पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षड्डिशी।
देवी॑राप ए॒ष वो॒ गर्भ॒स्तᳪ सुप्री॑त॒ᳪ सुभृ॑तं बिभृत । देव॑ सोमै॒ष ते॑ लो॒कस्तस्मि॒ञ्छं च॒ वक्ष्व॒ परि॑ च॒ वक्ष्व॑ ।। २६ ।।
उ० विसृज्योपतिष्ठते । देवीरापः । पङ्क्तिर्वा बृहती वा। अपां च सोमस्य च संगतिं वदति । हे देव्य आपः, एष सोमो वः युष्माकं गर्भो वर्तते । तं सुप्रीतं साधुतर्पितम् । सुभृतं सुपुष्टम् बिभृत धारयत । हे देव सोम, एष ते लोकः स्थानं तस्मिन्नवस्थितः शं च वक्ष्व परि च वक्ष्व शं सुखमस्मान् प्रति वह प्रापय । परिवह च अस्मत्तः सर्वा आर्तीः। तस्मिन्नः शं चैधि । सर्वाभ्यश्च न आर्तिभ्यो गोपायेति श्रुतिः ॥२६॥
म०. 'देवीराप इति विसृज्योपतिष्ठत इति' ( का० १० । ९।२)। ऋजीषकुम्भं मुक्त्वोपस्थानं कुर्यात् । अष्टत्रिंशदक्षरत्वात्पङ्क्तिर्बृहती वा । पूर्वार्धमब्देवतमुत्तरार्ध सोमदेवतम् । हे देवीर्देव्यः हे आपः, वो युष्माकमेष सोमो गर्भस्थानीयः तं तादृशं सोमं यूयं बिभृत धारयत । किंभूतं तम् । सुप्रीतं शोभनप्रीतियुक्तं साधुतर्पितं वा तथा सुभृतं सुपुष्टम् । इदानीं सोमं वदति । हे सोम, हे देव दीप्यमान, ते तव एष जललक्षणो लोकः स्थानं तस्मिन्नवस्थितः सन् त्वं शं वक्ष्व वह शं सुखमस्मान्प्रति प्रापय परिवक्ष्व च परिवह निवर्तय अस्मत्तः सर्वा आर्तीरिति शेषः। तस्मिन्नः शं चैधि सर्वाभ्यश्च न आर्तिभ्यो गोपाय' (४।४।५।२१) वहतेर्लोट् मध्यमैकवचने तङि शपि लुप्ते रूपं वक्ष्वेति ॥ २६ ॥

सप्तविंशी।
अव॑भृथ निचुम्पुण निचे॒रुर॑सि निचुम्पु॒णः ।
अव॑ देवैर्दे॒वकृ॑त॒मेनो॑ऽयासिष॒मव॒ मर्त्यै॒र्मर्त्य॑कृतं पुरु॒राव्णो॑ देव रि॒षस्पा॑हि । दे॒वाना॑ᳪ स॒मिद॑सि ।। २७ ।।
उ० मज्जति । अवभृथेति । व्याख्यातम् । समिधमादधाति । देवानाम् दैवीभूतानामस्माकं समिन्धनं त्वं भवसि ॥ २७ ॥
म० 'अवभृथेति मज्जयतीति' ( का० १० । ९ । ३)। ऋजीषकुम्भं जले प्रवेशयेत् । यज्ञदैवतम् । अवाचीनानि पात्राणि जलमध्ये भ्रियन्ते यस्मिन्यज्ञविशेषे सोऽवभृथः तत्संबोधनं हे अवभृथ, त्वं निचुम्पुण नितरां मन्दं गच्छ । 'चुपि मन्दायां गतौ' इति धातोः। यद्यपि त्वं निचेरुरसि नितरां चरणशीलोऽसि तथाप्यत्र निचुम्पुण नितरां मन्दं गच्छ । किं प्रयोजनमिति चेत् उच्यते । देवैर्द्योतनात्मकैरस्मदीयैरिन्द्रियैर्देवकृतं देवेषु हविःस्वामिषु कृतमेनः पापं यदस्ति तदवयासिषं जले अवनीतवानस्मि । 'देवः सुरे धने राज्ञि देवमाख्यातमिन्द्रिय'मित्यभिधानात् । तथा मत्यैर्मनुष्यैरस्मत्सहायभूतैर्ऋत्विग्भिर्मर्त्यकृतं मर्त्येषु यज्ञदर्शनार्थमागतेषु कृतमवज्ञारूपं यदेनोऽस्ति तदप्यहमवायासिषमित्यनुवर्तते । इदमस्माभिः परित्यक्तमेनो यथा त्वां न प्राप्नोति तथा हे यज्ञ, मन्दं गच्छेति भावः। किंच हे देवावभृथाख्य यज्ञ, रिषः वधात्पाहि अस्मान्पालय । "रिष वधे' क्विप् । किंभूताद्रिषः । पुरुराव्णः पुरु बहु विरुद्धं फलं राति ददातीति पुरुरावा । ‘रा दाने' 'आतो मनिन्-' ( पा० ३ । २ । ७४ ) इत्यादिना वनिप् । विरुद्धफलदायी वधः त्वत्प्रसादादस्माकं मा भूदित्यर्थः । 'आहवनीये समिदाधानं देवानाᳪसमिदसीति' ( का० ५।५।३५)। स्नानानन्तरमाहवनीयमेत्य तस्मिन्समिधं दध्यात् । अग्निदेवतं यजुः । देवानां संबन्धिनी समित् इन्धनमसि । यद्वा । देवभूतानामस्माकं समिन्धनं भवसि ॥ २७ ॥

इतः परमनुबन्ध्यायां गर्भिण्यां प्रायश्चित्तं कथ्यते ॥
अष्टाविंशी।
एज॑तु॒ दश॑मास्यो॒ गर्भो॑ ज॒रायु॑णा स॒ह । यथा॒ऽयं वा॒युरेज॑ति॒ यथा॑ समु॒द्र एज॑ति । ए॒वा॒यं दश॑मास्यो॒ अस्र॑ज्ज॒रायु॑णा स॒ह ।। २८ ।।
उ० इत उत्तरमनूबन्ध्या यदि गर्भिणी स्यात्तत्र प्रायश्चित्तिरुच्यते । त्र्यवसाना महापङ्क्तिः। एजतु दशमास्यः एजतु चलतु। 'एजृ कम्पने'। दशमासकालावच्छिन्न इव गर्भो जरायुणा सह। जरायुर्गर्भवेष्टनम् । कथं चलतु इत्यत उपमया दर्शयति । यथायं वायुरेजति यथा च समुद्रश्चलति । एतौ हि सदाचलनौ । एवमयं दशमास्यः । 'तमेतदप्यदशमास्यं सन्तं ब्रह्मणैव यजुषा दशमास्यं करोतीति' श्रुतिः । अस्रत् । स्रंसतेरेतद्रूपं स्रवतेर्वा । स्रंसतु स्रवतु वा । जरायुणा सह अस्रत् अपसरतु गर्भो वेष्टनेन सह ॥ २८ ॥
म० 'निरुह्यमाणमभिमन्त्रयत एजतु दशमास्य इति' (का० २५ । १० । ७)। यद्यनूबन्ध्या वशा गर्भिणी स्यात्तदा विशसने मातुः सकाशात्पृथक् क्रियमाणं गर्भमभिमन्त्रयेत । अवसानत्रययुक्ता गर्भदेवत्या महापङ्क्तिः। अष्टाक्षराः षट् पादा यस्याः सा महापङ्क्तिः । गर्भः जरायुणा सह एजतु । 'एजृ कम्पने' । जरायुर्गर्भवेष्टनं तेन सह कम्पतां चलतु । किंभूतो गर्भः । दशमास्यः दश मासा जाता यस्य सः । दशमासकालावच्छिन्न इव चलत्वित्यर्थः । कथं चलतु तत्राह । यथा येन प्रकारेणायं वायुरेजति चलति यथा च समुद्र एजति । एतौ हि सदा कम्पनशीलौ । एवेति निपात एवमर्थे । एवमयं दशमास्यः संपूर्णावयवो गर्भो जरायुणा सह अस्रत्स्रंसतां निर्गच्छतु। यद्यप्ययं गर्भो दशमास्यो नास्ति तथापि संपूर्णस्येव निर्गमनमाशास्यते । 'तमेतदप्यदशमास्यं सन्तं ब्रह्मणैव यजुषा दशमास्यं करोति' (४ । ५। २ । ४) इति श्रुतेः 'स्रंस अधःपतने' व्यत्ययेन परस्मैपदे शपो लुकि च कृते 'हल्ङ्याब्भ्यः -' (पा० ६। १।६८) इति तिपि लुप्ते 'वावसाने' (पा० ८ । ४ । ५६)