ॑त्तो नृ॒चक्षा॒: प्रति॑ख्यातो भ॒क्षो भ॒क्ष्यमा॑णः पि॒तरो॑ नाराश॒ᳪसाः ।। ५८ ।।
म० चमसेषु ग्रहपात्रेषून्नीतो गृहीतः सोमो विश्वदेवसंज्ञो भवति तदा विश्वेभ्योदेवेभ्यः स्वाहेति जुहुयात् । होमार्थमुद्यतः सोमोऽसुसंज्ञो भवति तदा असवे स्वाहेति जुहुयात् । हूयमानः सोमो रुद्रो भवति तदा रुद्राय स्वाहेति जुहुयात् । अभ्यावृत्तः होमशेषीभूतः सदः प्रति भक्षणार्थमानीतः सोमो वातो भवति तदा वाताय स्वाहेति जुहुयात् । प्रतिख्यातः ब्रह्मन्नुपह्वयस्वेत्यादिना भक्षणार्थं पृष्टः सोमो नृचक्षा भवति नॄन् मनुष्यान् चष्टे शुभाशुभकारिणः पश्यतीति नृचक्षाः तदा नृचक्षसे स्वाहेति जुहुयात् । भक्ष्यमाणः पीयमानः सोमो भक्षो भवति तदा भक्षाय स्वाहेति जुहुयात् । भक्षयित्वा सन्नः स्वखरेषु सादितः सोमो नाराशंसाः पितरो भवन्ति नरो अस्मिन्नासीनाः शंसन्तीति नराशंसो यज्ञस्तत्र हिता योग्या वा नाराशंसा नाराशंसगुणविशिष्टाः पितरः तदा निमित्तापत्तौ पितृभ्यो नाराशंसेभ्यः स्वाहेति जुहुयात् ॥ ५८ ॥

एकोनषष्टी।
स॒न्नः सिन्धु॑रवभृ॒थायोद्य॑तः समु॒द्रो॒ऽभ्यवह्रि॒यमा॑णः स॑लि॒लः प्रप्लु॑तो
ययो॒रोज॑सा स्कभि॒ता रजा॑ᳪसि वी॒र्ये॑भिर्वी॒रत॑मा॒ शवि॑ष्ठा ।
या पत्ये॑ते॒ अप्र॑तीता॒ सहो॑भि॒र्विष्णू॑ अग॒न्वरु॑णा पू॒र्वहू॑तौ ।। ५९ ।।
उ० स्कन्नमभिमृशति । ययोरोजसा । वैष्णवीवारुणी त्रिष्टुप् । ययोर्विष्णुवरुणयोः ओजसा बलेन । स्कभिता रजाᳪसि। स्कभ्नोतिः स्तम्भनार्थः । लोका रजांस्युच्यन्ते । स्तंभिता लोका न चलन्ति । यौ च वीर्येभिर्वीर्यैः स्वकीयैवीरतमौ शविष्ठौ बलिष्ठौ च श्येनाविव परबलेषु पततः । अप्रतीतौ अप्रतिगतौ अनन्याश्रितौ । सहोभिः स्वकीयैरेव बलैः तौ विष्णुवरुणौ तुल्यकार्यत्वादुभावपि विष्णू उभावपि वरुणौ । द्वितीयाद्विवचनमेतत् । अगन् गतो यज्ञः । यज्ञसाधनभूतं स्कन्नं द्रव्यं यज्ञशब्देनोच्यते । पूर्वहूतौ पूर्वस्मिन्नाह्वाने यावत्प्रधानं न हूयते तावद्विष्णुवरुणौ प्रति यज्ञो गत इत्यर्थः । यद्वा पूर्वं हूयेते इति पूर्वहूतौ विष्णुवरुणौ प्रति अगन्प्रत्यगच्छत् । गतो यज्ञ इति संबन्धः ॥ ५९ ॥
म० अवभृथार्थमुद्यतः सोमः सिन्धुर्भवति तदा सिन्धवे स्वाहेति जुहुयात् । जलमभिमुखं नीयमानः सोमः समुद्रो भवति तदा समुद्राय स्वाहेति जुहुयात् । प्रप्लुतोऽप्सु निमग्नः सोमः सलिलो भवति तदा प्रायश्चित्तापत्तौ सलिलाय स्वाहेति जुहुयात् । एताभिर्यज्ञाहुतिभिर्यज्ञः चिकित्सितः प्रतिसंहितश्च भवतीत्यर्थः । तथाच श्रुतिः ‘ता वा एताश्चतुस्त्रिᳪशतमाज्याहुतीर्जुहोति त्रयस्त्रिᳪशद्वै देवाः प्रजापतिश्चतुस्त्रिᳪश एतदु सर्वैर्देवैर्यज्ञं भिषज्यति सर्वैर्देवैर्यज्ञं प्रतिसंदधातीति' ( १२ । ५। १ । ३७) । 'ययोरोजसेति चोदकेनोपसिञ्चेदिति' ( का. २५ । २ । ९)। अभिमर्शनेन विकल्पः । स्कन्नं रसरूपं सोमं जलेन सिञ्चेत् कालाहुतिहोमं वाचनं च कृत्वेति ज्ञेयम् । विष्णुवरुणदेवत्या त्रिष्टुप् । पूर्वार्धे यच्छब्दोपादानात्तच्छब्दाध्याहारः। तौ विष्णू तौ वरुणौ । एकत्र विष्णुशब्दस्यैकशेषोऽन्यत्र वरुणशब्दस्य तुल्यकार्यत्वादुभावपि विष्णू उभावपि वरुणौ कर्मभूतौ प्रति अगन् गतं स्कन्नं यज्ञसाधनमिति शेषः । कदा पूर्वहूतौ पूर्वस्मिन्नाह्वाने यावत्प्रधानं हूयते तावदेव विष्णुं वरुणं च प्रति स्कन्नं हविर्गतमित्यर्थः । विशेषणं वा । पूर्वं हूयेते तौ पूर्वहूतौ विष्णुवरुणौ प्रति हविरगन्निति संबन्धः । तौ कौ ययोर्विष्णुवरुणयोरोजसा बलेन रजांसि लोकाः स्कभिता स्तम्भितानि । 'लोका रजांस्युच्यन्ते' ( नि० ४ । १९) इति यास्कः । स्कभ्नोतिः स्तम्भनार्थः । किंच या यौ विष्णुवरुणौ पत्येते ईशाते ऐश्वर्यं कुर्वाते जगतामीश्वरावित्यर्थः । 'पत ऐश्वर्ये' दिवादिरात्मनेपदी । यद्वा पत्येते परसैन्येषु श्येनाविव पततः । किंभूतौ । वीर्येभिर्वीयैर्बलैर्वीरतमा अत्यन्तं वीरौ । तथा शविष्ठा । शव इति बलनाम । अत्यन्तं बलवन्तौ अतिशवस्विनौ शविष्ठौ 'विन्मतोर्लुक्' (पा० ५। ३ । ६५) इति विनिलोपे इष्ठनि टिलोपे शविष्ठाविति रूपम् । तथा सहोभिर्बलैरप्रतीता अप्रतिगतौ न केनापि संमुखं गन्तुं शक्यौ अनन्ययोध्यावित्यर्थः । न प्रतीयेते तावप्रतीतौ । एवंविधौ विष्णुवरुणौ प्रति स्कन्नं हविर्गतमित्यर्थः ॥ ५९ ॥

षष्टी।
दे॒वान्दिव॑मगन्य॒ज्ञस्ततो॑ मा॒ द्रवि॑णमष्टु मनु॒ष्या॒न॒न्तरि॑क्षमगन्य॒ज्ञस्ततो॑ मा॒ द्रवि॑णमष्टु
पि॒तॄन्पृ॑थि॒वीम॑गन्य॒ज्ञस्ततो॑ मा॒ द्रवि॑णमष्टु॒ यं कं च॑ लो॒कमग॑न्य॒ज्ञस्ततो॑ मे भ॒द्रम॑भूत् ।। ६०।।
उ० द्वितीयो मन्त्रविकल्पः । देवान्दिवम् । देवान् प्राप्य दिवं द्युलोकम् अगन् गतो यज्ञः ततो मा द्रविणमष्टु । ततो द्युलोकाद् द्रविणं यज्ञफलम् उत्पन्नं माम् अष्टु व्याप्नोतु । मनुष्यान् प्राप्य अन्तरिक्षलोकं गतो यज्ञः ततः उत्पन्नं फलं मा व्याप्नोतु पितॄन्प्राप्य पृथिवीलोकमगन् यज्ञः तत उत्पन्नं फलं मा व्याप्नोतु । अन्यमपि यं च कंच लोकं गतो यज्ञफलविशेषं ततो लोकात् मे मम भद्रमभूत् भवतु ॥ ६ ॥
म० 'देवान् दिवमिति सोमे' ( का० २५ । २ । ८)। सोमे स्कन्ने देवान् दिवमित्यभिमर्शनम् । अत्यष्टिर्यज्ञदेवत्या यजमानाशीः । अयं यज्ञो देवान्वाय्वादीन्प्राप्य दिवं द्युलोकमगन् अगच्छत् । ततो द्युलोकस्थाद् यज्ञात् द्रविणं विशिष्टभोगसाधनरूपं धनं यज्ञफलभूतं मा मामष्टु व्याप्नोतु । अश्नोतेः पदविकरणयोर्व्यत्ययः । अनेन सुकृतिनामारोहक्रममभिधाये