पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पठितम् । अस्य सूर्यस्य केतवः प्रज्ञाहेतवः सर्वपदार्थज्ञानकृतो रश्मयः किरणा जनाननु सर्वप्राणिनोऽनुगता वि अदृश्रम् विशेषेणादृश्यन्त । सूर्यकराः सर्वजनानुगता व्यापका दृश्यन्त इत्यर्थः । तत्र दृष्टान्तः । भ्राजन्तो ज्वलन्तोऽग्नयो वह्नयो यथा जनानुगता दृश्यन्ते तद्वत् । हे ग्रह, त्वमुपयामेन गृहीतोऽसि भ्राजते दीप्यतेऽसौ भ्राजस्तस्मै सूर्याय त्वां गृह्णामि । सादयति एष तव योनिः भ्राजाय दीप्ताय सूर्याय त्वां सादयामि । तृतीयोऽतिग्राह्यभक्षणमन्त्रः । अत्यन्तं भ्राजो भ्राजिष्टः हे भ्राजिष्ठ अतिदीप्त हे सूर्य, त्वं यथा देवेषु भ्राजिष्ठोऽसि तथाहमपि मनुष्येषु भ्राजिष्ठोऽतिदीप्तिमान्भूयासम् ॥ ४० ॥
इति द्वादशाहः संपूर्णः ॥

एकचत्वारिंशी।
उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तव॑: । दृ॒शे विश्वा॑य॒ सूर्य॑म् ।
उ॒प॒या॒मगृ॑हीतोऽसि॒ सूर्या॑य त्वा भ्रा॒जायै॒ष ते॒ योनि॒: सूर्या॑य त्वा भ्रा॒जाय॑ ।। ४१ ।।
उ० विषुवति ग्रहं गृह्णाति । उदु त्यं जातवेदसम् । व्याख्यातम् । देवार्षंतु ॥ ४१ ॥
म० 'उदु त्यमिति ग्रहग्रहणमिति' (का० १३ । २ । ११) गवामयनाख्यस्य संवत्सरसत्रस्य विषुवन्नामके मध्यमेऽहनि सौर्यपशूपालम्भादूर्ध्वमतिग्राह्यग्रहणं कार्यम् । सौरी गायत्री देवदृष्टा पुनर्व्याख्यायते ( अ० ७ । क० ४१ ) । त्यं तं प्रसिद्धं जातवेदसं जातानां प्रजानां ज्ञातारं जातप्रज्ञं वा देवं देवनशीलं सूर्य केतवः प्रज्ञाहेतवः किरणा उ आशु उद्वहन्ति उदयाचलादुद्गमयन्ति । किमर्थं । विश्वाय । षष्ठ्यर्थे चतुर्थी । विश्वस्य दृशे दर्शनाय । सर्वं जगद्द्रष्टुमित्यर्थः । उपयाम एष ते व्याख्याते ॥ ४१॥

द्विचत्वारिंशी।
आ जि॑घ्र क॒लशं॑ म॒ह्या त्वा॑ विश॒न्त्विन्द॑वः।
पुन॑रू॒र्जा नि व॑र्तस्व॒ सा न॑: स॒हस्रं॑ धुक्ष्वो॒रुधा॑रा॒ पय॑स्वती॒ पुन॒र्मा वि॑शताद्र॒यिः ।। ४२ ।।
उ० अथ रोहिणीगोरभिमन्त्रणं द्वाभ्यामृग्भ्यां महापङ्क्तिप्रस्तारपङ्क्तिभ्यां द्रोणकलशमवघ्रापयति । आजिघ्र । कुसुरुविन्दोरार्षम् । महीति गोनामसु पठितम् । आभिमुख्येन जिघ्र द्रोणकलशं हे महि । किंच आ त्वा विशन्त्विन्दवः । आविशन्तु त्वामिन्दवः सोमाः य एते द्रोणकलशसंबन्धिनः। किंच । पुनरपि ऊर्जा अन्नेन सहिता निवर्तस्व । यां त्वामेवं स्तुमः सानः अस्माकं सहस्रं गवां यदेतदस्माभिर्दत्तं तत् धुक्ष्व । दुहतिर्दानार्थः । पुनर्देहि । त्वत्प्रसादाच्च उरुधारा बहुधारा पयस्वती पयसा संयुक्ता पुनरपि मामाविशतात् आविशतु । रयिः धनम् ॥ ४२ ॥
म० 'हविर्धानाग्नीध्रयोरन्तरे द्रोणकलशमेनामाघ्रापयत्याजिघ्रेति' ( का० १३ । ४ । १९) । गर्गत्रिरात्रादावहीने त्रिसुत्ये गोसहस्रं दक्षिणास्ति तत्र सहस्रसंख्यापूरणी रोहिणी धेनुस्तां हविर्धानाग्नीध्रयोर्मध्यस्थां द्रोणकलशमाघ्रापयेत् । गोदेवत्या महापङ्क्तिः कुसुरुविन्दुदृष्टा अष्टार्णषट्पादा । महीति गोनाम । हे महि हे धेनो, त्वं कलशं द्रोणकलशाख्यं पात्रमाजिघ्र आभिमुख्येनाघ्राणं कुरु । किंच हे धेनो, इन्दवः सोमाः त्वा त्वामाविशन्तु द्रोणकलशस्थाः सोमास्त्वां प्रविशन्तु । | किंच ऊर्जा विशिष्टरसेन पयोभूतेन सह पुनः अस्मान्प्रति निवर्तस्व । या त्वमेवं मया स्तुता सा त्वं नोऽस्माकं सहस्रं धुक्ष्व सहस्रसंख्यं धनं देहि । यद्वा गवां सहस्रं यदस्माभिर्दत्तं तन्नोऽस्मभ्यं धुक्ष्व पुनर्देहि । दुहतिर्दानार्थः । किंच त्वत्प्रसादादुरुधारा बहुपयोयुक्ता पयस्वती धेनुर्मा मां पुनराविशतात् आगच्छत्वित्यर्थः । तथा रयिः धनमपि मा मामाविशतात् ॥ ४२ ॥

त्रिचत्वारिंशी।
इडे॒ रन्ते॒ हव्ये॒ काम्ये॒ चन्द्रे॒ ज्योतेऽदि॑ते॒ सर॑स्वति॒ महि॒ विश्रु॑ति ।
ए॒ता ते॑ अघ्न्ये॒ नामा॑नि दे॒वेभ्यो॑ मा सु॒कृतं॑ ब्रूतात् ।। ४३ ।।
उ० दक्षिणेऽस्याः कर्णे यजमानो जपति । इडे रन्ते । हे इडे । इडानाम मनोर्दुहिता तया गौरुपमीयते । इडेव त्वमसि । रन्ते रमयतीति रन्ता । हव्ये हूयन्तेऽस्या विकारा यज्ञेष्विति हव्या । काम्ये मनुष्याणां ह्येतासु कामाः प्रविष्टाः । चन्द्रे चन्द्र इवाह्लादयतीति चन्द्रा । ज्योते तस्यैव ज्योतिर्ज्योत्स्ना । 'द्युत दीप्तौ' अस्य ज्योता । अदिते अदीने । सरस्वति सर इत्युदकनाम सर्तेः तद्वति । हे महि महति । विश्रुति विविधं श्रूयत इति विश्रुति । एतानि ते तव हे अघ्न्ये, अहन्तव्ये नामानि अतिशयगुणयुक्तानि तैरभिहिता सती देवेभ्यो मां सुकृतं सुकृतकारिणं ब्रूतात् ब्रूहि ॥ ४३ ॥
म० इडे रन्त इति दक्षिणेऽस्याः कर्णे यजमानो जपतीति' ( का० १३ । ४ । २० )। पूर्वोक्ताया धेनोर्दक्षिणकर्ण यजमानो जपेत् गोदेवत्या प्रस्तारपङ्क्तिः कुमुरुविन्दुदृष्टा । यस्या आद्यौ पादौ द्वादशार्णौ अन्त्यावष्टार्णौ सा प्रस्तारपङ्क्तिः । । ईड्यते स्तूयते इति इडा मनोर्दुहिता तत्तुल्या । रमयतीति रन्ता । हूयते यद्दुग्धं यज्ञेष्विति हव्या, हूयते आहूयते सवैरिति वा हव्या । काम्यत इति काम्या 'मनुष्याणाᳪह्येतासु कामाः प्रविष्टाः' इति श्रुतेः । चन्दयत्याह्लादयतीति चन्द्रा । 'द्युत दीप्तौ' द्योतयति प्रकाशयतीति ज्योता दकारस्य जः । अदितिरदीनाऽनवखण्डिता । सरस्वति सरतीति सरः क्षीरं तद्वति । सर इत्युदकनाम सर्तेरिति (नि. ९ । २६) यास्कोक्तेः । उदकशब्देनात्र क्षीरमुच्यते । मही महती । विविधं श्रूयते