पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिष्ठत आश्रयत । यस्य यस्य यत्र गृहाः सन्ति तांस्तानन्वातिष्ठतेत्यर्थः । 'छन्दसि परेऽपि' (पा. १ । ४ । ८१) इति अनोः क्रियापदात्परत्वम् । स्वाहा सुहुतमस्तु हविः ॥ १९ ॥

विंशी।
व॒यᳪ हि त्वा॑ प्रय॒ति य॒ज्ञे अ॒स्मिन्न॑ग्ने॒ होता॑र॒मवृ॑णीमही॒ह ।
ऋध॑गया॒ ऋध॑गु॒ताश॑मिष्ठाः प्रजा॒नन् य॒ज्ञमुप॑ याहि वि॒द्वान्त्स्वाहा॑ ।। २० ।।
उ० वयᳪहि त्वा । अग्निं व्यवसृजति । वयमेव त्वां प्रयति प्रगच्छति प्रारभ्यमाणे यज्ञे अस्मिन् हे अग्ने । होतारमवृणीमहि वृतवन्तः । इह मन्त्रे अग्निर्देवो होतेति । त्वं च वृतः सन् ऋधगयाः । ऋध्नोतेः पूर्वं पदं, यजतेरुत्तरं पदम् । ऋध्नुवन्नयाक्षीः समर्धयन्निष्टवानसि । किंच ऋधगुताशमिष्ठाः । उत अपि च ऋध्नुवन्नेव यज्ञप्रायश्चित्तं शमितवानसि । इदानीं प्रजानन्यज्ञपरिसमाप्तिं गृहमुपयाहि । विद्वान् जानानः स्वमधिकारम् ॥ २० ॥
म० अथ षष्ठः । आग्नेयी त्रिष्टुप् इदानीमग्निं विसृजति । हे अग्ने, हि यस्मात्कारणादिहास्मिन् दिने स्थाने वा अस्मिन् । यज्ञे प्रयति प्रवर्तमाने सति होतारं देवानामाह्वातारं होमनिष्पादकं वा त्वा त्वां वयमवृणीमहि वृतवन्तः । 'अग्निर्वै दैव्यो होते ति श्रुतेः तस्मात्कारणाद्धृतस्त्वमृधक् समृद्धं यथा भवति तथा अयाः । यद्वा ऋध्नोतीति ऋधक् ऋध्नुवन् यज्ञं समर्धयन्सन् अयाः अयाक्षीः इष्टवानसि । यज्ञं कारितवानसीत्यर्थः । यजतेश्र्लिलोपे यकारस्य छान्दसं रुत्वम् । उतापि च ऋधक् ऋध्नुवन्नेव अशमिष्ठाः यज्ञप्रायश्चित्तं शमितवानसि विघ्नशान्तिं वा अकार्षीः स त्वमिदानीं यज्ञं प्रजानन् यज्ञं समाप्तमवगच्छन् । उपयाहि स्वगृहं गच्छ । किंभूतस्त्वम् विद्वान्पण्डितः स्वाधिकारं जानन्नित्यर्थः । स्वाहा तुभ्यं सुहुतमस्तु ॥ २० ॥

एकविंशी।
देवा॑ गातुविदो गा॒तुं वि॒त्त्वा गा॒तुमि॑त । मन॑सस्पत इ॒मं दे॑व य॒ज्ञᳪ स्वाहा॒ वाते॑ धाः ।। २१ ।।
उ० देवागातुविद इति व्याख्यातम् ॥ २१ ॥
म० अथ सप्तमः । वातदेवत्या विराट् मनसस्पतिदृष्टा व्याख्यातापि ( अध्या० २ क. २१) उच्यते । 'कै गै शब्दे' गीयते नानाविधैर्वैदिकशब्दैः प्रतिपाद्यत इति गातुर्यज्ञस्तं विदन्ति जानन्तीति गातुविदः तादृशा हे देवाः, गातुं वित्त्वा अस्मदीयो यज्ञः प्रवृत्त इति विदित्वा गातुमित यज्ञं गच्छत । यद्वा गातुं वित्त्वा यज्ञं समाप्तं विदित्वा गातुमित । 'गाङ् गतौ' गायते गम्यते यत्र स गातुर्मार्गस्तं गच्छत यज्ञं समाप्तं मत्वा यज्ञेन तुष्टाः सन्तः स्वकीयं मार्गं गच्छत । एवं देवानुक्त्वा प्रजापतिमाह । हे मनसस्पते, अस्मदीयस्य मनसो यष्टुं प्रेरणेन पालक परमेश्वर हे देव, इममनुष्ठितं यज्ञं स्वाहा त्वद्धस्ते दधामि त्वं च वाते धाः वायुरूपे देवे यज्ञं धेहि स्थापय ॥२१॥

द्वाविंशी।
यज्ञ॑ य॒ज्ञं ग॑च्छ य॒ज्ञपतिं॑ गच्छ॒ स्वां योनिं॑ गच्छ॒ स्वाहा॑ ।
ए॒ष ते॑ य॒ज्ञो य॑ज्ञपते स॒हसू॑क्तवाक॒: सर्व॑वीर॒स्तं जु॑षस्व॒ स्वाहा॑ ।। २२ ।।
उ० यज्ञं विसृजति । यज्ञ यज्ञं गच्छ । हे यज्ञ, यज्ञमेव त्वं गच्छ । नहि त्वत्तोऽन्यदस्ति सर्वात्मा हि त्वमित्यभिप्रायः । यज्ञपतिं यजमानं गच्छ स्वां च योनिं गच्छ। द्रव्यं देवता हि यज्ञस्य स्वा योनिः । एष ते यज्ञः । अयं तव शरीरभूतो यज्ञः संस्कृतः ऋत्विग्भिः । हे यज्ञपते, सह सूक्तवाकः साङ्गः सर्वशरीरः सर्वैरिरुपेतः । सोमः पशुः सवनीयाश्च पुरोडाशा वीरा उच्यन्ते । तं च जुषस्व आसेवस्व ॥ २२ ॥
म० अथाष्टमः । यज्ञदैवतं यजुः । यज्ञं विसृजति । हे यज्ञ, त्वं यज्ञं गच्छ स्वप्रतिष्ठार्थं यज्ञनामकं विष्णुं गच्छ । यज्ञपतिं यजमानं गच्छ । फलप्रदानेन यजमानं प्राप्नुहीत्यर्थः। स्वां योनिं गच्छ । स्वनिष्पत्त्यर्थं स्वां योनिं स्वकारणभूतां वायोः क्रियाशक्तिं गच्छ । द्रव्यं देवता च यज्ञस्य योनिः सर्वात्मा त्वमिति भावः । स्वाहा सुहुतमस्तु । अथ नवमः समिष्टयजुर्मन्त्रः । यज्ञपतिदैवतम् । हे यज्ञपते यजमान, एषोऽनुष्ठीयमानो यज्ञस्ते तव त्वदीयोऽस्ति । कीदृशः सहसूक्तवाकः
सूक्तवाकैः स्तोत्रैः सहितः । तथा सर्ववीरः सर्वे वीरा यस्मिन् स तथा सोमः पशुः । सवनीयचरुपुरोडाशा वीरा उच्यन्ते तैः सहितः य ईदृशस्तं यज्ञं जुषस्व फलभोगेन सेवस्व । स्वाहा सुहुतमस्तु ॥ २२॥

त्रयोविंशी।
माहि॑र्भू॒र्मा पृदा॑कुः । उ॒रुᳪ हि राजा॒ वरु॑णश्च॒कार॒ सूर्या॑य॒ पन्था॒मन्वे॑त॒वा उ॑ ।
अ॒पदे॒ पादा॒ प्रति॑धातवेऽकरु॒ताप॑व॒क्ता हृ॑दया॒विध॑श्चित् ।
नमो॒ वरु॑णाया॒धिष्ठि॑तो॒ वरु॑णस्य॒ पाश॑: ।। २३ ।।
(अभिष्ठितो – पाठभेदः)
उ० कृष्णविषाणमेखले चात्वाले प्रास्यति । माहिर्भूः । व्याख्यातम् । अपोऽवक्रमयन्वाचयति । उरुᳪहि । वारुणी त्रिष्टुप् । एकं तावद् उरुं विस्तीर्णं हि अतिशयेन राजा वरुणः चकार कृतवान् । सूर्याय । षष्ठ्यर्थे चतुर्थी । सूर्यस्य पन्थानम्। अन्वेतवा उ अन्वेतवान् अन्वहमागमनाय । अपरम् । अपदे पादा प्रतिधातवेऽकः । यत्र पदं दत्तं प्रतिमुद्रान्यायेन नोपलक्ष्यते तस्मिन् पदे पथि अन्तरिक्षलोके पादा पादानाम् । षष्ठीबहुवचनस्थाने आकारः । प्रतिधातवे प्रतिनिधाय अकः । कृतवान् आलम्बनमिति शेषः । सूर्यस्यैव । उतापवक्ता