पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अतस्ते तव संबन्धिनोऽन्यान् ग्रहानुपांशुप्रभृतीनहमृध्यासं समर्धयेयम् । किंभूतस्य ते बृहस्पतिसुतस्य बृहतो महतो यज्ञकर्मणः पतिर्बृहस्पतिर्यजमानस्तेन सुतस्याभिषुतस्य । यद्वा बृहस्पतयो ब्राह्मणा ऋत्विजैस्तैरभिषुतस्य । तथा इन्दोः 'उन्दी क्लेदे' उनत्तीतीन्दुस्तस्य क्लेदनरूपस्य रसरूपस्येत्यर्थः । तथा इन्द्रियावतः इन्द्रियं वीर्यमस्यास्तीतीन्द्रियवान् तस्य । संहितायां दीर्घः । तथा पत्नीवतः पत्नीसंयुक्तस्य । 'प्रचरणीशेषेण श्रीणात्येनमहं परस्तादिति' ( का० १०।६।१७) प्रचरणीशिष्टेनाज्येन पात्नीवतग्रहं मिश्रयेत् । प्रजापतिरूपात्मदेवत्या त्रिष्टुप् । अत्र मन्त्रद्रष्टा स्वस्य सर्वगतपरमात्मरूपत्वमभिप्रेत्य वदति । अहं परमात्मरूपः सन् परस्तात् उपरि द्युलोकादौ तथाहमवस्तात् अधस्तनभूलोकादौ च तिष्ठामीति शेषः । यदन्तरिक्षं मध्यवर्तिलोकरूपमस्ति तदु तदेव मे देहधारिणो मम पिताभूत् पितृवत्पालकं भवति । अहं परमात्मरूपः सन्नुभयतः उपरिष्टादधस्ताच्च स्थित्वा सूर्यं ददर्श पश्यामि । देवानामिन्द्रादीनां यत्परमं गुहा अत्यन्तं गोप्ये हृदयेऽस्ति तदेवाहमस्मि ॥ ९॥
 
दशमी।
अग्ना३इ॒ पत्नी॑वन्त्स॒जूर्दे॒वेन॒ त्वष्ट्रा॒ सोमं॑ पिब॒ स्वाहा॑ ।
प्र॒जाप॑ति॒र्वृषा॑ऽसि रेतो॒धा रेतो॒ मयि॑ धेहि प्र॒जाप॑तेस्ते॒ वृष्णो॑ रेतो॒धसो॑ रेतो॒धाम॑शीय ।। १० ।।
उ० जुहोति । अग्ना३इ पत्नीवन् । 'एचो प्रगृह्यस्यादूराद्धूते' इति प्लुतः । हे अग्ने पत्नीसंयुक्त । सजूर्देवेन त्वष्ट्रा । समप्रीतिर्देवेन त्वष्ट्रा सोमं पिब स्वाहा पत्नी उद्गातारमवेक्षते। प्रजापतिः । त्वं प्रजापतिः वृषा च । रेतोधाः रेतसः सेक्ता धारयितासि स्वभावत एव त्वां ब्रवीमि । रेतो मयि धेहि स्थापय । प्रजापतेश्च तव वृष्णः सेक्तुः रेतोधसः रेतोधारयितुः स्वभूतं रेतोधां रेतसो धारयितारम् पुंस्पुत्रम् अशीय प्राप्नुयाम् ॥ १०॥
म० 'अग्ना ३ इ पत्नीवन्नित्युत्तरार्धे जुहोतीति पात्नीवतं ग्रहमग्नेरुत्तरभागे जुहोति' (का० १०। ६ । १६)। अग्निदैवत्यम् । ‘एचोऽप्रगृह्यस्य' (पा० ८ । २ । १०७ ) इत्यादिना अग्ने शब्दगतस्य एकारस्य आइ इत्यादेशौ आकारस्य प्लुतत्वम् । हे अग्ने, हे पत्नीवन् पत्नीयुक्त, त्वष्ट्रा देवेन सजूः समानप्रीतिः सन् सोमं पिब स्वाहा सुहुतमस्तु । 'पत्नीᳪ सदः प्रवेश्यापरेणोत्तरत उपविष्टामुद्गात्रा समीक्षयति प्रजापतिर्वृषासीति' ( का० १० । ७ । ३) नेष्टा पश्चिमद्वारेण पत्नीं सदः प्रवेश्योद्गातुरुत्तरतः स्थितामुद्गातारं पश्येति प्रेषयेत् सा च तं पश्येत् । हे उद्गातः, प्रजापतिः प्रजानां पालकस्त्वं वृषासि सेक्ता भवसि । रेतोधा रेतसो वीर्यस्य धारयिता चासि। एवंभूतस्त्वं रेतो वीर्यं मयि धेहि स्थापय । ततो वृष्णो वीर्यस्यसेक्तः रेतोधसो वीर्यस्य धारयितुः प्रजापतेस्ते तवानुग्रहात्, रेतोधां रेतसो धारयितारं प्रजोत्पादनसमर्थ पुत्रमशीय प्राप्नुयाम् । अश्नोतेर्व्यत्ययेनादादित्वं लिङ्युत्तमैकवचने ॥ १० ॥

एकादशी।
उ॒प॒या॒मगृ॑हीतोऽसि॒ हरि॑रसि हारियोज॒नो हरि॑भ्यां त्वा । हर्यो॑र्धा॒नाः स्थ॑ स॒हसो॑मा॒ इन्द्रा॑य ।। ११ ।।
उ० हारियोजनं गृह्णाति । उपयामगृहीतोऽसि हरिरसि हरितवर्णोऽसि । हरिः सोमो हरितवर्ण इति । हारियोजनः। इन्द्राश्वौ हरितावत्र युज्यते इति हरियोजनः। हरियोजन एव हारियोजनः । स्वार्थे तद्धितः 'ऋक्सामे वै हरी' इति श्रुत्यपेक्षः । हरिभ्यां त्वा । गृह्णामीति शेषः । धाना आवपति । | हर्योर्धानास्थ हरितवर्णयोरिन्द्राश्वयोर्धाना भवथ यूयम् । | सोमेन च सहिता इन्द्राय भवथ प्राणभक्षः ॥ ११ ॥
म० 'द्रोणकलशे हारियोजनग्रहणमुपयामगृहीतोऽसि हरिरसीति' (का० १० । ८ । १) । आग्रयणादिति शेषः । ऋक्सामदेवत्यम् । हे ग्रह, त्वं हरिर्हरितवर्णोऽसि 'हरी रश्मिर्हरिः सोमो हरिर्हरितवर्णवान्' इत्यभिधानात् । उपयामेन गृहीतश्चासि। | किंभूतस्त्वम् । हारियोजनः हरी इन्द्राश्वौ योजयतीति हरियोजन इन्द्रस्तस्यायं हारियोजन इन्द्रसंबन्धी तं त्वा त्वां हरिभ्यामृक्साममन्त्राभ्यां गृह्णामीति शेषः । 'ऋक्सामे वै हरिः ऋक्सामाभ्याᳪ ह्येनं गृह्णाति' (४ । ४ । ३ । ६) इति श्रुतेः 'धानाश्चावपति हर्योर्धाना इति' (का० १०। ८ । २)। हारियोजने भ्रष्टयवान्निदध्यात् । धानादेवत्यम् । सहसोमाः । सोमेन सहिता धाना भ्रष्टयवाः, यूयमिन्द्राय इन्द्रस्य हर्योः हरितवर्णयोरश्वयोः स्थ भवथ इन्द्राश्वसंबन्धिनो यूयमित्यर्थः ॥ ११॥

द्वादशी।
यस्ते॑ अश्व॒सनि॑र्भ॒क्षो यो गो॒सनि॒स्तस्य॑ त इ॒ष्टय॑जुषः स्तु॒तसो॑मस्य श॒स्तोक्थ॒स्योप॑हूत॒स्योप॑हूतो भक्षयामि ।। १२ ।।
उ० यस्ते अश्वसनिः । यस्तवाश्वं सनोति संभजते भक्षः । यश्च गाः सनोति तस्य तव संबन्धिनः । इष्टयजुषः इष्टानि हि यजूंषि भवन्ति । स्तुतस्तोमस्य । अस्मिन्नेवावसरे स्तुताः म्तोमा भवन्ति । शस्तोक्थस्य । शस्तानि ह्युक्थानि भवन्ति । उपहूतस्य अभ्यनुज्ञातस्य उपहृतोऽभ्यनुज्ञातो भक्षयामि ॥ १२॥
म० 'यस्ते अश्वसनिरिति प्राणभक्षं भक्षयित्वोत्तरवेदौ निवपन्तीति' (का० १० । ८ ।'५)। सर्वर्त्विजो धाना आदाय मन्त्रेणावघ्रायोत्तरवेदौ क्षिपन्ति । भक्षद्रव्यदैवत्यम् । हे धानासहित सोम भक्षद्रव्य, यस्ते तव भक्षो भक्षणमश्वसनिः । 'षणु दाने' अश्वान्सनोतीत्यश्वसनिः अश्वानां दाता । यश्च ते