पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भक्षो गाः सनोति गवां दाता तस्य तादृशस्य ते तव तादृशं भक्षमुपहूतोऽनुज्ञातोऽहं भक्षयामि । कीदृशस्य ते । इष्टयजुषः इष्टानि यजूंषि यस्य स इष्टयजुस्तस्य । तथा स्तुतस्तोमस्य उद्गातृभिः स्तुताः स्तोमाः स्तोत्राणि यस्य स स्तुतस्तोमस्तस्य । तथा शस्तोक्थस्य होतृभिः शस्तानि उक्थानि शस्त्राणि यस्य स शस्तोक्थस्तस्य । तथा उपहृतस्याभ्यनुज्ञातस्य तदेतानि भवन्तीत्यर्थः ॥ १२॥

त्रयोदशी।
दे॒वकृ॑त॒स्यैन॑सोऽव॒यज॑नमसि मनु॒ष्य॒कृत॒स्यैन॑सोऽव॒यज॑नमसि पि॒तृकृ॑त॒स्यैन॑सोऽव॒यज॑नमस्या॒त्मकृ॑तस्यैनसोऽव॒यज॑नम॒स्येन॑स एनसोऽव॒यज॑नमसि ।
यच्चा॒हमेनो॑ वि॒द्वाँश्च॒कार॒ यच्चावि॑द्वाँ॒स्तस्य॒ सर्वस्यैन॑सोऽव॒यज॑नमसि ।। १३ ।।
उ० शकलाधानम् । देवकृतस्य देवविषयकृतस्य । एनसः पापस्य अवयजनम् । अवपूर्वो यजिर्नाशने वर्तते । नाशनं भवसि । मनुष्यविषयस्य पापस्य नाशनमसि पितृविषये कृतस्य पापस्य नाशनमसि। आत्मविषये कृतस्य पापस्यात्मनिन्दादेः नाशनमसि । एनसएनसः यावन्ति पापानि तेषां सर्वेषां नाशनमसि । यच्चान्यदप्येनः पापं विद्वान् चकार कृतवान् । यच्चाविद्वान् अजानानः तस्य सर्वस्य नाशनमसि ॥ १३॥
म० 'शाकलाधानं देवकृतस्येति प्रतिमन्त्रमिति' (का० १०। ८ । ६)। षट् षड्यूपशकलानि सर्वेऽग्नौ निदध्युः । षड्यजूंष्यग्निदेवत्यानि । हे शकल, त्वं देवकृतस्य देवविषये विहितस्य एनसो यजनाभावादिलक्षणस्य पापस्य त्वमवयजनमसि नाशकं भवसि । अवपूर्वो यजिर्नाशनार्थः । अवयजतीत्यवयजनम् । मनुष्यकृतस्य मनुष्येषु कृतस्य द्रोहनिन्दादेरेनसोऽवयजनमसि । पितृकृतस्य पितृषु कृतस्यैनसः श्राद्धाकरणादेर्नाशनमसि । आत्मविषये कृतस्य पापस्यात्मनिन्दादेर्नाशनमसि । एनसएनसः यावन्ति पापानि तावतां सर्वेषां नाशनमसि । किंच विद्वान् जानानो ज्ञानपूर्वकं यदेनः पापमहं चकार कृतवान् अविद्वान् अज्ञानपूर्वं च यदहमेनश्चकार तस्य सर्वस्यैनसः ज्ञानाज्ञानपूर्वस्य पापस्य त्वमवयजनं नाशनमसि ॥ १३ ॥

चतुर्दशी ।
सं वर्च॑सा॒ पय॑सा॒ सं त॒नूभि॒रग॑न्महि॒ मन॑सा॒ सᳪ शि॒वेन॑ ।
त्वष्टा॑ सु॒दत्रो॒ वि द॑धातु॒ रायोऽनु॑मार्ष्टु त॒न्वो यद्विलि॑ष्टम् ।। १४ ।।
उ० चमसानभिमृशन्ति।संवर्चसेति व्याख्यातम् ॥१४॥
म०. 'अपरेण चात्वालं यथास्वं चमसान् पूर्णपात्रानवमृशन्ति हरितकुशानवधाय सं वर्चसेति' (का० १० । ८ । ७) | पूर्णपात्रानुदकपूर्णानित्यर्थः । त्वाष्ट्री त्रिष्टुप् (अ० २ क.२४ ) व्याख्यातापि व्याख्यायते । वर्चसा ब्रह्मवर्चसेन वयं समगन्महि सङ्गता भवाम । गच्छतेर्लङि अदादित्वाच्छपो लुकि उत्तमबहुवचने 'मो नो धातोः' (पा. ८।२।६४) | इति मस्य नकारः । पयसा क्षीरादिरसेन समगन्महीत्यनुवर्तते। तनूभिरनुष्ठानक्षमैः शरीरावयवैः समगन्महि । शिवेन समीचीनेन कर्मश्रद्धायुक्तेन मनसा समगन्महि । किंच सुदत्रः शोभनदानः त्वष्टा देवो रायो धनानि विदधातु । तन्वः शरीरस्यास्मदीयस्य यद्विलिष्टं विश्लिष्टम् । 'लिश अल्पीभावे' निष्ठान्तः । | विशेषेण न्यूनमङ्गं तदनुमार्ष्टु न्यूनत्वपरिहारेणानुकूलं कृत्वा शोधयतु ॥ १४ ॥

पञ्चदशी।
समि॑न्द्र णो॒ मन॑सा नेषि॒ गोभि॒: सᳪ सू॒रिभि॑र्मघव॒न्त्सᳪ स्व॒स्त्या ।
सं ब्रह्म॑णा दे॒वकृ॑तं॒ यदस्ति॒ सं दे॒वाना॑ᳪ सुम॒तौ य॒ज्ञिया॑ना॒ᳪ स्वाहा॑ ।। १५ ।।
उ० नव समिष्टयजूंषि जुहोति । समिन्द्रेण इत्याद्याः षट् त्रिष्टुभः । तत्र त्रिभिः परिधीनाप्याययति त्रिभिर्देवता व्यवसृजति । समिन्द्र णः । ऐन्द्री। समित्ययमुपसर्गो नेषीत्यनेन क्रियापदेन संबध्यते । हे भगवन्निन्द्र, संनेषि संगमयसि नः अस्मान् । मनसा संगमयसि च गोभिर्वाग्भिर्वादिभिः पशुभिः | संगमयसि च सूरिभिः पण्डितैः । हे मघवन् , संगमयसि च स्वस्त्या अविनाशेन । स्वस्तीत्यविनाशनाम । संगमयसि च ब्रह्मणा देवकृतं देवैर्दृष्टं त्रयीलक्षणम् । तदेव स्पष्टयति । यदस्ति यन्नित्यमित्यर्थः । संगमयसि च देवानां सुमतौ । | तृतीयया विपरिणामः । शोभनया मत्या । यज्ञियानां यज्ञसंपादिनाम् । यस्त्वमस्मानेवं सर्वैर्मनःप्रभृतिभिः संगमयसि तस्मै त एतद्धविः स्वाहा सुहुतमस्तु इति शेषः ॥१५॥
म० 'समिन्द्र ण इति नव समिष्टयजूᳪषि जुहोति प्रतिमन्त्रमिति' ( का० १० । ८ । ११)। नवभिर्मन्त्रैः समिष्टयजुःसंज्ञा नवाहुतीर्जुहुयात् । तत्राद्यः विश्वदेवदेवता त्रिष्टुप् अत्रिदृष्टा । समित्युपसर्गो नेषीत्यनेन संबध्यते न इत्यस्य णत्वम् । हे मघवन्धनवन् हे इन्द्र, मनसानुग्रहयुक्तेन नोऽस्मान् त्वं संनेषि संनयसि संयोजयसि । गोभिः वाग्भिर्गवादिपशुभिर्वा संनेषि । व्यत्ययेन शपो लुकि लटि मध्यमैकवचने नेषीति रूपम् । सूरिभिः पण्डितैर्होत्रादिभिः संयोजयसि स्वस्त्या क्षेमेण च संनेषि । ब्रह्मणार्थज्ञानसहितेन वेदेन संनेषि । देवकृतं देवार्थं कृतं कर्म यदस्ति यज्ञाख्यं देवैः कृतं दृष्टं वा यत्कर्म तेन संनेषि । तथा यज्ञियानां यज्ञसंबन्धिनां देवानां सुमतौ । सुमत्यानुग्रहबुद्ध्या संयोजयसि । 'सुपां सुपो भवन्ति' (पा. ७।१।३९) इति तृतीयार्थे सप्तमी। यस्त्वमस्मानेवं मनआदिभिः संयोजयसि तस्मै स्वाहा एतद्धविः सुहुतमस्तु ॥ १५ ॥