पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० आदित्यग्रहं गृह्णाति । कदाचन । व्याख्यातोऽयं मन्त्रः । यदि नाम अधस्तादैन्द्रः । इयांस्तु विशेषः । इह त्वादित्यदेवतो यजुरन्तः । आदित्येभ्यस्त्वेति यजुः ॥ २ ॥
म० 'आदित्यग्रहं गृह्णाति सᳪस्रवेभ्यः कदाचनेति' । (का० १० । ४ । ४ ) होमशेषाः संस्रवास्तेभ्यः सकाशात् । आदित्यदेवत्ये बृहत्यौ यजुरन्ते । आदित्येभ्यस्त्वेति यजुः । तृतीयो द्वादशार्णस्त्रयोऽन्येऽष्टार्णाः । सा बृहती तृतीयेऽध्याये बृहदुपस्थानमध्ये (क० ३४ ) इन्द्रदेवत्या प्रथममुक्ता व्याख्याता च । इह त्वादित्यदेवत्या यजुरन्ता चेति विशेषः । हे इन्द्र, त्वं कदाचन कदाचिदपि स्तरीर्हिंसको नासि किंतु दाशुषे । षष्ठ्यर्थे चतुर्थी । हविर्दत्तवतो यजमानस्य हविः सश्चसि सेवसे । कुत्र । उप इत् नु यजमानस्यात्यन्तसमीप एव हे मघवन् धनवन्निन्द्र, भूय इत् नु पुनरेव च देवस्य ते तव दानं दीयत इति दानम् तव देयं हविः पृच्यते त्वया संबध्यते । यजमानेन दत्तं हविस्त्वयाङ्गीक्रियत इत्यर्थः । हे ग्रह, आदित्येभ्योऽर्थाय त्वां गृह्णामीति शेषः । अत्रेन्द्रनामभिरप्यादित्य एव स्तूयते ॥ २॥

तृतीया।
क॒दा च॒न प्र यु॑च्छस्यु॒भे नि पा॑सि॒ जन्म॑नी ।
तुरी॑यादित्य॒ सव॑नं त इन्द्रि॒यमात॑स्थाव॒मृतं॑ दि॒व्या॒दि॒त्येभ्य॑स्त्वा ।। ३ ।।
उ० द्वितीयं गृह्णाति । कदाचन । बृहत्यादित्यदेवत्या यजुरन्ता । आदित्येभ्यस्त्वेति यजुः । कदाशब्दः कालवचनः। चनेति निपातः पुनरर्थे । प्रयुच्छतिः प्रमादार्थः । हे भगवन्नादित्य, कस्मिन्नहनि पुनः प्रमाद्यसि उदयतापपाकप्रकाशा- दीननुग्रहान्प्राणिषु कुर्वन् । न कदाचिदित्यभिप्रायः । एवं काकुगतेन विशेषणेन व्याख्येयम् । अथवा कदाचनेति व्यतिकीर्णमेतत्पदद्वयं व्याख्येयम् । यन्न कदाचिदपीत्यनेनार्थेनार्थवत्त्वम् । चकारगर्भं सवितुर्निधानम् । अस्य भाष्यं चकारैनां गर्भनिधानमिति यथा यास्केन दर्शितम् । न कदाचित्प्रमाद्यसि स्वकीयं कर्म कुर्वन् उभे च नितरां पासि गोपायसि देवमनुष्यसंबन्धिनी जन्मनी । तुरीयेत्यविभक्तिको निर्देशः। तुरीयं च आदित्यसवनम् । तव इन्द्रियं च वीर्यं च तवैव आतस्थौ उपस्थितम् अमृतम् अनश्वरं विज्ञानानन्दस्वभावम् दिवि द्युलोके आदित्यमण्डलान्तःस्थम् । तदुक्तम् 'पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि' इति । एवं परापररूपेणास्यामृच्यादित्यस्तुतिः । आदित्येभ्यस्त्वा गृह्णामीति शेषः ॥ ३ ॥
म० 'अपगृह्य पुनः कदाचनेति' ( का० १० । ४ । ५)। धारातो विच्छिद्य पूतभृतः सकाशादात्मसमीपं नीत्वा तथैव पुनरादित्यग्रहं गृह्णीयात् । कदाशब्दः कालवाची । चनेति निपातः पुनरर्थे । हे आदित्य, त्वं कदाचन प्रयुच्छसि कस्मिन् काले पुनः प्रमाद्यसि । 'युच्छ प्रमादे' न प्रमाद्यसीति काकुः । उदयतापपाकप्रकाशैः प्राणिनोऽनुगृह्णन्न कदाचिदालस्यं करोषीति भावः । यद्वा कदा च नेति पदत्रयम् । चकारोऽप्यर्थे । कदापि न प्रयुच्छसि स्वकर्मणि । किंच उभे जन्मनी देवमनुष्यसंबन्धिनी निपासि नितरां पालयसि । किंच तुरीय, ‘सुपां सुलुक्' (पा० ७ । १ । ३९)। इति विभक्तिलोपः । ते तव तुरीयं चतुर्थं मायातीतं शुद्धं सवनं सुवति स्वकार्ये जगत्प्रेरयतीति सवनम् । नन्द्यादित्वाल्ल्युप्रत्ययः । जगत्प्रवर्तकं अमृतमनश्वरं विज्ञानानन्दस्वभावं यदिन्द्रियं वीर्यं तद्दिवि द्युलोके मण्डलान्तरे आतस्थौ आभिमुख्येन स्थितम् । तदुक्तं 'पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि' । एवमादित्यः परापररूपेणास्यामृचि स्तुतः । यद्वास्या ऋचोऽर्थान्तरम् । प्रशब्दो निषेधे । चनशब्दोऽप्यर्थे । हे आदित्य, त्वं कदाच कदापि न प्रयुच्छसि न प्रमाद्यसि किंतु उभे वर्तमानभाविनी जन्मनी निपासि रक्षसि। | तृतीयमित्यर्थे व्यत्ययेन तुरीयशब्दः प्रयुक्तः । हे आदित्य, ते तव यत् तृतीयं सवनं तस्मिन् दिवि द्युलोकसमाने सवने इन्द्रियमिन्द्रियवृद्धिकरणममृतं सुधासमं हविः आतस्थौ समन्तात्स्थितम् । हे आदित्यग्रह, आदित्येभ्योऽर्थाय त्वां गृह्णामीति शेषः ॥ ३ ॥

चतुर्थी ।
य॒ज्ञो दे॒वानां॒ प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृड॒यन्त॑: ।
आ वो॒ऽर्वाची॑ सुम॒तिर्व॑वृत्याद॒ᳪहोश्चि॒द्या व॑रिवो॒वित्त॒रास॑दादि॒त्येभ्य॑स्त्वा ।। ४ ।।
उ० दध्ना श्रीणाति । यज्ञो देवानाम् त्रिष्टुप् यजुरन्ता आदित्यदेवत्या । आदित्येभ्यस्त्वेति यजुः । यस्माद्यज्ञो देवतानामादित्यानां सुम्नं सुखं कर्तुं प्रत्येति तस्माद्धेतोः हे आदित्यासः आदित्या एव आदित्यासः । आज्जसेरसुक् । भवता मृडयन्तः । 'मृड सुखने' तृचोर्थे शतृप्रत्ययोऽत्र छान्दसः । मृडयितारः सुखयितारो भवतास्माकम् । आवोऽर्वाची सुमतिर्ववृत्यात् । आवृता भवतु वः युष्मत्संबन्धिनी सुमतिः अर्वाची च अस्मदभिमुखा च । अᳪहोश्चिद्या वरिवोवित्तरा सत् । अंहुः पापकारी । चिच्छब्दोऽप्यर्थे । अंहोः पापकारिणोपि या सुमतिः । वरिवोवित्तरा । वरिव इति धननाम । अतिशयेन धनस्य लब्ध्री असत् भवतु । सा सुमतिः अस्मदभिमुखी आववृत्यादिति संबन्धः ॥ ४ ॥
म० 'दध्ना श्रीणात्येनं पश्चिमेऽन्ते मध्ये वा यज्ञो देवानामिति' (का० १० । ४६) । एनमादित्यग्रहं दध्ना मिश्रीकुर्यात् । आदित्यदेवत्या यजुरन्ता त्रिष्टुप् कुत्सदृष्टा । आदित्येभ्यस्त्वेति यजुः । यज्ञो देवानामादित्यानां सुम्नं सुखं कर्तुं प्रत्येति प्रत्यागच्छति । अतो हे आदित्यासः आदित्याः, यूयं मृडयन्तः सुखयन्तः सुखकर्तारोऽस्माकं भवत । 'अन्येषामपि दृश्यते' (पा० ६ । ३ । १३७) इति संहितायां दीर्घः ।