पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गृह्णाति बृहस्पतये बृहस्पतिरूपापन्नाय मह्यं त्वां वरुणो ददातु । सोऽहमनेन विधानेन गृह्णानोऽमृतत्वं व्याप्नुयाम् । त्वग्दात्र एधि भव । मयः सुखं भव मह्यं प्रतिग्रहीत्रे । अश्वं प्रतिगृह्णाति । यमाय त्वा यमरूपापन्नाय मह्यं त्वां वरुणो ददातु । सोऽहं यमरूपापन्नोऽमृतत्वं व्याप्नुयाम् । हयोऽश्वः दात्रे भव । वयोऽन्नं पशुर्वा भव मम त्वं प्रतिग्रहीत्रे ४७

म०. 'अग्नये त्वेति हिरण्यं प्रतिगृह्णीत इति' ( का० १० । २ । २८) अध्वर्युप्रतिप्रस्थाताराविति शेषः । हिरण्यदैवत्यम् ।। हे हिरण्य, वरुणोऽग्नयेऽग्निरूपापन्नाय मह्यं त्वा त्वां ददातु पूर्वं वरुणेन कनकाद्यग्न्यादिभ्यो दत्तमतस्तेन तेनात्मना प्रतिगृह्णानो विप्रो न नश्यतीति देवतादेशः। अनेन विधिना गृह्णानः सोऽहममृतत्वमारोग्यमशीय व्याप्नुयाम् । हे हिरण्य, त्वं दात्रे आयुर्जीवनमेधि भव । प्रतिग्रहीत्रे प्रतिग्रहकर्त्रे मह्यं मयः सुखमेधि दाता आयुष्मान्भवतु । अहं सुखी स्यामिति भावः । 'रुद्राय त्वेति गामिति' (का० १० । २ । २९)। गां प्रतिगृह्णीतः । गोदैवत्यम् । हे गौः, रुद्ररूपाय मह्यं वरुणः त्वा ददातु सोऽहममृतत्वं प्राप्नुयाम् । हे गौः, त्वं दात्रे यजमानाय प्राणः प्राणरूपा एधि । मह्यं प्रतिग्रहीत्रे वयोऽन्नं पशुर्वा भव । दुग्धदध्यादिरूपेणान्नं संततिद्वारा पशुश्च भवेत्यर्थः । 'बृहस्पतये त्वेति वास इति' (का० १० । २।३०) । वस्त्रं गृह्णीतः । वासोदैवत्यम् । हे वासः, बृहस्पतिरूपाय मह्यं वरुणः त्वां ददातु सोऽहममृतत्वमशीय त्वं च दात्रे त्वगेधि त्वगिन्द्रियसुखकारी भव । प्रतिग्रहीत्रे मह्यं मयः सुखं च भव । 'यमाय त्वेत्यश्वमिति' (का० १० । २ । ३१) हयं गृह्णीतः । अश्वदैवत्यम् । हे अश्व, यमरूपाय मह्यं वरुणः त्वां ददातु । स यमरूपोऽहमश्वं गृह्णानोऽमृतत्वं व्याप्नुयाम् । हे अश्व, त्वं दात्रे हयोऽश्वो भव मह्यं प्रतिग्रहीत्रे वयोऽन्नं तद्दाता पशुर्वा संततिद्वारा भव ॥४७॥

अष्टचत्वारिंशी।
को॑ऽदा॒त्कस्मा॑ अदा॒त्कामो॑ऽदा॒त्कामा॑यादात् कामो॑ दा॒ता काम॑: प्रतिग्रही॒ता कामै॒तत्ते॑ ।। ४८ ।।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां सप्तमोऽध्यायः॥७॥
उ० अथ यदन्यद्ददाति तदनेन प्रतिगृह्णाति । कोऽदात् कः पुरुषः अदात् दत्तवान् एकः प्रश्नः। कस्मै पुरुषाय अदात् दत्तवान् द्वितीयः प्रश्नः । कामोऽदात् कामायादात् द्वौ प्रतिप्रश्नौ यथासंख्यम् । एवं चेत्काम एव दाता कामः प्रतिग्रहीता च । अतो ब्रवीमि हे काम, एतद्द्रव्यं ते तव । त्वमेव केनचित्प्रयोजनेन ददासि त्वमेव च केनचित्प्रयोजनेन प्रतिगृह्णासीति ४८
इति उवटकृतौ मन्त्रभाष्ये सप्तमोऽध्यायः ॥ ७ ॥
म० 'कोऽदादित्यन्यदिति' (का० १० । २ । ३२ )। अन्यन्मन्थौदनतिलादि गृह्णीतः । कामदैवत्यम् । दातुर्दानाभिमानाभावाय स्वस्य प्रतिग्रहजदोषाभावाय च देहेन्द्रियात्मसङ्घाते कामं विविनक्ति । को नरोऽदाद्दत्तवान् कस्मै नरायादात् । प्रश्नद्वयस्योत्तरमाह । कामोऽदात्कामायैवादात् न त्वं दाताहं प्रतिग्रहीता । त्वत्कामाभिमानी देवो मत्कामाभिमानिनेऽदात् । एवं च काम एव दाता काम एव प्रतिग्रहीता नान्यः । हे काम, एतद्द्रव्यं ते तव । दातृप्रतिग्रहीतृत्वात् ॥ ४८ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे । उपांश्वादिप्रदानान्तः सप्तमोऽध्याय ईरितः ॥ ७ ॥

अष्टमोऽध्यायः।
तत्र प्रथमा ।
उ॒प॒या॒मगृ॑हीतोऽस्यादि॒त्येभ्य॑स्त्वा । विष्ण॑ उरुगायै॒ष ते॒ सोम॒स्तᳪ र॑क्षस्व॒ मा त्वा॑ दभन् ।। १ ।।
उ०आदित्यग्रहसंस्रवोत्यर्थं प्रतिप्रस्थातादित्यपात्रे द्रोणकलशादुपयामगृहीतोऽसीति गृहीत्वा द्विदेवत्याननुजुहोति । | तत्रैते मन्त्राः । उपयाम गृहीतोऽस्यादित्येभ्यस्त्वा गृह्णामीति शेषः । आदित्यस्थालीं पात्रेणापिदधाति विष्णो उरुगाय । हे विष्णो, उरुगमनाय एष ते तव सोमः समर्पितः । तं रक्ष गोपाय । गोपायनप्रवृत्तं च त्वां मा दभ्नुयुः हिंस्युः रक्षांसि । दभ्नोतिर्हिंसाकर्मा ॥ १ ॥ |
म० सप्तमेऽध्याये उपांशुग्रहादिसवनद्वयगता मन्त्रा दक्षिणादानान्ता उक्ताः । अष्टमे तृतीयसवनगता आदित्यग्रहादिमन्त्रा उच्यन्ते । तत्र 'प्रतिप्रस्थातादित्यपात्रेण द्रोणकलशादुपयामगृहीतोऽसीति गृहीत्वा द्विदेवत्याननु जुहोत्युत्तरार्ध इति' (का० ९ । ९ । १५)। द्विदेवत्यैः सह होमाय प्रतिप्रस्थातादित्यग्रह पात्रेण द्रोणकलशात्सोमं गृह्णाति । सोमदैवत्यम् । हे सोम, उपयामेन पात्रेण त्वं गृहीतोऽसि मया । ‘शेषᳪ शेषमादित्यस्थाल्यामासिञ्चत्यादित्येभ्यस्त्वेति' (का० ९ । ९ । २०) । द्विदेवत्याननु हुत्वा हुतशेषमादित्यस्थाल्यां क्षिपेत् । सोमदैवत्यम् । हे सोम, आदित्येभ्योऽर्थाय त्वा त्वां सिञ्चामीति शेषः । | 'समासिच्य तेनापिदधाति विष्ण उरुगायेति' (का. ९ । ९ । २१) । संस्रवमासिच्य तेनादित्यपात्रेण स्थालीं पिदधाति । विष्णुदैवतम् । हे विष्णो यज्ञपुरुष, हे उरुगाय, उरुभिर्बहुभिर्गीयते स्तूयत इत्युरुगायस्तत्संबोधनम् । एष सोमस्ते तवार्पितः तं सोमं रक्षस्व गोपाय । आत्मनेपदमार्षम् । हे सोम, रक्षणे प्रवृत्तं त्वा त्वां मा दभन् मा दभ्नुयुः मा हन्युः । रक्षांसीति शेषः । दभ्नोतिर्हिंसाकर्मा ॥ १ ॥

द्वितीया।
क॒दाच॒न स्त॒रीर॑सि॒ नेन्द्र॑ सश्चसि दा॒शुषे॑ ।
उपो॒पेन्नु म॑घव॒न् भूय॒ इन्नु ते॒ दानं॑ दे॒वस्य॑ पृच्यत आदि॒त्येभ्य॑स्त्वा ।। २ ।।