पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

लक्षणे जले त्वामाधूनोमि । किंच अह्नो दिवसस्य रूपे सूर्यस्य रश्मिषु हे सोम, त्वामाधूनोमि ॥४८॥

एकोनपञ्चाशी।
ककु॒भᳪ रू॒पं वृ॑ष॒भस्य॑ रोचते बृ॒हच्छु॒क्रः शु॒क्रस्य॑ पुरो॒गाः सोम॒: सोम॑स्य पुरो॒गाः ।
यत्ते॑ सोमा॒दा॑भ्यं॒ नाम॒ जागृ॑वि॒ तस्मै॑ त्वा गृह्णामि॒ तस्मै॑ ते सोम॒ सोमा॑य॒ स्वाहा॑ ।। ४९ ।।
उ० ककुभᳪरूपं वृषभस्य । ककुभमिति महन्नामसु पठितम् । अस्य सोमलक्षणस्य वृषभस्य ककुभमादित्यलक्षणं रूपं रोचते दीप्यते । बृहन्महत्प्रभावतः शुक्रः शुक्रस्य पुरोगाः । शुक्र आदित्यः शुक्रस्य आदित्यस्य पुरोगामी । सोम एव सोमस्य पुरोगामी भवितुमर्हति यस्माद् अतः कारणात् यत्ते तव हे सोम, अदाभ्यमनुपहिंस्यं नाम जागृवि जागरणशीलं तस्मै त्वा गृह्णामि । जुहोति । तस्मै ते तव हे सोम, सोमाय स्वाहा । 'तत्सोममेवैतत्सोमाय जुहोति' इति श्रुतिः ॥ ४९॥
म० हे सोम, वृषभस्य श्रेष्ठस्य तव ककुभं महत् आदित्यलक्षणं रूपं रोचते दीप्यते । ककुभमिति महन्नामसु पठितम् । बृहत् महान् शुक्रः शुद्ध आदित्यः शुक्रस्य शुद्धस्य सोमस्य तव पुरोगाः पुरोगामी । सोम एव सोमस्य पुरोगाः पुरोगामी भवितुमर्हति । हे सोम, ते त्वदीयमदाभ्यमनुपहिंसितं जागृवि जागरणशीलं यन्नामास्ति तस्मै त्वां गृह्णामि । 'तस्मै त इति जुहोतीति' ( का. १२ । ५। १७) अदाभ्यं जुहोति । सौम्यम् हे सोम, तस्मै तादृशाय ते तुभ्यं स्वाहा सुहुतमस्तु । 'तत्सोममेवैतत्सोमाय जुहोति' (११।५ । ९ । ११) इति श्रुतेः ॥ ४९ ॥

पञ्चाशी।
उ॒शिक् त्वं दे॑व सोमा॒ग्नेः प्रि॒यं पाथोऽपी॑हि व॒शी त्वं दे॑व सो॒मेन्द्र॑स्य प्रि॒यं पाथोऽपी॑ह्य॒स्मत्स॑खा॒ त्वं दे॑व सोम॒ विश्वे॑षां दे॒वानां॑ प्रि॒यं पाथोऽपी॑हि ।। ५० ।।
उ० अंशून् सोमे निदधाति । उशिक्त्वम् । 'वश कान्तौ' अस्य क्विपि उशिगिति भवति । यतः उशिक् कान्तः वल्लभः त्वं हे देव, सोम, अस्माकमतः अग्नेः प्रियं पाथः अन्नम् अपि इहि अपि गच्छ । वशी च त्वम् । 'वश कान्तौ' । शेषं व्याख्यातम् । अस्मत्सखा अस्माकं सखा । शेषं प्रगुणम् ॥ ५० ॥
म०. 'अᳪशून्सोमे निदधात्युशिक्त्वमिति प्रतिमन्त्रमिति' (का० १२ । ५ । १८ ) मन्त्रत्रयेणोलूखलस्थानंशून्सोमे क्षिपेत् । तत्राद्यः । हे देव, दीप्यमान हे सोम, उशिक् कामयमानस्त्वमग्नेः प्रियं पाथोऽन्नमपीहि अपिगच्छ । द्वितीयः । हे देव सोम, वशी कान्तस्त्वमिन्द्रस्य प्रियमन्नं प्राप्नुहि । अथ तृतीयो मन्त्रः । हे देव सोम, अस्मत्सखा अस्माकं मित्रभूतस्त्वं विश्वेषां देवानां प्रियमभिरुचितमन्नं प्राप्नुहि 'अग्निर्वै प्रातःसवनमिन्द्रो माध्यन्दिनं सवनᳪ विश्वेदेवास्तृतीयᳪ सवनम्' इति श्रुतेः सवनदेवेभ्योऽर्पणम् ॥ ५० ॥

एकपञ्चाशी।
इ॒ह रति॑रि॒ह र॑मध्वमि॒ह धृति॑रि॒ह स्वधृ॑ति॒: स्वाहा॑ ।
उ॒प॒सृ॒जन् ध॒रुणं॑ मा॒त्रे ध॒रुणो॑ मा॒तरं॒ धय॑न् । रा॒यस्पोष॑म॒स्मासु॑ दीधर॒त्स्वाहा॑ ।। ५१ ।।
उ० सत्रोत्थानं देवानामार्षम् । गार्हपत्ये द्वे आहुती जुहोति । इह रतिः । उत्क्रामन्ते पशवो नियम्यन्ते । इह यजमानेषु भवतां रतिः रमणम् । रम्णातिः संयमनकर्मा । यत एवमत इहैव रमध्वम् । इह धृतिर्भूयात् । इह स्वधृतिः । यत एवमत इहैव साधु धारणं भूयात् । पशूनां यजमानविषया धृतिः प्रार्थ्यते । द्वितीयां जुहोति । उपसृजन् उष्णिक् । उपसृजन्संसृजन् धरुणं धारयितारमग्निं मात्रे पृथिव्यै । मातात्र पृथिव्युच्यते । वरुणो धारयिताग्निर्मातरं पृथिवीं धयन् पिबन् रायस्पोषम् । पशवो वै रायस्पोषः' इति श्रुतिः। | पशून् अस्मासु दीधरत् धारयतु ॥ ५१ ॥ ।
म० अथ सत्रोत्थानमन्त्रा देवदृष्टाः । 'शालाद्वार्येऽन्वारब्धेष्विह रतिरिति जुहोतीति' ( का० १२ । ४ । १०)। सर्वेषु दीक्षितेष्वध्वर्युस्पृष्टेष्विदानींतनगार्हपत्ये घृतं जुहुयात् । पशुदैवतं यजुः । हे गावः, युष्मदीया रतिः रमणमिह यजमानेष्वस्तु । इहैव यूयं रमध्वम् । युष्माकमिह यजमानेषु धृतिः संतोषोऽस्तु । स्वधृतिः स्वकीयानामपि धृतिरिहैवास्तु । स्वाहा सुहुतमस्तु । 'अपरामुपसृजन्निति' ( का० १२ । ४ । ११) | शालाद्वार्ये एव द्वितीयाहुतिः उष्णिक् आद्यावष्टाक्षरौ तृतीयो द्वादशार्णः सोष्णिक् । धारयतीति धरुणोऽग्निरस्मासु रायस्पोषं रायो धनस्य पशुपुत्रसुवर्णादेः पुष्टिं दीधरत् धारयतु । धारयतेर्लुंङि रूपम् । अडभाव आर्षः । किंभूतो धरुणः । मात्रे धरुणम् । षष्ठ्यर्थे चतुर्थी । मातुः पृथिव्या धारयितारमग्निमुपसृजन् समीपं प्रापयन् तथा मातरं पृथिवीं धयन्पिबन् । तत्रोत्पन्नं हविर्भक्षयन्नित्यर्थः । स्वाहेति होमार्थः ॥ ५१॥

द्विपञ्चाशी।
स॒त्रस्य॒ ऋद्धि॑र॒स्यग॑न्म॒ ज्योति॑र॒मृता॑ अभूम॒ । दिवं॑ पृथि॒व्या अध्याऽरु॑हा॒मावि॑दाम दे॒वान्त्स्व॒र्ज्योति॑: ।। ५२ ।।
उ० सत्रस्य ऋद्धिं गायन्ति । सत्रस्य ऋद्धिरसि। बृहती। यजमामानां संस्तवः । सत्रस्य समृद्धिस्त्वमसि । यतोऽगन्म आगताः ज्योतिरादित्यलक्षणम् । अमृताश्च अभूम भूताः । दिवं चाध्यारुहाम अध्यारूढाः । पृथिव्याः सकाशात् द्युलोकं चारूढाः सन्तः अविदाम देवान् जानीमः पश्यामो देवान्