पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

यितर्देव, अद्यास्मिन्दिने अस्मभ्यमस्मदर्थे वामं वननीयं कर्मफलं सावीः प्रेरय देहीत्यर्थः । 'षू प्रेरणे' लुङ् अडभावश्छान्दसः । वाममु श्वः । उ अप्यर्थे । श्वोऽपि समनन्तरदिनेsपि वामं सावीः । दिवेदिवे तत ऊर्ध्वं दिनेदिनेऽस्मभ्यं वामं सावीः । हि यस्मात् अया अनया । नलोपश्छान्दसः । धिया श्रद्धायुक्तया बुद्ध्या वयं वामभाजः स्याम भवेम । वामं वननीयं यज्ञकर्म भजन्ति वामभाजः यज्ञानुष्ठातारो भवेम । किमर्थम् । वामस्य संभजनीयस्य भूरेः विस्तीर्णस्य बहुकालीनस्य क्षयस्य स्वर्गनिवासस्य सिद्धय इति शेषः । 'क्षयो निवासे' इत्याद्युदात्तत्वात् क्षयशब्दो निवासार्थः । दिवेदिवे इत्यह्नो नामसु पठितम् । यद्वोत्तरार्धस्यायमर्थः । हे देव, वामस्य वननीयस्य भूरेः धनपूर्णस्य क्षयस्य निवासस्य दाता भवेति शेषः । धीरिति कर्मनाम । अनया धिया सोमाख्येन कर्मणा वयं वामभाजोऽभिलषितभागिनो भवेम ॥ ६॥

सप्तमी।
उ॒प॒या॒मगृ॑हीतोऽसि सावि॒त्रो॒ऽसि चनो॒धाश्च॑नो॒धा अ॑सि॒ चनो॒ मयि॑ धेहि ।
जिन्व॑ य॒ज्ञं जिन्व॑ य॒ज्ञप॑तिं॒ भगा॑य दे॒वाय॑ त्वा सवि॒त्रे ।। ७ ।।
उ० उपयामगृहीतोऽसि सावित्रोऽसि । सवितृदेवत्योऽसि चनोधाश्चनोधा असि । चन इत्यन्ननाम । 'अभ्यासे भूयांसमर्थं मन्यन्ते' । अतिशयेन चान्नस्य धारयितासि । अतः चनोऽन्नं मयि धेहि स्थापय । किंच जिन्व यज्ञम् । जिन्वतिः प्रीतिकर्मा । तर्पय यज्ञं तर्पय च यज्ञपतिं यजमानम् भगाय यज्ञफलाय । देवाय सवित्रे त्वा गृह्णामीति शेषः ॥ ७ ॥
म०. सावित्रम् । हे सोम, त्वमुपयामेन ग्रहेण गृहीतोऽसि । हे ग्रह, त्वं सावित्रः सवितृदेवत्योऽसि । चन इत्यन्ननाम । चनोऽन्नं धत्त इति चनोधाः अन्नस्य धारयिता । 'अभ्यासे भूयांसमर्थं मन्यन्ते' (निरु० १० । ४२) इति यास्कोक्तेः । यतस्त्वमत्यन्तं चनोधा असि अतश्चनोऽन्नं मयि धेहि स्थापय । किंच यज्ञं जिन्व प्रीणय । जिन्वतिः प्रीतिकर्मा । यज्ञपतिं यजमानं च जिन्व तर्पय । भगाय ऐश्वर्यादिगुणयुक्ताय सवित्रे सर्वप्राणिनां प्रसवादिकर्त्रे देवाय त्वां गृह्णामीति शेषः । भगमस्यास्तीति भगः । अर्शआदित्वादच । 'ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा' इति ॥ ७ ॥

अष्टमी।
उ॒प॒या॒मगृ॑हीतोऽसि सु॒शर्मा॑ऽसि सुप्रतिष्ठा॒नो बृ॒हदु॑क्षाय॒ नम॑: ।
विश्वे॑भ्यस्त्वा दे॒वेभ्य॑ ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्य॑: ।। ८ ।।
उ० वैश्वदेवं गृह्णाति । उपयामगृहीतोऽसीति व्याख्यातम् । सुशर्मासि स्वाश्रयोऽसि । सुप्रतिष्ठानः शोभनं प्रतिष्ठानं प्रतिष्ठा अस्येति सुप्रतिष्ठानः महत्साधनसंपन्नः । 'प्राणो वै सुशर्मा सुप्रतिष्ठानः' इति श्रुतिः। प्राणहेतुत्वात्प्राण इत्युच्यते । अन्नं वै ग्रहोऽन्नं वै प्राणहेतुः । यस्मात्त्वं सुशर्मासि सुप्रतिष्ठानश्च तस्मात् बृहदुक्षाय नमः महासेचनाय जगदुत्पत्तिबीजाय प्रजापतये नमो भवितुमर्हतीति शेषः । नम इत्यन्ननामसु पठितम् । 'प्रजापतिर्वै बृहदुक्षः' इति श्रुतिः । विश्वेभ्यस्त्वा देवेभ्य इति व्याख्यातम् ॥ ८॥
म० 'अभक्षितेन महावैश्वदेवग्रहणमुपयामगृहीतोऽसि सुशर्मासीति' ( का० १० । ६ । २) अभक्षितेनैव सावित्रग्रहपात्रेण पूतभृतः सकाशान्महावैश्वदेवग्रहस्य ग्रहणं करोत्यध्वर्युः। वैश्वदेवम् । हे वैश्वदेव ग्रह, त्वमुपयामेन गृहीतोऽसि । यतः सुशर्मासि शोभनं शर्म सुखमाश्रयो वा यस्य स सुशर्मा । तथा सुप्रतिष्ठानः सुष्ठु प्रतिष्ठानं पात्रे स्थितिर्यस्य तादृशोऽसि । विशेषणद्वयेन प्राणरूपोऽसीत्यर्थः । 'प्राणो वै सुशर्मा सुप्रतिष्ठानः' (४ । ४ । १ । १४) इति श्रुतेः ग्रहस्यान्नरूपवादन्नस्य च प्राणहेतुत्वाद् ग्रहस्य प्राणत्वम् । यस्मादीदृशोऽसि तस्माद् बृहदुक्षाय बृहन्महांश्चासौ उक्षा सेक्ता च बृहदुक्षः तस्मै महते सेक्त्रे जगदुत्पादयित्रे प्रजापतये नमोऽन्नं भवितुमर्हसीति शेषः । नम इत्यन्ननाम । 'प्रजापतिर्वै बृहदुक्षः ' (४।४। १ । १४) इति श्रुतेः बृहदुक्षशब्देन प्रजापतिः । विश्वेभ्यो देवेभ्योऽर्थाय त्वां गृह्णामि । सादयति एष ते व्याख्यातम् ॥ ८ ॥

नवमी।
उ॒प॒या॒मगृ॑हीतोऽसि॒ बृह॒स्पति॑सुतस्य देव सोम त॒ इन्दो॑रिन्द्रि॒याव॑त॒: पत्नी॑वतो॒ ग्रहाँ॑२ ऋध्यासम् ।
अ॒हं प॒रस्ता॑द॒हम॒वस्ता॒द्यद॒न्तरि॑क्षं॒ तदु॑ मे पि॒ताऽभू॑त् ।
अ॒हᳪ सूर्य॑मुभ॒यतो॑ ददर्शा॒हं दे॒वानां॑ पर॒मं गुहा॒ यत् ।। ९ ।।
उ० पात्नीवतं गृह्णाति उपयामगृहीतोसीति । बृहस्पतिसुतस्य ब्रह्मणाभ्यनुज्ञातस्य । हे देवसोम, ते तव इन्दोः इन्द्रियावतः वीर्यवतः पत्नीवतः पत्नीसंयुक्तस्य सतो ग्रहानन्यानुपांशुप्रभृतीन् ऋद्यासं समर्धयेयम् । प्रचरणीसंस्रवशेषेण श्रीणाति । अहं परस्ताम् । त्रिष्टुप् । प्रजापतिरूपेणात्मानं पश्यन् श्रीणाति । अहं परस्तादस्य जगतः अहं चाधस्तात् । यच्चैतदन्तरिक्षं तदु मे तदेव मे पिता पाताभूत् । अहं च सूर्यमुभयतो ददर्श । परस्तादधस्ताच्च पश्यामि । सूर्यस्य परस्तान्मम शिर इत्यभिप्रायः । यच्च देवानां परमं गुहा तदप्यहमेव ॥९॥
म० 'उपयामगृहीतोऽसि बृहस्पतिसुतस्येति प्रतिप्रस्थाता पात्नीवतं गृह्णातीति' (का० १० । ६ । १६) उपांश्वन्तर्यामपात्रयोरेकतरेण प्रतिप्रस्थाता पात्नीवतं ग्रहं गृह्णाति सोमदेवत्यम्। हे देव दीप्यमान हे सोम, त्वमुपयामेन पात्रेण गृहीतोऽसि

.