पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विविधेषु कार्येषु आहूयत इति विहव्यः यथा असत् । पञ्चम्यर्थे थाल्प्रत्ययः । यतः कारणादसत् भवेत् हे विश्वकर्मन्, त्वद्धविस्सामर्थ्यादिन्द्रस्यायं प्रभाव इत्यभिप्रायः । उपयामगृहीतोऽसीन्द्राय त्वा विश्वकर्मण एष ते योनिरिन्द्राय त्वा विश्वकर्मणे इति व्याख्यातम् ॥ ४६ ॥
म० तृतीयो मन्त्रविकल्पः । इन्द्रविश्वकर्मदेवत्या त्रिष्टुप् शासदृष्टा । हे विश्वकर्मन् , वर्धनेन वर्धमानेन वर्धयित्रा वा हविषा त्वमिन्द्रं त्रातारं जगतो रक्षकमवध्यं हन्तुमशक्यमप्रतिभटं चाकृणोः कृतवानसि । तस्मै तादृशायेन्द्राय पूर्वीर्विशः प्रजाः पूर्वे वसिष्ठादयो मनुष्याः समनमन्त सम्यड्नताः। पञ्चम्यर्थे थाल्प्रत्ययः । यथा यतः कारणात् अयमिन्द्रः उग्र उद्गूर्णवज्रो विहव्यो विविधेषु कार्येषु आहूयत इति विहव्यश्च असदभूत्तस्माद्विशस्तस्मै नता इत्यर्थः । विश्वकर्मन् , त्वद्धविःसामर्थ्यादिन्द्रस्यायं प्रभाव इति भावः । उपयाम एष ते इति व्याख्याते ॥ ४६ ॥

सप्तचत्वारिंशी।
उ॒प॒या॒मगृ॑हीतोऽस्य॒ग्नये॑ त्वा गाय॒त्रच्छ॑न्दसं गृह्णामीन्द्रा॑य त्वा त्रि॒ष्टुप्छ॑न्दसं गृह्णामि॒ विश्वे॑भ्यस्त्वा दे॒वेभ्यो॒ जग॑च्छन्दसं गृह्णाम्यनु॒ष्टुप्ते॑ऽभिग॒रः ।। ४७ ।।
उ० अदाभ्यं गृह्णाति। उपयाम गृहीतोऽसि । देवानामार्षम् । अग्नये त्वां गायत्रच्छन्दसं गृह्णामि एकं ग्रहणम् । इन्द्राय त्वा त्रिष्टुप्छन्दसं गृह्णामि द्वितीयं ग्रहणम् । विश्वेभ्यस्त्वा देवेभ्यो जगच्छन्दसं गृह्णामि तृतीयं ग्रहणम् । एवं सवनदेवताभ्यः स्वच्छन्दस्कं सोमं गृहीत्वा अथेदानीमाह । अनुष्टुप् ते तव हे सोम, अभिगरः। 'गृ स्तुतौ' । अभिष्टव इत्यर्थः । यद्वा 'ऊर्ध्वᳪसवनेभ्यस्तदानुष्टुभम्' इति श्रुतिः ॥ ४७ ॥
म०. 'अदाभ्यं गृह्णात्यासिच्य निग्राभ्याः पात्रे तस्मिंस्तूष्णीं त्रीनᳪशूनवधायाग्नये त्वा गायत्रच्छन्दसमिति प्रतिमन्त्रमुपयामः सर्वत्राविशेषादिति' (का० १२ । ५ । १३-१५)। यस्मिन्नौदुम्बरे पात्रे अंशुर्गृहीतस्तस्मिन्होतृचमसस्था निग्राभ्यासंज्ञा अप आनीय तस्मिंस्तिस्रः सोमलताः प्रक्षिप्याग्नये त्वेत्यादित्रिभिर्मन्त्रैः क्रमेणादाभ्यं ग्रहं गृह्णाति । मन्त्रैः सोमलताप्रक्षेपो वेति केचित् । उपयामगृहीतोऽसीत्येतत्त्रिष्वपि मन्त्रेष्वादावनुषञ्जनीयं सर्वशेषत्वादाम्नानस्येति सूत्रार्थः । तत्र प्रथमो मन्त्रः । अदाभ्यदेवत्यानि त्रीणि यजूंषि देवदृष्टानि । हे सोम, त्वमुपयामेन ग्रहेण गृहीतोऽसि हे ग्रह, गायत्री छन्दो यस्य ग्रहस्य तं गायत्रीच्छन्दसं त्वामग्नयेऽग्निप्रीत्यर्थं गृह्णामि । द्वितीयो मन्त्रः । उपयामेन गृहीतोऽसि हे ग्रह, त्रिष्टुप् छन्दो यस्य तादृशं त्वामिन्द्राय गृह्णामि । तृतीयो मन्त्रः । उपयाम० जगती छन्दो यस्य तादृशं त्वां हे ग्रह, विश्वेभ्यो देवेभ्योऽर्थाय गृह्णामि । एवं सवनदेवताभ्यो वारत्रयं ग्रहणम् । 'अनुष्टुप्त इत्युक्त्वेति' (का० १२ । ५ । १७)। एनं मन्त्रं पठेत् । अदाभ्यदेवत्यं देवदृष्टम् । एवं स्वच्छन्दसं सोमं गृहीत्वाथ तमाह हे सोम, अनुष्टुप् छन्दस्ते तवाभिगरः अभिष्टव इत्यर्थः । 'गृ स्तुतौ' यद्वा 'ऊर्ध्वᳪ सवनेभ्यस्तदानुष्टुभम्' (११ । ५।९। ७) इति श्रुतेः ॥ ४७ ॥

अष्टचत्वारिंशी।
व्रेशी॑नां त्वा॒ पत्म॒न्ना धू॑नोमि कुकू॒नना॑नां त्वा॒ पत्म॒न्ना धू॑नोमि भ॒न्दना॑नां त्वा॒ पत्म॒न्ना धू॑नोमि म॒दिन्त॑मानां त्वा॒ पत्म॒न्ना धू॑नोमि म॒धुन्त॑मानां त्वा॒ पत्म॒न्ना धू॑नोमि शु॒क्रं त्वा॑ शु॒क्र आ धू॑नो॒म्यह्नो॑ रू॒पे सूर्य॑स्य र॒श्मिषु॑ ।। ४८ ।।
उ० ग्रहपात्रस्थासु निग्राभ्यासु अंशूनाधूनोति । व्रेशीनां त्वा पत्मन्नाधूनोमि । मेघस्य व्रजत उदरे शेरत इति व्रेश्य | उदरस्था आप उच्यन्ते । हे सोम, व्रेशीनामपां त्वां पत्मन् पतने आधूनोमि कम्पयामि । कुकूननानां त्वा । 'कुङ् शब्दे'। अत्यर्थं कुवत्यः शब्दं कुर्वाणाः नमन्ते प्रह्वीभवन्तीति कुकूननाः मेध्या आपः । भन्दनानाम् 'भदि कल्याणे सुखे च'। कल्याणकारिण्यः सुखयित्र्यो वा भन्दनाः । मदिन्तमानाम् अत्यर्थं मदयन्ति तर्पयन्तीति मदिन्तमाः । माद्यतेः 'नाद्धस्य' इति नुमागमः । मधुन्तमानाम् अतिशयेन मधुस्वादोपेता मधुन्तमाः । शुक्रं त्वा शुक्रमक्लिष्टकर्माणं त्वां शुक्रे अक्लिष्टकर्मणि निग्राभ्यालक्षणे उदके आधूनोमि । अह्नोरूपे दिवसस्य रूपे तदपि शुक्रमेव भवति । सूर्यस्य च रश्मिषु । रश्मयस्तु प्रकाशरूपत्वादेवं भवन्ति ॥ ४८॥
म० 'धूनोत्यᳪशुभिर्व्रेशीनां त्वेति गच्छन्नाहवनीयमिति' ( का० १२ । ५ । १७ ) । आहवनीयसमीपं गच्छन्नंशुभिरदाभ्यग्रहस्थानि जलानि चालयेत् । एतदादीनि विश्वेषां देवानामित्यन्तानि सोमदेवत्यानि देवदृष्टानि । हे सोम, व्रेशीनां व्रजतो मेघस्योदरे शेरते ता व्रेश्यो मेघोदरस्था आपस्तासां पत्मन् पतने निमित्ते वृष्टिनिष्पत्त्यर्थं त्वा त्वामाधूनोमि कम्पयामि । कुकूननानाम् । 'कुङ् शब्दे' अत्यर्थं कुवन्त्यः शब्दं कुर्वाणा नमन्ति प्रह्वीभवन्तीति कुकूनना मेघस्था आपस्तासां पतने त्वां कम्पयामि । भन्दनानाम् । 'भदि कल्याणे सुखे च' भन्दन्तीति भन्दनाः कल्याणकारिण्यः सुखयित्र्यो वा मेध्या आपः अन्यत्पूर्ववत् । मदिन्तमानाम् मादयन्तीति मदिन्यः अत्यर्थं मदिन्यो मदिन्तमाः । तमपि पुंवद्भावः 'नलोपः प्रातिपदिकान्तस्य' (पा० ८ । २ । ७) इति नलोपः 'नाद्धस्य' (पा० ८ । २ । १७ ) इति छान्दसो नुडागमः । अत्यन्तं तर्पयन्त्यो मेध्या आपः। मधुन्तमानाम् अत्यन्तं मधुस्वादोपेता मधुन्तमाः एवंविधानामपां पतने त्वां धूनोमि । किंच । शुक्रं शुद्धमक्लिष्टकर्माणं त्वां शुक्रे शुद्धे अक्लिष्टकर्मणि निग्राभ्या