पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०।२।१०) दक्षिणा गाः अभिमन्त्रयते । नष्टरूपानुष्टुप् दक्षिणदेवत्या । 'नववैराजत्रयोदशैर्नष्टरूपे'ति लक्षणात् । अत्र द्वितीय एकादशार्णस्तृतीयो द्वादशार्णस्तेन पूर्णैव । पूर्वं पशवः स्वदानमसहमाना रूपान्तराणि जगृहुः देवाः स्वै रूपैस्तानुपागतास्ततस्ते स्वै रूपैराजग्मुः (४ । ३ । ४ । १४) इति मन्त्रस्य निदानम् । हे दक्षिणारूपा गाः, रूपेण मूर्त्या वो युष्माकं रूपमहमभ्यागामभ्यागतोऽस्मि। अतो भवतीभिरागन्तव्यं सर्वे हि स्वरूपमागच्छन्तीति भावः । किंच तुथो ब्रह्मरूपः प्रजापतिर्वो युष्मान् विभजतु यथायोग्यमृत्विग्भ्यो विभज्य ददातु । 'ब्रह्म वै तुथः' (४।३ । ४ । १५) इति श्रुतेः । किंभूतस्तुथः । विश्ववेदाः वेदनं वेदो ज्ञानं । विश्वं सर्वं वेदो यस्य स विश्ववेदाः सर्वज्ञः । किंच यूयमेतज्ज्ञात्वा ऋतस्य यज्ञस्य पथा मार्गेण प्रेत प्रगच्छत । किंभूता यूयम् । चन्द्रदक्षिणाः चन्द्रमिति हिरण्यनाम । चन्द्रं सुवर्णं यजमानहस्तस्थं द्वितीयं दक्षिणा यासां ताश्चन्द्रद्वितीयदक्षिणा इति प्राप्ते शाकपार्थिवादित्वात् (पा० २।१ । ६९) द्वितीयपदलोपः । 'सदो गच्छति वि स्वरिति' (का. १०।२। १७ ) दक्षिणादैवत्यम् । हे दक्षिणाः, अहं स्वः स्वर्गं देवयानमार्गं विपश्य विपश्यामि विलोकयामि । अन्तरिक्षं पितृयानमार्गं च विपश्यामि । भवतीभिः सोपानभूताभिरिति भावः । 'व्यत्ययो बहुलम्' (पा०६।१।८५) इति उत्तमपुरुषस्थाने पश्येति मध्यमः पुरुषः । श्रुत्या तथा व्याख्यातत्वात् । प्रेक्षते । 'यतस्व सदस्यानिति सदस्यान्' (का. १० । २ । १८) यजमान ऋत्विजः प्रेक्षते । दक्षिणादैवतम् । हे दक्षिणे, त्वं यतस्व यत्नं कुरु । यथा सदस्यैः ऋत्विग्भिः पूरितैरप्यतिरिच्यस इति शेषः । तथा त्वया यतितव्यं यथा ऋखिजो धनैः संपूर्याधिका भवेयुरिति भावः ॥ ४५ ॥

षट्चत्वारिंशी।
ब्रा॒ह्म॒णम॒द्य वि॑देयं पितृ॒मन्तं॑ पैतृम॒त्यमृषि॑मार्षे॒यᳪ सु॒धातु॑दक्षिणम् ।
अ॒स्मद्रा॑ता देव॒त्रा ग॑च्छत प्रदा॒तार॒मा वि॑शत ।। ४६ ।।
उ०. आग्नीध्रं गच्छति । ब्राह्मणमद्य । ब्राह्मणम् अद्य अस्मिन् विदेयं लभेयम् । अनुशिष्टेन अतिविशिष्टेन पित्रा जातम् । नहि कश्चिद्विना पित्रा जायते । पैतृमत्यम् । यस्य पितामहप्रभृतयोऽपि वश्याः श्रोत्रियाः स एवमुच्यते । ऋषिमार्षेयम् ऋषिर्मन्त्राणां व्याख्याता । अर्षेयो जात्या प्रवरैश्च जातः । सुधातुदक्षिणम् शोभनो धातुः सुवर्णं दक्षिणा यस्य स सुधातुदक्षिणः तम् । सुवर्णं हि आग्नीध्रे दीयते । दक्षिणां ददाति । अस्मद्राताः । ‘रा दाने' । हे दक्षिणाः, अस्माभिः राताः दत्ताः सत्यो देवत्रा गच्छत । देवान्प्रति गच्छत । ततोऽनन्तरं यज्ञफलं साधयन्त्यः प्रदातारमाविशत प्रकर्षेण दातारम् आविशत यजमानम् ॥ ४६ ॥
म० 'ब्राह्मणमद्येत्याग्नीध्रगमनमिति' ( का० १० । २ । १९)। आनीध्रमृत्विजं स्वस्थानस्थं प्रति यजमानो गच्छति । ब्राह्मणदैवत्यम् । अहमद्यास्मिन्दिने ईदृशं ब्राह्मणं विदेयं लभेय 'विद्लृ लाभे' । किंभूतम् । पितृमन्तं प्रशस्तः पितास्यास्तीति | पितृमान् तम् । पित्रा विना न कश्चिज्जायतेऽतोऽत्र प्राशस्त्यार्थे मतुप् । विशिष्टजनकोत्पन्नमित्यर्थः । तथा पैतृमत्यम् पितुरिमे पैतरः। तद्धितप्रत्ययलोपेऽपि छान्दसी वृद्धिः । मत एव मत्याः। | स्वार्थे यत् । पैतरः पितामहादयो मताः संमता जगन्मान्या | यस्य स पैतृमत्यस्तम् । यद्वा पितरः पूर्वजाः मताः संमताः श्रोत्रिया यस्य स पितृमतः पितृमत एव पैतृमत्यः । यद्वा प्रशस्तजनकोत्पन्नः पितृमानित्युक्तं तदपत्यं पैतृमत्यः । सर्वथा यस्य पितामहादयः श्रोत्रियाः स पैतृमत्य इत्यर्थः । तथा ऋषिं मन्त्राणां व्याख्यातारम् । तथा आर्षेयम् ऋषिषु विख्यात आर्षेयस्तम् । जात्या प्रवरैर्ज्ञानेन सुज्ञातमित्यर्थः । तथा सुधातुदक्षिणम् शोभनो धातुः सुवर्णं दक्षिणा यस्य स सुधातुस्तम् । 'उपविश्य हिरण्यमस्मै ददात्यस्मद्राताः' (का० १० । २ । २०)इति अस्मै आग्नीध्राय दक्षिणादैवत्यं । हे दक्षिणाः, यूयमस्मद्राताः । 'रा दाने' अस्माभिः राता दत्ताः सत्यो देवत्रा देवान्प्रति गच्छत । तानेत्य तेषां तृप्तिं कृत्वा ततः दातारं प्राविशत यज्ञफलं साधयन्त्यो यजमानं प्राविशतेत्यर्थः ॥ ४६ ॥

सप्तचत्वारिंशी।
अ॒ग्नये॑ त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सो॒ऽमृत॒त्त्वम॑शी॒यायु॑र्दा॒त्र ए॑धि॒ मयो॒ मह्यं॑ प्रतिग्रही॒त्रे रु॒द्राय॑ त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सो॒ऽमृत॒त्त्वम॑शीय प्रा॒णो दा॒त्र ए॑धि॒ वयो॒ मह्यं॑ प्रतिग्रही॒त्रे बृह॒स्पत॑ये त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सो॒ऽमृत॒त्त्वम॑शीय॒ त्वग्दा॒त्र ए॑धि॒ मयो॒ मह्यं॑ प्रतिग्रही॒त्रे य॒माय॑ त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सो॒ऽमृत॒त्त्वम॑शीय॒ हयो॑ दा॒त्र ए॑धि॒ वयो॒ मह्यं॑ प्रतिग्रही॒त्रे ।। ४७ ।।
उ० इतउत्तरं पञ्च प्रतिग्रहमन्त्राः । हिरण्यं प्रतिगृह्णाति । अग्नये त्वा मह्यं वरुणो ददातु । अग्निरूपापन्नाय मह्यं हे हिरण्य, त्वां वरुणो ददातु । वरुणेन हि हिरण्यमग्नये दत्तं पूर्वमतस्तेनैवात्मना गृह्णानो न रिष्यामीति देवतादेशः । सोऽमृतत्वमशीय सोऽहमनेन विधानेन गृह्णानोऽमृतत्वं व्याप्नुयाम् । आयुर्दात्रे एधि आयुष्मान्दाता भवतु । मयो मह्यं प्रतिग्रहीत्रे मयः सुखम् एधि भव मह्यं प्रतिग्रहीत्रे। गां प्रतिगृह्णाति । रुद्राय त्वा । रुद्रभूताय मह्यं हे गौः, त्वां वरुणो ददातु । सोऽहमनेन विधानेन गृह्णानोऽमृतत्वं व्याप्नुयाम् । प्राणो दात्रे एधि । प्राणरूपा दात्रे भव । वयो मह्यं प्रतिग्रहीत्रे वयोऽन्नं पशुर्वा भव मह्यं प्रतिग्रहीत्रे । वासो