पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

स्तूयत इति विश्रुतिः । न हन्तुं योग्या अघ्न्या अहन्तव्या । तासां संबोधनानि हे धेनो एवंभूते, ते तव एता एतानि अतिशयगुणयुक्तानि नामानि एतैर्नामभिरभिहिता सती देवेभ्यः सुकृतं सुष्ठु करोतीति सुकृत् तं सुकृतं शोभनकर्मकारिणं मां त्वं ब्रूताद्ब्रूहि वद । अयं यजमानः पुण्यकर्तेति देवेभ्यो वदेत्यर्थः ॥ ४३ ॥

चतुश्चत्वारिंशी।
वि न॑ इन्द्र॒ मृधो॑ जहि नी॒चा य॑च्छ पृतन्य॒तः ।
यो अ॒स्माँ२ अ॑भि॒दास॒त्यध॑रं गमया॒ तम॑: ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा वि॒मृधे॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा वि॒मृधे॑ ।। ४४ ।।
उ० महाव्रतीयं ग्रहं गृह्णाति । वि न इन्द्र । अनुष्टुप् । इन्द्रो विमृद्गुणयुक्तो देवता । वि न इन्द्र मृधो जहि वि जहि विनाशय नः अस्माकं हे इन्द्र, मृधः संग्रामान् । किंच नीचा यच्छ पृतन्यतः । ये पृतनां संग्राममिच्छन्ति ते पृतन्यतः तान्पृतन्यतो मनुष्यान्नीचा यच्छ नीचैर्निगृह्णीष्व । यश्चास्मान् अभिदासति 'दसु उपक्षये' । उपक्षयति तमधरं निकृष्टमर्वाचीनं तमो गमय । उपयामगृहीतोऽसीन्द्राय त्वा विमृध एष ते योनिरिन्द्राय त्वा विमृधे । व्याख्यातम् ॥४४॥
म० 'ग्रहं गृह्णाति वि न इन्द्र वाचस्पतिं विश्वकर्मन्निति वेति' ( का० १३ । २ । १७ ) गवानयनस्योपान्त्ये महाव्रतेऽहनि प्राजापत्यपशूपालम्भादूर्ध्वमैन्द्रग्रहग्रहणे मन्त्रत्रयम् । तत्राद्यः । इन्द्रदेवत्यानुष्टुप् शासदृष्टा । हे इन्द्र, नोऽस्माकं मृधः शत्रून्संग्रामान्वा विजहि विशेषेण नाशय । किंच पृतन्यतः नीचा यच्छ । पृतनां संग्रामं सेनां वा इच्छन्ति पृतन्यन्ति पृतन्यन्तीति पृतन्यन्तस्तान् । 'सुप आत्मनः क्यच् (पा० ३ । १ । ४) इति पृतनाशब्दात्क्यचि प्रत्यये 'कव्यध्वरपृतनस्यर्चि लोपः' (पा० ७ । ४ । ३९ ) इति टिलोपे शतृप्रत्यये च रूपम् । पृतन्यतः सेनामिच्छतः शत्रून्नीचान्न्यग्भूतान् यच्छ निगृह्णीष्व । युद्धादुपरतान्कुर्वित्यर्थः । किंच यश्चान्योऽस्मानभिदासति । 'दसु उपक्षये' । उपक्षयति तं शत्रुमधरं निकृष्टं तमो नरकं गमय प्रापय । संहितायां दीर्घः । हे ग्रह, त्वमुपयामेन गृहीतोऽसि विशिष्टो मृत् संग्रामो यस्य तस्मै विमृधे विशिष्टसंग्रामवते इन्द्राय त्वां गृह्णामि । सादयति एष तव योनिः विमृद्गुणविशिष्टायेन्द्राय त्वां सादयामि ॥ ४४ ॥

पञ्चचत्वारिंशी।
वा॒चस्पतिं॑ वि॒श्वक॑र्माणमू॒तये॑ मनो॒जुवं॒ वाजे॑ अ॒द्या हु॑वेम ।
स नो॒ विश्वा॑नि॒ हव॑नानि जोषद्वि॒श्वश॑म्भू॒रव॑से सा॒धुक॑र्मा ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा वि॒श्वक॑र्मणे ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा वि॒श्वक॑र्मणे ।। ४५ ।।
उ० द्वितीयो मन्त्रविकल्पः । वाचस्पतिं । त्रिष्टुप् विश्वकर्मणी । स नो विश्वानीति तदः श्रवणाद्यदोऽध्याहारः कर्तव्यः। नित्यसंबन्धौ हि यत्तदौ । यं वाचोधिपतिं प्राणरूपेण इन्द्ररूपेण वा विवक्ष्यते । 'तस्मादाहुरिन्द्रो वाग्' इति श्रुतिः । विश्वकर्माणं सर्वस्य कर्तारम् । ऊतये अवनाय तर्पणाय वा । मनोजुवम् मनस इव यस्य जुवः मनोजुवः स एवमुच्यते । मनोगतिमित्यर्थः । वाजे अन्ने अस्मिन्महाव्रतीयलक्षणे विषयभूते । अद्य अस्मिन् द्यवि हुवेम आह्वयामः । स आहूतः सन् नोऽस्माकं विश्वानि सर्वाणि हवनानि आह्वानानि जोषत् जुषतां सेवताम् । विश्वशंभूः । शमिति सुखनाम । सर्वस्य सुखेन भावयिता । अवसे अव इत्यन्ननाम । अस्माकमन्नदानाय साधुकर्मा । उपयामगृहीतोऽसीति व्याख्यातम् ॥४५॥
म० अथ द्वितीयः । विश्वकर्मदेवता त्रिष्टुप् शासदृष्टा । ईदृशमिन्द्रं वाजे महाव्रतीयलक्षणान्नविषये अद्यास्मिन् दिने वयं हुवेम आह्वयाम । किमर्थम् । ऊतये अवनाय रक्षणाय । | किंभूतम् । विश्वकर्माणं विश्वानि समस्तानि जगदुत्पत्त्यादीनि कर्माणि यस्य तम् । तथा वाचस्पतिं वाचां पालयितारं वाचोऽधिपतिं । 'तस्मादाहुरिन्द्रो वाक्' इति श्रुतेः। तथा मनोजुवम् । जूरिति जवनाम । मनसो जूरिव जव इव जवो यस्य स मनोजूस्तम् । स ईदृश इन्द्रो नोऽस्माकं विश्वानि सर्वाणि हवनानि आह्वानानि अवसेऽन्नायान्नसमृद्ध्यै रक्षणाय वा जोषत् जुषताम् अस्मदाह्वानं साधु साध्विति सेवताम् । 'लेटोऽडाटौ' (पा० ३ । ४ । ९४ ) इत्यडागमे 'इतश्च लोपः परस्मैपदेषु' (पा. ३ । ४ । ९७ ) तिप इलोपे जोषदिति रूपम् । किंभूतः सः । विश्वशंभूः विश्वस्य शं सुखं भवत्यस्मादिति विश्वशंभूः साधुकर्मा शोभनकर्मकर्ता । हे ग्रह, उपयामगृहीतोऽसि विश्वकर्मणे सर्वकर्त्रे इन्द्राय त्वां गृह्णामि । सादयति एष ते योनिः विश्वकर्मणे इन्द्राय त्वां सादयामि ॥ ४५ ॥

षट्चत्वारिंशी।
विश्व॑कर्मन् ह॒विषा॒ वर्ध॑नेन त्रा॒तार॒मिन्द्र॑मकृणोरव॒ध्यम् ।
तस्मै॒ विश॒: सम॑नमन्त पू॒र्वीर॒यमु॒ग्रो वि॒हव्यो॒ यथास॑त् ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा वि॒श्वक॑र्मण ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा वि॒श्वक॑र्मणे ।। ४६ ।।
उ० अपरो मन्त्रविकल्पः । विश्वकर्मन्हविषा । त्रिष्टुबैन्द्री वैश्वकर्मणी च । हे विश्वकर्मन् , अन्नेन हविषा महाव्रतीयलक्षणेन वर्धनेन च वर्धयित्रा । त्रातारं जगतः इन्द्रम् अकृणोः कृतवानसि अवध्यं च । तस्मै चैवंप्रभावायेन्द्राय विशो मनुप्याः समनमन्त सन्नताः पूर्वीः पूर्वे वसिष्ठप्रभृतयः। इदानींतना अपि सन्नताः । अयमेव हि इन्द्रः उग्रः उद्गूर्णवज्रः विहव्यश्च ।