पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

हृदयाविधश्चित् । उत अपिच । अपवक्ता अपवदिता आक्षेप्ता हृदयाविधश्चित् । चिच्छब्दोप्यर्थे । हृदयं यो विध्यति मर्माण्युच्चार्योच्चार्य पिशुनः तस्याप्यपवदिता किमुतान्येषामत्युक्तकारिणामिति । य इत्थंभूतो वरुणः सोऽवभृथाय तीर्थं ददात्विति शेषः । अपोवक्रमयन्वाचयति नमो वरुणाय । अधिष्ठितः आक्रान्तः वरुणस्य पाशो नालं बन्धनाय ॥२३॥
म०. 'कृष्णविषाणमेखले चात्वाले प्रास्यति माहिर्भूरिति' ( का० १० । ८ । १३) । यजमानहस्तस्थं मृगशृङ्गं मध्ये बद्ध्वा मेखला चेत्युभे विस्रस्य चात्वाले क्षिपेत् । रज्जुदेवत्यम् । हे रज्जो, त्वमहिः सर्पो मा भूः । पृदाकुः अजगरः सर्पविशेषः सोऽपि मा भूः । 'उरुᳪहीति वाचयतीति' ( का. १०। ८ । १५)। अवभृथाय जिगमिषुरध्वर्युश्चात्वालसमीपस्थं प्राङ्मुखं यजमानं वाचयेत् । वरुणदेवत्या त्रिष्टुप् शुनःशेपदृष्टा । उशब्दोऽवधारणे । वरुण एव राजा सूर्याय अन्वेतवे । षष्ठ्यर्थे चतुर्थी । सूर्यस्यान्वेतुमनुक्रमेणान्वहं गन्तुं हि यम्मात् उरुं विस्तीर्णं पन्थां पन्थानं मार्गं चकार । क्व अपदे नास्ति पदं यस्मिन् यत्र दत्तं पदं प्रतिमुद्रितं न भवति तस्मिन्नन्तरिक्षे मार्गं कृतवानित्यर्थः । तम्मादस्माकमपि अपदे अन्तरिक्षे पादा प्रतिधातवे पादौ निक्षेप्तुं । विभक्तेराकारः । मार्ग कः करोतु । स्वर्गगमनाय मार्ग करोत्वित्यर्थः । करोतेरदादित्वेन लङि शपो लुक् अडभाव आर्षः । किंच यो वरुणः उतापिच हृदयाविधश्चिदपवक्ता हृदयं विध्यति मर्मोच्चारणेन पीडयति हृदयवित् 'नहिवृतिवृषि-' (पा० ६ । ३ । ११६ ) इत्यादिना क्विबन्ते व्यधौ परे हृदयस्य दीर्घः । तस्य हृदयाविधः पिशुनस्यापि अपवदिता चिच्छब्दोऽप्यर्थे । निन्दकस्यापि तिरस्कर्ता किमुतान्येषां पापकारिणामित्यर्थः । ईदृशो वरुणोऽवभृथाय मार्गं ददात्वित्यर्थः । अन्वेतवै प्रतिधातवे। अनुपूर्वादिणः प्रतिपूर्वाद्दधातेश्च 'तुमर्थे सेसे-' (पा० ३।४।९) इत्यादिना क्रमात्तवैतवेप्रत्ययौ 'नमो वरुणायेति वाचयत्यपोऽवक्रमयन्निति' ( का० १० । ८ । २१)। अवभृथस्नानार्थमपः प्रवेशयन्यजमानं वाचयेत् । वारुणं यजुः । वरुणस्य पाशोऽधिष्ठितः आक्रान्तस्तस्मान्न बन्धनक्षमस्तस्मै वरुणाय नमो नमस्कारोऽस्त्विति शेषः ॥ २३ ॥

चतुर्विंशी।
अ॒ग्नेरनी॑कम॒प आ वि॑वेशा॒पां नपा॑त् प्रति॒रक्ष॑न्नसु॒र्य॒म् ।
दमे॑दमे स॒मिधं॑ यक्ष्यग्ने॒ प्रति॑ ते जि॒ह्वा घृ॒तमुच्च॑रण्य॒त् स्वाहा॑ ।। २४ ।।
उ० समिधं प्रास्याभिजुहोति । अग्नेरनीकम् । आग्नेयी त्रिष्टुप् । अग्नेरनीकमिति परोक्षलिङ्गम् । दमेदमे समिधं यक्ष्यग्ने प्रत्यक्षं लिङ्गमेकस्मिन्वाक्ये । अत एवं व्याख्यायते । यस्य तवाग्नेः सतः अनीकं मुखम् । अप उदकमाविवेश प्रविवेश प्रविष्टम् अपान्नपात्संज्ञकम् । प्रति रक्षन् असुर्यम् असुरस्य स्वं मायादिकम् । स त्वमिदानीं दमेदमे । दम इति गृहनाम । यज्ञगृहे यज्ञगृहे । अश्वमेधविषया वीप्सा । तत्र हि नानावभृथान्यहानि भवन्ति । समिधं यक्षि यज । यजतिः संगतिकरणार्थः । समिधं संगतां कुरु आत्मसात्कुरु । ' ततोऽनन्तरं घृतं प्रति ते तव जिह्वा ज्वाला उच्चरण्यत् । उच्चरन्तु समिधः सकाशात् ॥ २४ ॥
म० 'प्रास्य समिधं चतुर्गृहीतेनाभिजुहोति अग्नेरनीकमिति' (का० १० । ८ । २२)। अप्सु समिधं प्रक्षिप्य चतुर्ग्रहीतेनाज्येन तदुपरि जुहुयात् । अग्निदेवत्या त्रिष्टुप् । अग्नेरनीकमिति परोक्षलिङ्गं, समिधं यक्ष्यग्न इति प्रत्यक्षलिङ्गमेकस्मिन्वाक्ये त्वसङ्गतमतो यच्छब्दाध्याहारेण योज्यम् । हे अग्ने, यस्य तवाग्नेः अङ्गनशीलस्य सतोऽपान्नपात्संज्ञकमनीकं मुखमप उदकान्याविवेश आभिमुख्येन प्रविवेश हे अग्ने, स त्वं दमेदमे तत्तद्यज्ञगृहे असुर्यमसुरैः कृतं यज्ञविघ्नं प्रतिरक्षन्निवर्तयन्सन् समिधं समिन्धनसाधनं घृतं यक्षि यज सङ्गतं कुरु । यजतिः सङ्गतिकरणार्थः शपो लुकि लटि रूपम् । घृतमात्मसङ्गतं कुर्वित्यर्थः। ततोऽनन्तरं ते तव जिह्वा ज्वाला घृतं प्रति उच्चरण्यत् उच्चरतु उद्युक्तास्तु । । स्वाहा सुहुतमस्तु । दमेदमे इति वीप्साश्वमेधविषया। तत्र हि नानावभृथान्यहानि भवन्ति । उत्पूर्वाच्चरतेर्लोडर्थे न्यत्प्रत्यय औणादिकः ॥ २४ ॥

पञ्चविंशी।
स॒मु॒द्रे ते॒ हृद॑यम॒प्स्वन्तः सं त्वा॑ विश॒न्त्वोष॑धीरु॒ताप॑: । य॒ज्ञस्य॑ त्वा यज्ञपते सू॒क्तोक्तौ॑ नमोवा॒के वि॑धेम॒ यत्स्वाहा॑ ।। २५ ।।
उ० ऋजीषकुम्भं प्लावयति । समुद्रे ते । सौमी विराट् । यदित्ययं निपातो हृदयशब्देन सह संबध्यते समानलिङ्गत्वात्। यद्धृदयं समुद्रे ते तव अप्सु अन्तः अपां च अन्तर्मध्ये वर्तते तत्र त्वां गमयामि। तत्रस्थं च त्वां संविशन्तु ओषधीः । उत अपि च आपः । किंच यज्ञस्य च सूक्तोक्तौ शोभनवचनोच्चारणे नमोवाके नमस्कारवचने च विधेम । विधतिः स्थापनार्थः । हे यज्ञपते सोम ॥ २५॥
म० 'समुद्रे त इति ऋजीषकुम्भं प्लावयतीति' ( का० १० । ९।१)। गतसारः सोम ऋजीषस्तेन पूर्ण कुम्भमप्सु क्षिपेत् । सोमदेवत्या विराट दशाक्षरचतुःपादा । अन्ते वर्तमानो यच्छब्दो हृदयेन संबध्यते । हे सोम, यत्ते तव हृदयं समुद्रे अप्सु समुद्रसमानासु अप्सु बहुलोदकेषु अन्तर्मध्ये तिष्ठते वर्तत इति वा शेषः । तत्र त्वां गमयामीति शेषः । तत्रस्थं त्वा त्वामोषधीरोषधयः संविशन्तु । उत अपि च आपो जलानि त्वां संविशन्तु। : किंच हे यज्ञपते, यज्ञस्य पालक सोम, यज्ञस्य सूक्तोक्तौ शोभनवचनोच्चारणे नमोवाके नमसो वाके नमस्कारवचने च त्वा त्वां विधेम स्थापयामः । विधतिः स्थापनार्थः । स्वाहा सुहुतमस्तु ॥ २ ॥