पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

यम् । स्वयंभूरसीत्येतस्मिन्मन्त्रे वर्चोदा असीति वर्चःशब्दो ब्रह्मवर्चसपर्यायो वर्णितः श्रुत्या 'तद्ध्येव ब्राह्मणेनेष्टव्यं यद्ब्रह्मवर्चसे स्यात्' इति । अतोऽस्मिन्मन्त्रे वर्चःशब्दो ब्रह्मवर्चसपर्यायो दर्शितः ॥ ३८॥
म० अथ द्वादशाहमन्त्राः । 'पृष्ठ्यः षडहस्तत्रातिग्राह्यग्रहणं त्र्यहे पूर्णेऽग्ने पवस्वोत्तिष्ठन्नदृश्रमित्यध्वहमेकैकम्' ( का० १२ । ३ । १-२ ) 'अग्ने वर्चस्विन्निन्द्रौजिष्ठ सूर्य भ्राजिष्ठेति भक्षणं यजमानैरिति' ( क. ६) अस्ति कश्चित् पृष्ठ्यः षडहाख्यः क्रतुः। स तु षड्भिरहोभिर्निष्पाद्यः। तत्र पूर्वस्मिन्नहस्त्रये क्रमेणाग्ने पवस्वेत्यादिभिर्मन्त्रैरतिग्राह्यान्ग्रहान् गृह्णीयात्तथैवाग्ने वर्चस्विन्नित्यादिभिर्मन्त्रैस्तत्तद्ग्रहशेषं भक्षयेत् । तत्र प्रथमो यथा । अग्ने पवस्व । अग्निदेवत्या गायत्री वैखानसदृष्टा । आद्यौ सप्तार्णौ पादौ । एषा यजुरन्ता। उपयाम एष त इति द्वे यजुषी। हे अग्ने, त्वमस्मै अस्मासु सुवीर्य शोभनं वीर्यं यस्मिंस्तादृशं शोभनसामर्थ्योपेतं वर्चो ब्रह्मवर्चसं पवस्व । पव गत्यर्थः अन्तर्भूतण्यर्थः। गमय प्रापय । 'सुपां सुलुक्' (पा. ७ । १ । ३९ ) इति विभक्तेः शेआदेशे अस्मे इति रूपम् । किंभूतस्त्वम् । स्वपाः । अप इति कर्मनाम । शोभनान्यपांसि यस्य स स्वपाः सुकर्मा । एवमृत्विग्भिः सह संप्रार्थ्य स्वयं याचते । मयि यजमाने रयिं धनं दधत् धारयन् स्थापयन्सन् पोषं पुष्टिं पुत्रपश्वादिवृद्धिं पवस्व प्रवर्तयेति संबन्धः । उपयामयतीत्युपयामो ग्रहः हे सोम, तेन त्वं गृहीतोऽसि । हे ग्रह, वर्चसे वर्चस्विने तेजस्विनेऽग्नये त्वां गृह्णामीति शेषः । सादयति एष खरप्रदेशस्तव योनिः स्थानं वर्चस्विनेऽग्नये त्वां सादयामीति शेषः । भक्षणमन्त्रः । हे वर्चस्विन् विशिष्टतेजोयुक्त हे अग्ने, त्वं देवेषु इन्द्रादिषु मध्ये वर्चस्वानतिदीप्तिमानसि अतस्त्वत्प्रसादादहमपि मनुष्येषु मध्ये वर्चस्वान्ब्रह्मवर्चससंपन्नो भूयासं भवेयम् ॥३८॥

एकोनचत्वारिंशी।
उ॒त्तिष्ठ॒न्नोज॑सा स॒ह पी॒त्वी शिप्रे॑ अवेपयः । सोम॑मिन्द्र च॒मू सु॒तम् ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य॒ त्वौज॑स ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वौजसे ।
इन्द्रौ॑जिष्ठौजि॑ष्ठ॒स्त्वं दे॒वेष्वस्योजि॑ष्ठो॒ऽहं म॑नु॒ष्ये॒षु भूयासम् ।। ३९ ।।
उ० उत्तिष्ठन्नोजसा । मातुरुत्सङ्गादुत्तिष्ठन् ओजसा बलेन सह पीत्वी पीत्वा । शिप्रे अवेपयः । शिप्रे हनू नासिके वा । 'टुवेपृ कम्पने' । अतिपानोद्वेगान्नासिके कम्पितवानसि । किं तद्द्र्व्यं यत्पीत्वा अवेपय इत्यत आह । सोमम् । हे भगवन् इन्द्र, चमूसुतम् । अधिषवणचर्म चमूशब्देनोच्यते । अधिषवणचर्मण्यभिषुतं सोमं पीत्वा अवेपय इति संबन्धः । उपयामगृहीतोऽसीन्द्राय त्वौजस एष ते योनिरिन्द्राय त्वौजसे । प्रगुणं ग्रहं भक्षयति । इन्द्रौजिष्ठ । हे इन्द्र, ओजिष्ठ अतिशयेनौजसा युक्त । यथा ओजिष्ठस्त्वं देवेष्वसि एवमोजिष्ठोऽहं मनुष्येषु भूयासम् ॥ ३९॥
म० द्वितीयोऽतिग्राह्यग्रहणमन्त्रः । इन्द्रदेवत्या गायत्री कुरुस्तुतिदृष्टा यजुरन्ता । हे इन्द्र, त्वमोजसा बलेन सह उत्तिष्ठन्नुत्सङ्गादुद्गच्छन्सन् शिप्रे हनू नासिके वा अवेपयः ‘टुवेपृ कम्पने' कम्पितवानसि । किं कृत्वा सोमं पीत्वी पीत्वा । 'स्नात्व्यादयश्च' ( पा० ७।१।४९ ) इति निपातः । किंभूतं सोमम् । चमूसुतं चम्वामधिषवणचर्मणि सुतमभिषुतम् सोमपानं कृत्वातिहर्षवशान्नासे कम्पितवानित्यर्थः । हे ग्रह, त्वमुपयामगृहीतोऽसि ओजसे बलवते इन्द्राय त्वां गृह्णामि । सादयति एष ते योनिः ओजस इन्द्राय सादयामि । भक्षणमन्त्रः हे इन्द्र, हे ओजिष्ठ ओजो बलमस्यास्तीत्योजस्वी । 'अस्माया-' ( पा० ५। २ । १२१ ) इत्यादिना विनिप्रत्ययः । अत्यन्तमोजस्वी ओजिष्ठः 'अतिशायने तमबिष्ठनौ' (पा० ५ । ३ । ५५) इति । इष्ठन्प्रत्ययः । 'विन्मतोर्लुक्' (पा० ५। ३ । ६५) इतीष्ठनि परे विनिलोपः टिलोपश्च । तत्संबोधनमोजिष्ठ अतिबलयुक्त, त्वं यथा देवेष्वोजिष्ठोऽसि एवं मनुष्येषु मध्येऽहमोजिष्ठोऽतिबलो भूयासम् ॥ ३९ ॥

चत्वारिंशी।
अदृ॑श्रमस्य के॒तवो॒ वि र॒श्मयो॒ जनाँ॒२ अनु॑ । भ्राज॑न्तो अ॒ग्नयो॑ यथा ।
उ॒प॒या॒मगृ॑हीतोऽसि॒ सूर्या॑य त्वा भ्रा॒जायै॒ष ते॒ योनि॒: सूर्या॑य त्वा भ्रा॒जाय॑ ।
सूर्य॑ भ्राजिष्ठ॒ भ्राजि॑ष्ठ॒स्त्वं दे॒वेष्वसि॒ भ्राजि॑ष्ठो॒ऽहं म॑नु॒ष्ये॒षु भूयासम् ।। ४० ।।
उ० अदृश्रमस्य । 'दृशिर प्रेक्षणे' । अस्य कर्मणि प्रथमपुरुषबहुवचनस्थाने छान्दसं रूपमदृश्रमिति । दृश्यन्ते अस्य सूर्यस्य प्रज्ञानकृतत्वात्केतवो रश्मयः । केतुरिति प्रज्ञानामसु पठितम् । वि इत्यनर्थको निपातः । अथवा व्यदृश्रमिति संबन्धः । जनान् अनु अनुगताः भ्राजन्तः देदीप्यमानाः । कथंभूता दृश्यन्ते । अग्नयो यथा अग्नय इव । उपयामगृहीतोऽसि सूर्याय त्वा भ्राजायैष ते योनिः सूर्याय त्वा भ्राजाय । भक्षयति । हे सूर्य भ्राजिष्ठ अतिशयेन भ्राजिष्ट । यथा भ्राजिष्ठस्त्वं देवेष्वसि एवं भ्राजिष्ठोऽहं मनुष्येषु भूयासम् ॥४०॥
म० तृतीयोऽतिग्राह्यमन्त्रः । सूर्यदेवत्या गायत्री प्रस्कण्वदृष्टा यजुरन्ता । दृशेर्लुङि 'इरितो वा' (पा० ३ । १ । ५७ ) इति च्लेरङादेशे 'ऋदृशोऽङि गुणः' (पा० २ । ४ । १६) इति उत्तमैकवचने अदर्शमिति प्राप्ते 'शीङो रुड्वेत्तेर्विभाषा बहुलं छन्दसीति' (पा० ७ । १ । ६-८) दृशेरुत्तरस्य मिबादेशस्यामो रुडागमो धातोर्गुणाभावश्छान्दसः । अदृश्रमिति रूपम् । कर्मणि लुङि प्रथमपुरुषबहुवचनस्थाने द्रष्टव्यमदृश्यन्तेत्यर्थे । वीत्युपसर्गोऽदृश्रमित्यनेन संबध्यते । केतुरिति प्रज्ञानामसु