पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

किंच वो युष्माकं या सुमतिः शोभनबुद्धिर्भक्तानुग्रहपरा सा अर्वाची अस्मदभिमुखी आववृत्यात् आवर्तताम् । 'बहुलं छन्दसि' (पा० २ । ४ । ७६ ) इति वर्ततेर्लिङि जुहोत्यादित्वाच्छपः श्लोर्द्वित्वं च । किंच अंहोश्चित् अंहुः पापकारी । चित् अप्यर्थे । अंहोर्हननशीलस्य पापिनोऽपि या सुमतिर्वरिवोवित्तरा वरिवो धनं विन्दति लभत इति वरिवोवित् अत्यन्तं वरिवोवित् वरिवोवित्तमः पापिनो या सुमतिर्धनलब्ध्री असत् भवेत् सा सुमतिरस्मदभिमुखी आववृत्यादिति संबन्धः। हे सोम, आदित्येभ्यो देवेभ्यस्त्वां दध्ना मिश्रयामीति शेषः ॥ ४ ॥

पञ्चमी।
विव॑स्वन्नादित्यै॒ष ते॑ सोमपी॒थस्तस्मि॑न् मत्स्व ।
श्रद॑स्मै नरो॒ वच॑से दधातन॒ यदा॑शी॒र्दा दम्प॑ती वा॒मम॑श्नु॒तः ।
पुमा॑न् पु॒त्रो जा॑यते वि॒न्दते॒ वस्वधा॑ वि॒श्वाहा॑र॒प ए॑धते गृ॒हे ।। ५ ।।
उ० उपांशुसवनेन ग्रहं विमिश्रयति । विवस्वन्नादित्य । तमांसि विवासयतीति विवस्वान् आदित्य उच्यते । हे विवस्वन् आदित्य, एष ते सोमपीथः एतत्तव सोमपानम् तस्मिन्मत्स्व । 'मद तृप्तौ' तृप्तिं कुरु , क्षिप्तमाशिरं सोमे अवेक्षते पत्नी । श्रदस्मै नरः। जगती आशीर्यजमानपत्नीविषया । श्रदिति सत्यनामसु पठितम् । श्रद्दधातन श्रद्दधानान्कुरुत 'नेत्यनर्थका उपजना भवन्ति' इति नकारोऽनर्थकः । श्रद्धां कुरुत अस्मै वर्चसे हे नरः ऋत्विग्यजमानाः। यत् किमित्यत आह । आशीर्दा आशिषो दातारः। दम्पती पत्नीयजमानौ । वामं वननीयम् । अश्नुतः व्याप्नुतः यज्ञफलम् । किंच इहैव पुमान् पुत्रो जायते । दुहितापि पुत्रशब्देनोच्यत इत्यतः पुमानिति विशेष्यते । किंच विन्दते वसु लभते धनम् । अधा अथेत्येतौ छन्दसि समानार्थौ । विश्वाहा सर्वदा । अरपः । रिपो रिप्रमिति पापनामनी भवतः' । अपापः सन् एधते वर्धते गृह एवावस्थितः ॥ ५॥
म० 'उपाᳪशुसवनेन मिश्रयति विवस्वन्नादित्येति' ( का० १०। ४ । ७) पाषाणेन दधि सोमं च मिश्रयेत् । आदित्यदैवत्यम् । तमांसि विवासयति नाशयतीति विवस्वान् । यद्वा विशिष्टं वसु धनमस्येति विवस्वान् । मतौ टिलोपश्छान्दसः। तत्संबोधनं हे विवस्वन् हे आदित्य, एष पात्रस्थस्ते तव सोमपीथः पातुं योग्यः पीथः पीथश्चासौ सोमश्च सोमपीथः पातव्यः सोमः। आहिताग्न्यादित्वात्पीथशब्दस्य परत्वम् तस्मिन्पातव्ये सोमे त्वं मत्स्व 'मद तृप्तौ तृप्तिं कुरु । 'बहुलं छन्दसि' (पा० २ । ४।७३) इत्यदादित्वाच्छपो लुक् । 'श्रदस्मै नर इत्येनमवेक्षते पत्नीति' (का० १० । ५। ४) पत्न्येनं पूतभृतं पश्येत् । आशीर्दैवत्या जगती नरदेवत्या वा द्वादशाक्षरचतुःपादा जगती । पत्नी वदति । हे नरो नेतारः ऋलिग्यजमानाः, आशीर्दा आशिषो ददति ते आशीर्दाः । सुब्लोपश्छान्दसः । आशिषः दातारो यूयमस्मै वचसे आशीर्वचनाय श्रद्दधातन । श्रदिति सत्यनामसु पठितम् । 'तप्तनप्तनथनाश्च' (पा० ७ । १ । ४५) इति मध्यमबहुवचनस्य तनादेशः । श्रद्धां कुरुत । आस्तिक्यबुद्धिं कुरुतेत्यर्थः । मदुक्तमाशीर्वचनं भवद्भिः श्रद्धया धारितं तथैव स्यादिति भावः । किं तदाशीर्वचनमत आह । यत् दम्पती जायापती पत्नीयजमानौ वामं वननीयं संभजनीयं यज्ञफलमश्नुतः प्राप्नुतः। किंच। इहैव पुमान्पुंस्त्वधर्मसंपन्नः पुत्रः जायते। किंच स च पुत्रो वसु धनं विन्दते लभते । अध अथेत्यर्थः । 'निपातस्य च' (पा० ६ । ३ । १३६ ) इति संहितायां दीर्घः । अथानन्तरं विश्वाहा विश्वानि च तान्यहानि च विश्वाहा । 'कालाध्वनोरत्यन्तसंयोगे' (पा० २ । ३ । ५) इति द्वितीया। 'राजाहःसखिभ्यष्टच्' (पा० ५ । ४ । ९१) इति प्राप्तस्य टच्प्रत्ययस्य वैकल्पिकत्वाच्छान्दसो वाभावः । अनन्तरं धने लब्धे सति विश्वाहा सर्वदा अरपः पापरहितः सन् गृहे स्वसदने एधते वर्धते । नास्ति रपो यस्यासावरपः। 'रपो रिप्रमिति पापनामनी भवतः' (निरु० ४ । २१) इति यास्कः । आशीर्दा आशिषो दातारौ इति दम्पतीविशेषणं वा । विभक्तेराकारः । दम्पती यज्ञफलं प्राप्नुताम् तयोः पुत्रो जायताम् स च धनं लब्ध्वा निष्पापः स्वगृहे वर्धतामिति आशीर्वचने श्रद्धां कुरुतेति सर्वार्थः ॥ ५॥

षष्ठी।
वा॒मम॒द्य स॑वितर्वा॒ममु॒ श्वो दि॒वे दि॑वे वा॒मम॒स्मभ्य॑ᳪ सावीः ।
वा॒मस्य॒ हि क्षय॑स्य देव॒ भूरे॑र॒या धि॒या वा॑म॒भाज॑: स्याम ।। ६ ।।
उ० सावित्रं गृह्णाति । वाममद्य । सावित्री त्रिष्टुप् । हे सवितः, वामं वननीयम् अद्य अस्मिन् अद्य सावीरिति संबन्धः । वाममु श्वः । वामं च उपाशंसनीये काले सावीः 'श्व उपांशुशंसनीयः कालः' इति हि यास्क आह । किंवा बहुनोक्तेन दिवेदिवे वाममस्मभ्यं सावीः । अहन्यहनि वाममस्माकं प्रसूयाः । किंच वामस्य हि क्षयस्य देवभूरेः । क्षयशब्दो निवासवचन आद्युदात्तत्वात् । 'क्षयो निवासे' इति हि पाणिनिराद्युदात्तत्वं स्मरति । वामस्य च निवासस्य हे देव दानादिगुणयुक्त, भूरेर्बहुनो धनपूर्णस्य दाता भवेति शेषः। अनया धिया । धीरिति कर्मनाम । अनेन च सोमाख्येन कर्मणा वामभाजः अभिलषितभाजिनो वयं संभवेम ॥ ६॥
म० 'भक्षयित्वेडामुपाᳪश्वन्तर्यामपात्रयोरन्यतरेण सावित्रग्रहणं वाममद्येति' ( का० १० । ५। १३ ) । सवनीयपुरोडाशेडां भक्षयित्वा सवनीयसंबन्धि कर्म समाप्य उपांश्वन्तर्यामयोरन्यतरेण सावित्रं गृह्णाति । कण्डिकाद्वयात्मको मन्त्रः । सवितृदेवत्या त्रिष्टुब् भरद्वाजदृष्टा । हे सवितः, सर्वस्य प्रेर