पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

स्वः स्वर्गं च पश्यामः ज्योतिरादित्यलक्षणं च । अविदामः इत्यनुवर्तते ॥ ५२ ॥
म० 'सत्रस्यर्द्धिं गायन्ति सत्रस्य ऋद्धिरिति' ( का० १२ । ४ । १२) । सर्वे दीक्षिता उत्तरहविर्धानापरकूवरीमालम्ब्य सत्रर्द्धिसंज्ञकं साम गायन्ति । बृहती यजमानानामात्मस्तुतिः सप्तैकादशनवार्णपादा। हे साम, सत्रस्य ऋद्धिः समृद्धिः त्वमसि अतो वयं यजमाना ज्योतिरादित्यलक्षणमगन्म प्राप्ताः । ततः अमृता अमरणधर्माणः अभूम भूताः । पृथिव्याः सकाशाद्दिवं द्युलोकमध्यारुहाम । अध्यारूढाः द्युलोकारूढाः ततो देवानिन्द्रादीनविदाम जानीमः पश्याम इत्यर्थः । वेत्तेर्व्यत्ययेन तुदादित्वे लङि रूपम् । ज्योतिर्ज्योतीरूपं स्वः स्वर्ग चाविदाम ॥ ५२ ॥

त्रिपञ्चाशी।
यु॒वं तमि॑न्द्रापर्वता पुरो॒युधा॒ यो न॑: पृत॒न्यादप॒ तं त॒मिद्ध॑तं॒ वज्रे॑ण॒ तं त॒मिद्ध॑तम् । दू॒रे च॒त्ताय॑ छन्त्स॒द्गह॑नं॒ यदिन॑क्षत् । अ॒स्माक॒ᳪ शत्रू॒न्परि॑ शूर वि॒श्वतो॑ द॒र्मा द॑र्षीष्ट वि॒श्वत॑: । भूर्भुव॒: स्व॒: सुप्र॒जाः प्र॒जाभि॑: स्याम सु॒वीरा॑ वीरैः सु॒पोषा॒: पोषै॑: ।। ५३ ।।
उ० दक्षिणस्य हविर्धानस्याधोक्षं संसर्पन्ति । युवं तमिन्द्रापर्वता । अतिच्छन्दा अष्टिः अत्यष्टिर्वा । त्र्यवसाना ऐन्द्री। प्रथमोऽर्धर्च ऐन्द्रापार्वतः । हे इन्द्रापर्वतौ, युवं तं यत्नमनुतिष्ठतम् । येन यत्नेन पुरोयुधा पुरोग्रे युत् युध्यतीति पुरोयुत् तेन पुरोयुधा बलेन । यो नः पृतन्यात् अप तं तमिद्धतमिति तदो वीप्साश्रवणाद्यदोऽपि वीप्सा क्रियते । यो यः शत्रुर्नोऽस्मान् पृतन्यात्संग्रमयेद्योधयेत् । अप तं तम् इद्धतम् । अपहतं विनाशयतं शत्रुम् । इच्छब्दोऽनर्थकः । वज्रेण तं तम् इत् हतम् । वज्रणेत्यायुधनियमः शत्रूणामुन्मूलनाय । व्याख्यातमन्यत् । इत उत्तरमिन्द्रः प्रत्यक्षो वज्रस्य तु कर्तृत्वं विवक्षितं परोक्षस्य सतः । दूरे चत्ताय छन्त्सत् । चततिर्गतिकर्मा । दूरे गताय नष्टाय शत्रवे । छन्त्सत् । छन्दतिः कामनार्थः । कामयताम् । हे इन्द्र, त्वदीयो वज्रः शत्रवे विनाशं कामयताम् । कथं परवशो वर्ततामिति चेत् कथं वज्रस्य शत्रुविनाशकामना इति चेत्, आत्मैषां रथो भवत्यात्माश्व आत्मायुधमित्यदोषः । गहनं यदिनक्षत् । गहनं वनमुच्यते उदकं वा । इनक्षतिर्व्याप्तिकर्मा । इनक्षत् रूपसादृश्यादुदकं वनं वा यत् व्याप्नोति पलाय्य गच्छति तथापि विनाशयति शत्रुर्ग्रहरूपेण तस्यापि विनाशं कामयतां त्वदीयो वज्रः । अस्माकᳪ शत्रून्परिशूर विश्वतो दर्मा दर्षीष्ट । हे शूर, त्वदीयो वज्रः अस्माकं ये शत्रवः तान्परिदर्षीष्ट । 'दॄ विदारणे' । परिविदारयतु । कथंभूतो वज्रः। दर्मा विदारणशीलः । कुतोऽवस्थितान् शत्रून् । विश्वतः सर्वतः । जपन्ति भूर्भुवःस्वः सुप्रजाः प्रजाभिः स्याम सुवीरा वीरैः सुपोषाः पोषैः । एकवचनान्तो व्याख्यातः । अयं तु बहुवचनान्तः ॥ ५३ ॥ सत्रोत्थानं समाप्तम् ॥
म० 'युवं तमिति दक्षिणस्याधोऽक्षं प्राञ्चो निःक्रामन्तीति' ( का० १२ । ४ । १४ )। सर्वे यजमाना दक्षिणहविर्धानाक्षाधोमार्गेण प्राङ्मुखाः निःसरन्ति । इन्द्रदेवत्यात्यष्टिरवसानत्रयोपेता षट्षष्ट्यक्षरत्वात् द्व्यूना आद्योऽर्धर्च इन्द्रपर्वतदेवत्यः । हे पुरोयुधा पुरोयुधौ पुरोऽग्रे युध्येते तौ पुरोयुधौ ‘इगुपध-' (पा० ३ । १ । १३५) इति कप्रत्ययः । शत्रूणां पुरतो युद्धस्य कर्तारौ हे इन्द्रापर्वता इन्द्रपर्वतौ, युवं युवां तं शत्रुमपहतं विनाशयतम् । आदरे वीप्सा तं तम् । इदेवार्थे । तं तमेव शत्रुमपहतं तत्तत्समानमेव सर्वमपि शत्रुं विनाशयतम् । | तत्रापि विशेष्यते । वज्रेण वज्राख्येनायुधेन तं तमित् तं तमेव शत्रुं विनाशयतम् । तदो वीप्साश्रवणाद्यदोऽपि वीप्सा । यो यः शत्रुर्नोऽस्मान्पृतन्यात् पृतनां सेनां कुर्यात् । योधयेदित्यर्थः । इदानीमिन्द्रः प्रत्यक्षो वज्रस्य कर्तृत्वं चोच्यते । हे शूर इन्द्र, त्वदीयो वज्रो यद्यदा गहनमत्यन्तगम्भीरं वनं जलं वा प्रति दूरे चत्ताय । चततिर्गतिकर्मा । वनेऽतिदूरगताय शत्रवे छन्त्सत् । छन्दतिः कामनार्थः । शत्रुं प्राप्तुं कामयते तदा तमपि दूरगतमिनक्षन्प्राप्नुयात् । इनक्षतिर्व्याप्तिकर्मा । वने दूरगतमपि इच्छन् गृह्णात्येवेत्यर्थः । ततो दर्मा दारयतीति दर्मा 'दॄ विदारणे' 'अन्येभ्योऽपि दृश्यन्ते' (पा० ३ । २ । ७५) । इति मनिन्प्रत्ययः । विदारणशीलो वज्रः अस्माकमस्मदीयान् विश्वतः सर्वतः स्थितान् विश्वतः सर्वाञ्शत्रून् परिदर्षीष्ट परितो विदारयतु । दीर्यतेराशीर्लिङि तङि रूपम् । 'पृथक्कामेषु भूर्भुव इति' ( का० १२ । ४ । २८)। नानाकामेषु यजमानेषु सर्वे वाग्विसर्जनं कुर्युः । हे भूर्भुवःस्वः अग्निवायुसूर्याः, वयं प्रजाभिः सुप्रजाः स्याम वीरैः पुत्रैः सुवीराः स्याम । पोषैः पुष्टिभिः सुपोषाः स्याम भवेम । एकवचनान्तोऽयं व्याख्यातः । अत्र तु बहुवचनान्तो मन्त्रः ॥ ५३ ॥

चतुःपञ्चाशी।
प॒र॒मे॒ष्ठ्य॒भिधी॑तः प्र॒जाप॑तिर्वा॒चि व्याहृ॑तायामन्धो॒ अच्छे॑तः । स॑वि॒ता स॒न्यां वि॒श्वक॑र्मा दी॒क्षायां॑ पू॒षा सो॑म॒क्रय॑ण्याम् ।। ५४ ।।
उ० परमेष्ठ्यभिधीतः । आअध्यायसमाप्तेर्नैमित्तिकानि । वसिष्ठस्यार्षम् । परमेष्ठ्यादिश्रुतिः चतुस्त्रिᳪशत्सु सोमावस्थासु चतुस्त्रिᳪशद्देवताभिधायिनी ऋज्वर्था। अभिधीतः अभिध्यातः संकल्पितो यजमानेन । सोमोपनायनमेतत् वाचोभिर्व्याहृतः । अहं सोमेन यक्ष्ये इत्युक्तं भवति । अच्छेतः। अच्छाभेराप्तुमिति शाकपूणिः । सोममभि इतो गतः सोमं व्याप्तुमितो गतः । अन्धोऽन्नमुच्यते । सविता सन्याम् । सनोतिः संभजनार्थः । सोमसंभक्तौ सत्याम् सलिलः प्रप्लुतः प्रप्लुतो निमग्नः । शेषं प्रगुणम् ॥ ५४॥