पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षोडशी।
सं वर्च॑सा॒ पय॑सा॒ सं त॒नूभि॒रग॑न्महि॒ मन॑सा॒ सᳪ शि॒वेन॑ ।
त्वष्टा॑ सु॒दत्रो॒ वि द॑धातु॒ रायोऽनु॑मार्ष्टु त॒न्वो यद्विलि॑ष्टम् ।। १६ ।।
उ० संवर्चसा पयसा । व्याख्यातम् ॥ १६ ॥
म० अथ द्वितीयः । त्वाष्ट्री त्रिष्टुप् प्रजापतिदृष्टा व्याख्याता [क० १४ ] ॥ १६ ॥

सप्तदशी।
धा॒ता रा॒तिः स॑वि॒तेदं जु॑षन्तां प्र॒जाप॑तिर्निधि॒पा दे॒वो अ॒ग्निः ।
त्वष्टा॒ विष्णु॑: प्र॒जया॑ सᳪररा॒णा यज॑मानाय॒ द्रवि॑णं दधात॒ स्वाहा॑ ।। १७ ।।
उ० धाता रातिः । षट् देवता अस्यामृचि । धाता सविता प्रजापतिः अग्निः त्वष्टा विष्णुः एते षट् निधिपा देवाः । इदं समिष्टयजुर्लक्षणं रातिर्दानम् जुषन्तां सेवन्ताम् । जुषित्वा च प्रजया रराणाः यजमानसंबन्धिन्या प्रजया संरममाणाः । यजमानाय एतद्द्रविणं । दधातेति प्रथमपुरुषस्य स्थाने मध्यमपुरुषश्छान्दसः। दधतु स्थापयन्तु । एवं तावदस्य मन्त्रस्य सम्यग्योजना प्रतिभाति ॥ १७ ॥
म० अथ तृतीयः । धातृसवितृप्रजापतिदेवाग्नित्वष्टृविष्णुदेवत्या त्रिष्टुप् । धाता सविता प्रजापतिः अग्निः त्वष्टा विष्णुः एते षट् देवा इदमस्मद्धविः समिष्टयजुर्लक्षणं जुषन्तां सेवन्ताम्। किंभूतो धाता। रातिः राति प्रयच्छतीति रातिः दानशीलः । 'क्तिच्क्तौ च संज्ञायाम्' (पा० ३।३। १७४) इति कर्तरि क्तिच्प्रत्ययः चित्त्वादन्तोदात्तः। किंभूतः प्रजापतिः । निधिपाः निधीन्पातीति निधिपाः महापद्मशङ्खपद्मादिनिधीनां नवानां पालयिता । किंभूतोऽग्निः । देवः दीप्यमानः किंच ते एते देवाः प्रजया यजमानसंबन्धिन्या सन्तत्या सह संरराणाः सम्यग्रममाणाः सन्तः यजमानाय द्रविणं धनं दधात दधतु ददतु । व्यत्ययेन प्रथमपुरुषस्थाने मध्यमः पुरुषः 'तप्तनप्तनथनाश्च' (पा० ७ । १ । ४५) इति तबादेशस्तस्य, तेनालोपाभावः । स्वाहा एतेभ्यः सुहुतमस्तु ॥ १७ ॥

अष्टादशी।
सु॒गा वो॑ देवा॒: सद॑ना अकर्म॒ य आ॑ज॒ग्मेदᳪ सव॑नं जुषा॒णाः ।
भर॑माणा॒ वह॑माना ह॒वीᳪष्य॒स्मे ध॑त्त वसवो॒ वसू॑नि॒ स्वाहा॑ ।। १८ ।।
उ० सुगा वः । हे देवाः सुगमनीयानि वो युष्माकं सदनानि स्थानानि अकर्म कृतवन्तो वयं ये यूयमाजग्म आगताः । सवनमिदं जुषाणाः यज्ञमेतं सेवमानाः । अथेदानीं परिसमाप्ते यज्ञे । भरमाणा वहमाना हवींषि । ये तु रथिनः ते रथेषु भरमाणा वहमाना हवींषि । ये तु अरथिनस्ते स्कन्धावसक्तिकासु हवींषि वहमानाः । अस्मे धत्त वसवो वसूनि । अस्मासु दत्त हे वसवो वासयितारः, , वसूनि धनानि ॥ १८॥ ...
म० अथ चतुर्थः । देवदेवत्या त्रिष्टुप् तुर्यः पादो दशार्णः । हे देवाः, ये यूयमिदं सवनं यज्ञं जुषाणाः सेवमानाः सन्तः . आजग्म आगताः । गमेर्लिटि मध्यमबहुवचनम् । तेषां वो युप्माकं सदना सदनानि स्थानानि सुगा सुगानि सुखेन गम्यते येषु तानि सुगानि सुगमनीयानि वयमकर्म अकार्ष्म कृतवन्तः। 'सदुरोरधिकरणे' (पा० ३ । २ । ४८) इति सुउपसर्गे गमेर्डप्रत्यये सुगेति रूपं विभक्तेराकारः । करोतेश्चिललोपे लुङि उत्तमबहुवचने अकर्मेति रूपम् । किंच हे वसवः वासयन्तीति वसवो वासयितारो विवासहेतवो देवाः । अस्मै अस्मासु यूयं वसूनि धनानि धत्त स्थापयत । किंभूता यूयं यज्ञसमाप्तौ हवींषि भरमाणा ये रथिनस्ते तु रथेषु बिभ्रतः रथहीना वहमानाः स्कन्धेषु हवींषि वहन्तः । यद्वा भरमाणाः पुष्णन्तः वहमानाः रथादिभिर्नयन्तः तेभ्यो युष्मभ्यं स्वाहा सुहुतमस्तु ॥ १८ ॥

एकोनविंशी।
याँ२ आऽव॑ह उश॒तो दे॑व दे॒वाँस्तान् प्रेर॑य॒ स्वे अ॑ग्ने स॒धस्थे॑ ।
ज॒क्षि॒वाᳪस॑: पपि॒वाᳪस॑श्च॒ विश्वेऽसुं॑ घ॒र्मᳪ स्व॒राति॑ष्ठ॒तानु॒ स्वाहा॑ ।। १९ ।।
उ० याँ आवहः । हे भगवन्नग्ने, यान् आवहः आहूतवानसि । उशतः कामयमानान् हे देव, देवान् तान् प्रेरय अनुव्रज्यादिभिः । स्वे स्वकीये सधस्थे सहस्थाने गृहे । किमुक्त्वा प्रेरयेतिचेदत आह । ये यूयं जक्षिवांसः पशून् पुरोडाशं च । पपिवांसश्च सोमम् । विश्वे सर्वे ते इदानीं परिसमाप्ते यज्ञे असुं घर्मं स्वरातिष्ठतानु । 'अनुर्लक्षणे' इति कर्मप्रवचनीयसंज्ञा । असुं प्राणवातमन्वातिष्ठत । घर्मं चादित्यमन्वातिष्ठत । स्वर्द्युलोकमन्वातिष्ठत । यस्य यत्र गृहा इत्यभिप्रायः ॥ १९॥
म० अथ पञ्चमो मन्त्रः । आग्नेयी त्रिष्टुप् । इदानीं देवान् विसृजति । हे अग्ने, हे देव दीप्यमान, उशतो हवींषि कामयमानान् यान्देवान् त्वमावहः आहूतवानसि तान् देवान् स्वे स्वकीये सधस्थे सहनिवासस्थाने प्रेरय प्रस्थापय सह तिष्ठन्ति यस्मिन् तत्सधस्थम् 'सधमादस्थयोश्छन्दसि' (पा० ६ । ३ : ९६) इति स्थे परे सहस्य सधादेशः । किमुक्त्वा प्रेरयामीति चेत् अत आह । हे देवाः, विश्वे सर्वे यूयं जक्षिवांसः 'घस्लृ अदने' 'क्वसुश्च' (पा० ३ । २ । १०७) इति क्वसुः । 'वस्वेकाजाद्धसाम्' (पा० ७।२।६७) इतीट् । सवनीयपशुपुरोडाशान् भक्षितवन्तः । तथा पपिवांसः सोमपानं कृतवन्तश्चेदानीं यज्ञसमाप्तौ असुं हिरण्यगर्भप्राणलक्षणं वायुं वायुमण्डलमित्यर्थः । घर्ममादित्यमण्डलं वा स्वः द्युलोकं वा अन्वा