पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

म० 'परमेष्ठ्यादींश्चतुस्त्रिᳪशतं जुहोति घर्मदुग्ध्वाले चादोहे चोदीच्या दोहस्थानेऽन्यस्याः शालाया वा पुरस्तात्प्राच्याः पुच्छकाण्डाद्दक्षिणेऽस्थनि हुत्वा दोहयेत् पृषदाज्यस्कन्दने चैक इति' ( का० २५। ६ । १-६) । मृण्मयघर्मपात्रभेदे भिन्नमभिमृश्य परमेष्ठिने स्वाहा प्रजापतये स्वाहेत्यादीन्सलिलाय स्वाहेत्यन्तांश्चतुस्त्रिंशद्धोमाञ्जुहोति । घर्मदुहो गोर्मरणे तत्स्थाने उदङ्मुख्याः स्थितायाः पत्नीशालापूर्वभागे प्राङ्मुख्या वा पुच्छाद्दक्षिणेऽस्थनि परमेष्ठिने स्वाहेति चतुस्त्रिंशतमाज्याहुतीर्हुत्वा तां दोहयेत् । स्थालीस्थस्य स्रुक्स्थस्य वा पृषदाज्यस्य वा भ्रंशे एके आचार्याः परमेष्ठ्यादीञ्जुह्वतीति सूत्रार्थः । परमेष्ठ्यादयो देवा यज्ञस्य शरीराणि तस्मात्तत्तदवस्थायां होमे यज्ञश्चिकित्सितः प्रतिसंदितो भवति । तथाच श्रुतिः ‘सोमो वै राजा यज्ञः प्रजापतिस्तस्यैतास्तन्वो या एता देवता या एता आहुतीर्जुहोति स यद्यज्ञस्यार्च्छेद्यां तत्प्रति देवतां मन्येत तामनुसमीक्ष्य जुहुयाद्यदि दीक्षोपमत्स्वाहवनीये यदि प्रसुत आग्नीध्रे विवा एतद्यज्ञस्य पर्व स्रᳪसते यद्ध्वलति सा यैव तर्हि तत्र देवता भवति तयैवैतद्देवतया यज्ञं भिषज्यति तया देवतया यज्ञं प्रतिसन्दधातीति' ( १२ । ५।१।१-२)। अथ मन्त्रार्थः । आध्यायाद्वसिष्ठ ऋषिः । यदा सोमो यजमानेनाभिधीतः संकल्पितो भवति । मनसाभिध्यातस्तदा परमेष्ठी भवति । अयमर्थः । मनसा ध्यातः सोमो यदि नोपनमेत् तदा परमेष्ठिने स्वाहेति जुहुयादिति । तथाच श्रुतिः ‘स यद्येनं मनसाभिध्यातो यज्ञो नोपनमेत् परमेष्ठिने स्वाहेति जुहुयात्परमेष्ठी हि स तर्हि भवत्यपपाप्मानᳪ हत उपेनं यज्ञो नमतीति' ( १२ । ५।१। ३)। वाचि व्याहृतायां सोमेन यक्ष्ये इति वचस्युच्चारिते सति सोमः प्रजापतिनामको भवति तदा प्रायश्चित्तापत्तौ प्रजापतये स्वाहेति जुहुयादित्यर्थः । यदा सोमः अच्छाभिमुख्येन इतः प्राप्तस्तदा अन्धो भवति । सोमं प्रति गतौ किंचिन्निमित्तं चेत्तदा अन्धसे स्वाहेति जुहुयात् । सन्यां सोमस्य संभक्तौ सत्यां सोमः सवितृनामको भवति तदा प्रायश्चित्तापत्तौ सवित्रे स्वाहेति जुहुयात् । 'अथ यदि सातः किंचिदापद्येत सवित्रे स्वाहेति जुहुयात्' (१२ । ५।१।६) इति श्रुतेः । दीक्षायां सत्यां सोमो विश्वकर्मेत्युच्यते तदा विश्वकर्मणे स्वाहेति जुहुयात् । सोमः क्रीयतेऽनया सा सोमक्रयणी गौस्तस्यामानीतायां सत्यां सोमः पूषा भवति । तदा निमित्ते पूष्णे स्वाहेति जुहुयात् ॥ ५४ ॥

पञ्चपञ्चाशी।
(१)इन्द्र॑श्च म॒रुत॑श्च क्र॒यायो॒पोत्थि॒तो ऽसु॑रः प॒ण्यमा॑नो मि॒त्रः क्री॒तो विष्णु॑: शिपिवि॒ष्ट ऊ॒रावास॑न्नो॒ विष्णु॑र्न॒रन्धि॑षः ।। ५५ ।।
म०. क्रयाय द्रव्यदानेनात्मसात्करणायोपोत्थितः उपस्थापितः सोम इन्द्रामरुन्नामकश्च भवति तदा इन्द्राय मरुद्भ्यश्च स्वाहेति जुहुयात् । क्रीयमाणः सोमोऽसुरो भवति असुराय स्वाहेति तदा जुहुयात् । यजमानेन क्रीतः सोमो मित्रो भवति तदा मित्राय स्वाहेति जुहुयात् । ऊरौ यजमानोत्सङ्गे आसन्नः स्थितः सोमः शिपिविष्टो विष्णुर्भवति । शिपिषु प्राणिषु यज्ञेषु वा विष्टः प्रविष्ट एतद्गुणको विष्णुरित्यर्थः । तदा प्रायश्चित्तापत्तौ विष्णवे शिपिविष्टाय स्वाहेति जुहुयात् । प्रोह्यमाणः शकटेनोह्यमानः सोमो विष्णुर्नरन्धिषो भवति नरो धीयन्ते आरोप्यन्ते यस्मिन् स नरन्धिः संसारः तं स्यति नाशयति नरन्धिषः जगत्संहर्तृविशिष्टो विष्णुः । यद्वा 'रध हिंसायाम्' रध्यति हिनस्ति रन्धिषः हन्ता न रन्धिषः नरन्धिषः जगत्पालको वा विष्णुः । तदा विष्णवे नरन्धिषाय स्वाहेति जुहुयात् ॥ ५५ ॥
१ इतश्चतुर्णां मन्त्राणां भाष्यमस्मत्संपादितेषु चतुर्ष्वप्यादर्शेषु नोपलभ्यते।

षट्पञ्चाशी।
प्रो॒ह्यमा॑ण॒: सोम॒ आग॑तो॒ वरु॑ण आस॒न्द्यामास॑न्नो॒ ऽग्निराग्नी॑ध्र॒ इन्द्रो॑ हवि॒र्धाने ऽथ॑र्वोपावह्रि॒यमा॑णः ।। ५६ ।।
म० शकटादागतोऽवरूढः सोमनामको भवति तदा सोमाय स्वाहेति जुहुयात् । आसन्द्यां मञ्चिकायामुपविष्टः सोमो वरुणो भवति तदा वरुणाय स्वाहेति जुहुयात् । आग्नीध्रे वर्तमानः सोमोऽग्निर्भवति तदाग्नये स्वाहेति जुहुयात् । हविर्धाने वर्तमानः सोम इन्द्रो भवति तदेन्द्राय स्वाहेति जुहुयात् । 'हृदे त्वा मनसे त्वे' (अ० ७ क० १९ ) ति मन्त्रेण कण्डनार्थमुपावह्रियमाणः आनीयमानः सोमोऽथर्वनामको भवति तदाथर्वणे स्वाहेति जुहुयात् ॥ ५६ ॥

सप्तपञ्चाशी।
विश्वे॑दे॒वा अ॒ᳪशुषु॒ न्युप्तो॒ विष्णु॑राप्रीत॒पा आ॑प्या॒य्यमा॑नो य॒मः सू॒यमा॑नो॒ विष्णु॑: सम्भ्रि॒यमा॑णो वा॒युः पू॒यमा॑नः शु॒क्रः पू॒तः शु॒क्र: क्षी॑र॒श्रीर्म॒न्थी स॑क्तु॒श्रीः ।। ५७ ।।
म० अंशुषु सोमखण्डेषु न्युप्तः कण्डनं कृत्वारोपितः सोमो विश्वदेवनामको भवति तदा विश्वेभ्यो देवेभ्यः स्वाहेति जुहयात् । 'अᳪशुरᳪशुष्ट' ( अ० ५। क० ७) इत्यादिमन्त्रेण आप्याय्यमानः वर्ध्यमानः सोम आप्रीतपा विष्णुर्भवति । आ समन्तात्प्रीतान्स्वस्मिन्प्रीतिमतो भक्तान्पाति रक्षतीत्याप्रीतपाः सद्गुणविशिष्टः । तदा विष्णवे आप्रीतपाय स्वाहेति जुहुयात् । अभिषूयमाणः सोमो यमो भवति तदा यमाय स्वाहेति जुहुयात् । सम्यग्भ्रियमाणः पुष्यमाणः सोमो विष्णुर्भवति तदा विष्णवे वाहेति जुहुयात् । दशापवित्रेण पूयमानः सोमो वायुर्भवति तदा वायवे स्वाहेति जुहुयात् । पूतः सोमः शुक्रो भवति तदा शुक्राय स्वाहेति जुहुयात् । क्षीरेण दुग्धेन श्रीयते मिश्रीक्रियत इति क्षीरश्रीः तदा शुक्र एव सोमो भवति तदापि शुक्राय स्वाहेति जुहुयात् । सक्तुभिर्मिश्रितः सोमो मन्थी भवति तदा मन्थिने स्वाहेति जुहुयात् ॥ ५७ ॥