पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

इति सस्य दत्वे 'अनिदिताम्-' (पा० ६ । ४ । २४ ) इति नलोपे अडागमे च अस्रदिति रूपम् ॥ २८ ॥

एकोनत्रिंशी।
यस्यै॑ ते य॒ज्ञियो॒ गर्भो॒ यस्यै॒ योनि॑र्हिरण्यी ।
अङ्गा॒न्यह्रु॑ता॒ यस्य॒ तं मा॒त्रा सम॑जीगम॒ᳪ स्वाहा॑ ।। २९ ।।
उ० अवदानान्यनुजुहोति । यस्यै ते यज्ञियः । अनुष्टुप् वशोच्यते । यस्यास्ते तव यज्ञियो गर्भः यज्ञार्हो गर्भः यस्याश्च तव योनिर्हिरण्ययी क्रियते ब्रह्मणा यजुषा तां त्वां गर्भेण संगमयामि । यस्य च गर्भस्य अङ्गानि अह्रुता अह्रुतानि अनवखण्डितानि । 'ह्रुह्वरेश्छन्दसी'ति ह्रुरादेशः । तं गर्भं मात्रा अनूबन्ध्यालक्षणया समजीगमं संगमयामि ॥ २९॥
म० 'अवदानान्यनुजुहोति यस्यै त इति' ( का० २५ । । १० । ११)। वशावदानानि हुत्वा गर्भरक्तं जुहुयात् । वशादेवत्यानुष्टुप् । हे वशे, यस्यास्ते तव गर्भो यज्ञियः यज्ञार्हः यस्यै यस्याश्च तव योनिर्हिरण्ययी सुवर्णमयी 'ऋत्व्यवास्त्व्य-' (पा० । ६।४।१७५) इति निपातः । सुवर्णमयी मन्त्रेण क्रियत इत्यर्थः । तादृशीं त्वां गर्भेण सङ्गमयामीति शेषः । यस्य गर्भस्याङ्गान्यह्रुता। 'ह्वृ कौटिल्ये' 'ह्रुह्वरेश्छन्दसि' (पा० ७ । २ । ३१) इति ह्रुरादेशो निष्ठायाम् । अकुटिलानि अखण्डितानि तं गर्भं मात्रा जनन्यानूबन्ध्यालक्षणया समजीगमं सङ्गमयामि । गमेर्ण्यन्तस्य लुङि चङि रूपम् । स्वाहेति होमार्थः ॥ २९ ॥

त्रिंशी।
पुरुद॒स्मो विषु॑रूप॒ इन्दु॑र॒न्तर्म॑हि॒मान॑मानञ्ज॒ धीर॑: । एक॑पदीं द्वि॒पदीं॑ त्रि॒पदीं॒ चतु॒ष्पदीम॒ष्टाप॑दीं॒ भुव॒नानु॑ प्रथन्ता॒ᳪ स्वाहा॑ ।। ३० ।।
उ० अध्वर्योरनुहोममेधं जुहोति । गर्भः स्तूयते इन्दुसंस्तवेन । पुरुदस्मो बहुदानः । विषुरूपः बहुरूपो हि गर्भो भवति । इन्दुः सोमः । पशोर्हि सोमसंस्तवो विद्यते । अन्तरुदरे व्यवस्थितो महिमानं महाभाग्यम् आनञ्ज । अञ्जतेर्व्यतीकरणार्थस्यैतद्रूपम् । व्यक्तीकरोति । धीरः मेधावी । इत्थंभूतं महिमानमानञ्ज धीरो येन एकपदीं द्विपदीं त्रिपदीं चतुष्पदीमष्टापदीमपि वशामवगणयित्वा भूतरूपेण भुवनानि भूतजातानि अनुप्रथन्ताम् । वशाया अङ्गमनुप्रथयते वृद्धिरेवं भूतानां भविष्यतीत्यभिप्रायः । कथमियं वशा चतुष्पदी सती एकपद्यादिभेदैरुच्यते । अवप्लुत्य स्तूयत इति ब्रूमः । वशेत्येकपदी, वपया अङ्गैश्च द्विपदी, उपयट् होमैश्च त्रिपदी चतुष्पदी पत्नीसंयाजैश्चतुर्भिर्वा पादैः । अष्टापदी तु गर्भसंबन्धिभिः पादैः ॥३०॥
म० 'स्विष्टकृतमनुजुहोति पुरुदस्म इति' ( का० २५ । १० । १५)। प्रचरण्यां स्रुचि प्रतिप्रस्थाता सर्व गर्भरसमवदायाध्वर्युणा स्विष्टकृद्धोमे कृते सति जुहुयात् ॥ गर्भदैवत्यं यजुः । इन्दुरूपेण गर्भः स्तूयते । इन्दुः क्लेदनरूपः सोमसदृशो गर्भो महिमानं महत्त्वमानञ्ज व्यक्तीकरोतु । अञ्जतेर्व्यक्तीकरणार्थस्य लिटि रूपम् 'तस्मान्नुड् द्विहलः' (पा० ७ । ४ । ७१) ति नुडागमः । विशेषणैर्महिमानमाह । कीदृश इन्दुः । पुरुदस्मः पुरु दस्म यस्य बहुदानयुक्तः । विषुरूपः बहुरूपः अन्तरुदरे स्थितः धीरो मेधावी एवंभूतं महिमानमानञ्जेत्यर्थः । एवं महिमवतो गर्भस्य मातरमनूबन्ध्यां भुवना भुवनानि भूतजातानि अनुप्रथन्तां प्रख्यातां कुर्वन्तु । विशेषणैः प्रख्यातिमाह कीदृशीम्। एकपदीमेकं पदं यस्यास्तां वपयैकपदयुताम् । द्विपदीं वपया अङ्गैश्च द्विपदयुताम् । त्रिपदीं त्रीणि पदानि यस्यास्तामुपयड्ढोमैस्त्रिपदीं । चतुष्पदीं पत्नीसंयाजैश्चतुर्भिः पादैर्वा चतुःपादयुताम् । अष्टापदीं स्वपादैर्गर्भपादैश्चाष्टपादयुताम् एवंभूतां वशां गणयित्वा भूतान्यनुप्रथन्तामिति संबन्धः । स्वाहा सुहुतमस्तु ॥ ३० ॥

एकत्रिंशी।
मरु॑तो॒ यस्य॒ हि क्षये॑ पा॒था दि॒वो वि॑महसः । स सु॑गो॒पात॑मो॒ जन॑: ।। ३१ ।।
उ० जुहोति मरुतो यस्य । मारुती गायत्री । मरुतः यस्य क्षये निवासगृहे । 'क्षयो निवास' इत्याद्युदात्तः । पाथ 'पा पाने' शपो लुप् । पिबथ पानादीन्कुरुथ । हे दिवोविमहसः द्युलोकस्य महयितारः पूजयितारः । स सुगोपातमोजनःस सुगुप्ततमो यजमानजनः । युष्मद्गुप्तानां न भयमस्तीत्यभिप्रायः ॥ ३१ ॥
म०. 'समिष्टयजुरन्ते शामित्र एव जुहुयात्तिष्ठन्मरुत इत्यस्वाहाकृत्येति' ( का० २५ । १० । १८)। समिष्टयजुर्होमान्ते शामित्राग्नावेव अस्वाहान्तेन मन्त्रेणोष्णीषवेष्टितं गर्भ जुहोति मन्त्रान्ते स्वाहाकारमनुच्चार्य जुहुयादित्यर्थः । मरुद्देवत्या गायत्री गोतमदृष्टा । हे दिवो विमहसः विशिष्टं महो येषां ते द्युलोकसंबन्धिना विशिष्टेन महसा तेजसा युक्ताः । यद्वा विशिष्टं महन्ति पूजयन्ति ते विमहसः द्युलोकस्य पूजयितारो हे मरुतः, यस्य यजमानस्य क्षये यज्ञगृहे यूयं पाथ सोमपानं कुरुथ । 'पा पाने' शपो लुक् पिबादेशाभावश्च छान्दसः संहितायां दीर्घः 'द्व्यचोऽतस्तिङः' (पा० ६ । ३ । १३५) इति सूत्रेण । हि निश्चितं स जनः यजमानाख्यः सुगोपातमः गोपायतीति गोपा रक्षकः अत्यन्तं शोभनो गोपा यस्य स सुगोपातमः युष्मद्गुप्तानां भयं नास्तीत्यर्थः ॥ ३१ ॥

द्वात्रिंशी। ।
म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञं मि॑मिक्षताम् । पि॒पृ॒तां नो॒ भरी॑मभिः ।। ३२ ।।
उ० अङ्गारैरभिसमूहति महीद्यौः द्यावापृथिव्यौ गायत्री। महती द्यौः पृथिवी च नः अस्माकमिमं यज्ञं मिमिक्षताम् । 'मिह सेचने' । सिञ्चतु स्वैः स्वैर्भागैः पिपृतां नः बिभृतां नः