पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिधृष्टशवाः तमप्रतिसृष्टशवसम् । क्व वहत इत्याह । ऋषीणां च वसिष्ठप्रभृतीनां च स्तुतीः उप समीपे । यज्ञं च मानुषाणाम् मनुष्याणां यजमानानामुप समीपे वहत इति वर्तते। उपयामेत्यादि समानव्याख्यानम् ॥ ३५ ॥
म० षोडशिग्रहे तृतीयो मन्त्रविकल्पः 'आग्रयणाद्वेन्द्रमिद्धरी इति गृहीत्वेति' कठसूत्रोक्तेः । इन्द्रदेवत्यानुष्टुब् गोतमदृष्टा । इत् एवार्थे । हरी हरितवर्णावश्वौ ऋषीणां स्तुतीरुप वसिष्ठादीनां मुनीनां स्तुतिसमीप इन्द्रमित् इन्द्रमेव वहतः प्रापयतः । च पुनः मानुषाणां यजमानानां यज्ञमुप यज्ञसमीपे च हरी इन्द्रं : वहतः। किंभूतमिन्द्रम् । अप्रतिधृष्टशवसम् प्रतिधर्षयितुं पराभवितुं शक्यं प्रतिधृष्टं न प्रतिधृष्टमप्रतिधृष्टं शवो बलं यस्य सोऽप्रतिधृष्ठशवास्तम् । उपयाम एष ते इति व्याख्याते ॥३५॥

षट्त्रिंशी।
यस्मा॒न्न जा॒तः परो॑ अ॒न्यो अस्ति॒ य आ॑वि॒वेश॒ भुव॑नानि॒ विश्वा॑ ।
प्र॒जाप॑तिः प्र॒जया॑ सᳪररा॒णस्त्रीणि॒ ज्योती॑ᳪषि सचते॒ स षो॑डशी ।। ३६ ।।
उ० षोडशिग्रहमुपतिष्टते । यस्मान्न जातः । त्रिष्टुप् । षोडशी परब्रह्मरूपेण स्तूयते । यस्मादन्यः पर उत्कृष्टो जातो देवो नास्ति न विद्यते महिम्नातश्चाविवेश आविशति भुवनानि भूतजातानि विश्वा विश्वानि सर्वाणि अन्तर्यामिरूपेण । तथाच श्रुतिः 'यः सर्वेषु भूतेषु तिष्ठति यश्च प्रजापतिर्भवति' इति । प्रजया संरराणः संरममाणः क्रीडन् । यश्च त्रीणि ज्योतींषि अग्निवायुसूर्यलक्षणानि सचते सेवते परमात्मरूपेण स षोडशीग्रहः ऋषेर्दृष्टार्थस्य प्रीतिर्भवत्याख्यानयुक्ता ॥ ३६॥
म० 'उपस्थायैनं यस्मान्न जात इति' ( का० १२ । ५।। १९)। षोडशिग्रहमुपतिष्ठेत् । इन्द्रदेवत्या त्रिष्टुप् विवस्वद्दृष्टा। परब्रह्मरूपेण षोडशी स्तूयते । यस्मात्पुरुषादन्यो व्यतिरिक्तः परः उत्कृष्टो देवादिर्जातः संभूतो नास्ति न विद्यते यश्च विश्वा विश्वानि सर्वाणि भुवनानि भूतजातानि आविवेश अन्तर्यामिरूपेण प्रवृष्टवान्सः प्रजापतिः स्वोत्पन्नप्रजापालकस्त्रीणि ज्योतींषि अग्निवायुसूर्यलक्षणानि तेजांसि विषयज्ञापकानि सचते सेवते । स्वतेजसा तज्ज्योतिषामुज्जीवनं करोतीत्यर्थः । 'येन सूर्यस्तपति तेजसेद्धः' इत्यादिश्रुतेः । 'यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्' (भ० गी० १५ । १२) इति स्मृतेश्च । किंभूतः प्रजापतिः । प्रजया संरराणः प्रजारूपेण सम्यग्रममाणः । तथा षोडशी षोडशकलात्मकलिङ्गशरीरोपहितः स एव सर्वव्यवहाराश्रय इत्यर्थः । 'यः सर्वेषु भूतेषु तिष्ठन्नि'त्यादिश्रुतेः ॥३६॥ :

सप्तत्रिंशी।
इन्द्र॑श्च स॒म्राड्वरु॑णश्च॒ राजा तौ ते भ॒क्षं च॑क्रतु॒रग्र॑ ए॒तम् ।
तयो॑र॒हमनु॑ भ॒क्षं भ॑क्षयामि॒ वाग्दे॒वी जु॑षा॒णा सोम॑स्य तृप्यतु स॒ह प्रा॒णेन॒ स्वाहा॑ ।। ३७ ।।
उ० षोडशिनं भक्षयति । इन्द्रश्च सम्राट् त्रिष्टुप् यजुरन्ता । सह प्राणेनेति यजुः । इन्द्रवरुणौ देवता षोडशीग्रहो वा । इन्द्रश्च सम्राट् यो वाजपेययाजी । वरुणश्च । चकारौ समुच्चयार्थीयौ । राजा यो राजसूययाजी । 'राजा वै राजसूयेनेट्वा भवति सम्राट् वाजपेयेन' इति श्रुतिः । ताविन्द्रवरुणौ ते तव हे षोडशिग्रह, भक्षं चक्रतुः कृतवन्तौ ।
अग्रे प्रथमम् । एतमित्यस्य भक्षेण सह संबन्धः । तयोर्भक्षमनु कुर्वन्नहं भक्षं भक्षयामि । मदीयेन च भक्षणेन वाग्देवी जुषाणा सेवमाना सोमस्य तृप्यतु सह प्राणेन ॥ ३७॥
म० 'इन्द्रश्च सम्राडिति भक्षणमिति' । षोडशिग्रहं भक्षयेत् । इन्द्रवरुणदेवत्या षोडशिदेवत्या वा त्रिष्टुब् यजुरन्ता । अन्त्यपादौ द्वादशाणौ सह प्राणेनेति यजुः विवस्वद्दृष्टा । हे षोडशिग्रह, तौ देवौ इन्द्रावरुणौ ते तव एतं सोममग्रे प्रथमं भक्षं चक्रतुः । तौ कौ । इन्द्रो वरुणश्च । चकारौ समुच्चये । | किंभूत इन्द्रः । सम्राट् परमैश्वर्ययुक्तः वाजपेययाजीत्यर्थः । किंभूतो वरुणः । राजा राजसूययाजी 'राजा वै राजसूयेनेष्ट्वा भवति सम्राड्वाजपेयेन' (५।१।१।१३) इति श्रुतेः। तयोरिन्द्रावरुणयोः संबन्धिनं भक्षमनु पश्चात् अहम् भक्षयामि सोमं पिबामि । जुषाणा मदीयेन भक्षेण सेवमाना वाग्देवी सरस्वती प्राणेन प्राणदेवतया सह सोमस्य तृप्यतु सोमेन तृप्ता भवतु । 'तृप्त्यर्थानां करणे षष्ठी वेति सोमशब्दात् षष्ठी । स्वाहा सुहुतमस्तु ॥ ३७ ॥
इति षोडशियागः संपूर्णः ॥

अष्टात्रिंशी। .
अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्च॑: सु॒वीर्य॑म् । दध॑द्र॒यिं मयि॒ पोष॑म् ।
उ॒प॒या॒मगृ॑हीतोऽस्य॒ग्नये॑ त्वा॒ वर्च॑स ए॒ष ते॒ योनि॑र॒ग्नये॑ त्वा॒ वर्च॑से ।
अग्ने॑ वर्चस्वि॒न्वर्च॑स्वाँ॒स्त्वं दे॒वेष्वसि॒ वर्च॑स्वान॒हं म॑नु॒ष्ये॑षु भूयासम् ।। ३८ ।।
उ० अथातिग्रहपुरोरुचस्तिस्रो गायत्र्योऽनीन्द्रसूर्यदेवत्याः अग्ने पवस्व हे भगवन्नग्ने, पवस्व । पवतिः प्रवृत्यर्थोऽन्तर्भावितण्यर्थः । पवस्व प्रवर्तयस्व । यस्त्वं स्वपा सुकर्मा । अप इति कर्मनामसु पठितम् । अस्मे अस्मासु वर्चः ब्रह्मवर्चसम् । सुवीर्यं शोभनवीर्यम् । दधद्रयिं मयि पोषम् धारयन् स्थापयन् रयिं धनं मयि पोषं पुष्टिं च प्रवर्तयस्वेति संबन्धः । उपयाम गृहीतोऽसि अग्नये त्वा वर्चसे । एष ते योनिः अग्नये त्वा वर्चसे । व्याख्यातम् । भक्षमन्त्रः अग्ने वर्चस्विन् । हे अग्ने, वर्चस्विन् ब्रह्मवर्चसेन संयुक्त । यथा त्वं देवेष्वसि वर्चोयुक्तः एवमहं मनुष्येषु वर्चोयुक्तो भूयासं भवे