पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अस्मान् भरीमभिः भरणैः हिरण्यपशुधान्यादिभिः । समाप्तोऽग्निष्टोमः ॥ ३२॥
म० 'मही द्यौरित्यङ्गारैरभ्यूहतीति' (का० २५ । १० ।। १८) । शामित्रे क्षिप्तं गर्भमङ्गारैश्छादयेत् । द्यावापृथिवीदेवत्या गायत्री मेधातिथिदृष्टा । मही महती द्यौः द्युलोकः पृथिवी भूलोकश्च नोऽस्माकमिमं यज्ञं मिमिक्षताम् । मिह सेचने' सन्नन्तः सेक्तुमिच्छतां । स्वैःस्वैर्भागेः पूरयतामित्यर्थः । भरीमभिः भरणैर्हिरण्यपशुधान्यादिभिः स्वैः स्वैर्भागैर्नोऽस्मदीयं गृहं पिपृतां पूरयताम् ॥ ३२ ॥
इत्यग्निष्टोममन्त्राः समाप्ताः ॥

त्रयस्त्रिंशी।
आ ति॑ष्ठ वृत्रह॒न्रथं॑ यु॒क्ता ते॒ ब्रह्म॑णा॒ हरी॑ । अ॒र्वा॒चीन॒ᳪ सु ते॒ मनो॒ ग्रावा॑ कृणोतु व॒ग्नुना॑ ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने॑ ।। ३३ ।।
उ० अथ षोडशी अग्ने पवस्वेत्येतस्मात्प्राक् । आतिष्ठ। तिस्र ऐन्द्र्योऽनुष्टुभः । आतिष्ठ अधितिष्ठ आरोह हे वृत्रहन् वृत्रस्य हन्तः, रथं युक्तौ ते तव ब्रह्मणा त्रयीलक्षणेन इन्द्रागच्छेत्यादिना हरी हरितवर्णावश्वौ । तौ हि आह्वानानीन्द्रस्योपश्रुत्य, प्राप्त आवयोर्नियोजनकाल इति मन्यमानौ स्वयमेवात्मानं रथे युञ्जाते अत एवमाह युक्ता ते ब्रह्मणा हरी इति । अथेदानीं रथारूढस्य अर्वाचीनम् अस्मदभिमुखम् सु साधु ते तव मनः हे इन्द्र, ग्रावा सोमाभिषवकारी कृणोतु करोतु वग्नुना वग्नुरिति वाङ्नामसु पठितम् । सोमाभिषवध्वनिना । उपयाम गृहीतोसीन्द्राय त्वा षोडशिनं गृह्णामि एष ते योनिः इन्द्राय त्वा षोडशिने ॥ ३३ ॥
म० अथ षोडशी अग्ने पवस्व (क० ३७) इत्यस्मात्प्राक् 'प्रातःसवनेऽतिग्राह्यान्गृहीत्वा षोडशिनं खादिरेण चतुःस्रक्तिनातिष्ठ युक्ष्वा हीति वेति' ( का० १२ । ५। २)। प्रातःसवने आग्रयणग्रहणानन्तरमाग्नेयमतिग्राह्यमादाय चतुःकोणेन खादिरोलूखलेनातिष्ठ युक्ष्वा हीति मन्त्रयोरन्यतरेण सोपयामेन षोडशिग्रहं गृह्णीयात् । इन्द्रदेवत्यानुष्टुब् गोतमदृष्टा । हे वृत्रहन्निन्द्र । ते तव हरी हरितवर्णावश्वौ ब्रह्मणा त्रयीलक्षणेन इन्द्रागच्छेत्यादिमन्त्रेण युक्ता रथे संयुक्तौ अतस्त्वं रथमातिष्ठ आरोह । इन्द्राह्वानं श्रुत्वास्मन्नियोजनकालः प्राप्त इति मत्वाश्वौ स्वयमेव रथे युञ्जाते इति युक्ता इत्युक्तम् । किंच ग्रावा सोमाभिषवपाषाणः ते तव रथारूढस्य मनोऽर्वाचीनमस्मद्यज्ञाभिमुखं सु कृणोतु सुतरां करोतु । केन वग्नुना । वग्नुरिति वाङ्नामसु पठितम् । वाचा श्रवणीयेन सोमाभिषवशब्देन । हे सोम, उपयामेन गृहीतोऽसि षोडशिने । षोडशं स्तोत्रमस्यास्तीति षोडशी तस्मै इन्द्राय त्वा त्वां गृह्णामीति शेषः । सादयति हे ग्रह, एष ते योनिः स्थानं षोडशिन इन्द्राय त्वां सादयामीति शेषः॥ ३३ ॥

चतुस्त्रिंशी।
यु॒क्ष्वा हि के॒शिना॒ हरी॒ वृष॑णा कक्ष्य॒प्रा । अथा॑ न इन्द्र सोमपा गि॒रामुप॑श्रुतिं चर ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने॑ ।। ३४ ।।
उ० द्वितीयो ग्रहणमन्त्रः । युक्ष्वा हि । 'युजिर् योगे' । युङ्ग्धि । हि यस्मात् केशिनौ प्रलम्बकेसरौ हरी हरितवर्णावश्वौ वृषणौ वर्षितारौ सेक्तारौ तरुणौ । कक्ष्यप्रा कक्ष्या अश्वस्य संनाहरज्जुः । 'प्रा पूरणे' । कक्ष्यां यावापूरयतः तावेवमुच्येते । तौ युक्त्वा रथे तमास्थाय । अथ समनन्तरमेव नोऽस्माकम् हे इन्द्र, सोमपाः सोमपानशीलः गिरामुपश्रुतिं चर स्तुतिलक्षणां गिरं वाचमुपश्रुत्य चर आगच्छास्मद्गृहम् । उपयामेत्यादि समानम् ॥ ३४ ॥
म० द्वितीयो ग्रहणमन्त्रः । इन्द्रदेवत्यानुष्टुब् मधुच्छन्दो'दृष्टा । हे इन्द्र, हि निश्चितं हरी हरितवर्णौ त्वदीयावश्वौ युक्ष्वा । रथेन संयोजय । कीदृशौ हरी । केशिना प्रलम्बकेसरौ तथा वृषणा । 'वृष सेचने' । वृषणौ वर्षितारौ सेक्तारौ तरुणौ । 'वा षपूर्वस्य निगमे' (पा० ६ । ४ । ९) इति दीर्घाभावः । तथा कक्ष्यप्रा कक्षे भवः कक्ष्यः अश्वसन्नाहरज्जुः कक्ष्यं मध्यबन्धन प्रातः पूरयतस्तौ कक्ष्यप्रौ स्थूलावयवावित्यर्थः । अथानन्तरं रथारोहणानन्तरं हे इन्द्र, सोमपाः सोमपानं कुर्वन्नोऽस्मदीयानां गिरामृग्यजुःसामलक्षणानां वाचामुपश्रुतिमुपश्रवणं चर गच्छ प्राप्नुहि । अस्मद्गिरः शृण्वित्यर्थः । वाचं श्रुत्वास्मद्गृहमागच्छेत्यर्थः । उपयाम एष ते एते व्याख्याते । अथेत्यत्र संहितायां दीर्घः ॥ ३४ ॥

पञ्चत्रिंशी।
इन्द्र॒मिद्धरी॑ वह॒तोऽप्र॑तिधृष्टशवसम् । ऋषी॑णां च स्तु॒तीरुप॑ य॒ज्ञं च॒ मानु॑षाणाम् ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिने॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने॑ ।। ३५ ।।
उ० तृतीयो मन्त्रविकल्पः। इन्द्रमिद्धरी। इच्छब्द एवार्थे । इन्द्रमेव हरितवर्णावश्वौ वहतः प्रापयतः । अत्र 'ऋक्सामे वै हरी' इति श्रुतेः द्विवचनान्तहरिशब्दस्य ऋक्सामवाचकत्वाद्धरितवर्णावश्वाविन्द्रमेनं वहतमिति व्याख्यानं न घटते । हरितवर्णयोर्ह्यश्वयोः सर्वत्र सुलभत्वात् । इन्द्राश्वयोश्च हरितवर्णत्वमप्रसिद्धम् 'मयूररोमभिः पृषती अभूताम्' इत्यादिश्रुतेर्दर्शनात् । 'पशवो वै देवानां छन्दाᳪसि' इत्यादिश्रुतिपर्यालोचनया नानावर्णच्छन्दोमये ऋक्सामे एवेन्द्रं वहत । इति युक्तं नतु हरितवर्णावश्वौ । कथंभूतमिन्द्रम् । अप्रतिधृष्टशवसम् न प्रतिवर्षयितुं शक्यते शवो बलं यस्य स अप्र