पृष्ठम्:शब्दापशब्दविवेकः.pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३० शब्दापशब्दबिवेके


६. अभ्युदीयादयं देशः स्वे महिम्नि च जागृयादिति नित्यमाशास्महे। ७. केचिद्रक्ता अनुसरन्ति श्रियम्, श्रिया च केचिद्विरक्ता अनुसर्यन्ते । ८. राजान्नं तेजो जरयतीति नेदं प्रत्यगृह्णन् द्विजाः । ९. किं मुधा विभ्रमयसि मुग्धान् स्वानुगान् । १०. नहीदानीं वेत्थ । कालेन कियतापि वेत्स्यसि सारमस्य । ११. यज्ञदत्तः षोडशवर्षां गुण्यामात्मसदशीं१ कन्यामुपायत२ । १२. अतिश्रमः खलु जारयति तेज इन्द्रियाणाम् । १३. ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन्सर्वाणि भूतानि यन्त्रारूढानि मायया (गीता १९।६१) । १४ स तीर्थाटनव्यपदेशेन वृथा भुवमानट । १५. गां बध्नीहि रज्ज्वा शिबके, नो चेद्व्रजान्निष्क्रामेत् स्वैरं च विच- रेत् । १६. को नाम सृक्ष्यति विचित्रमिदं जगदन्यत्र विधेः । ६. एतेर्लिङीत्यार्धधातुके लिडि उपसर्गात्परस्य इणोऽणो ह्रस्वेऽभ्यु दियात् इत्येव साधु । जाग्रोऽविचिण्णल्ङित्सु (७।२।८५) इत्यार्ध- धातुके लिङि यासुटि गुणे जागर्यात् इत्येव साधु । ७. रिङ् शयग्लिङ्क्षु इति सरतेर्ऋकारस्य रिङादेशेऽनुस्रियन्त इत्येव साधु । ८. जनीजृष् क्रसुरञ्जोऽमन्ताश्चेति मित्त्वे ह्रस्वे जरयतीति साधु । ६. अमन्तत्वान्मित्त्वे ह्रस्वे विभ्रमयसीति साधु । १०. विद् ज्ञाने सेट् । तेन वेदिष्यसीत्येव साधु । ११. विभाषोपयमने इति विभाषा सिचः कित्त्वादनुनासिकलोपे उपा- यतेति साधु । पक्षे उपायंस्तेति भवति । १२. जनीजृष्-इत्यत्र दिवाग्रहणात् क्रयादेर्निरनुबन्धकस्य जृ क्यो- हानावित्यस्य ग्रहणं नेति मित्त्वाभावाद्ध्रस्वाभावे जारयतीति साधु । १३. अमन्तत्वान्मित्त्वे ह्रस्वत्वे भ्रमयन्नित्येवेति पाणिनीयाः । १४. तस्मान्नुड्द्विहल इत्यस्याप्राप्तेर् आटेत्येव साधु । १५. हलः श्नः शानज्झाविति शानजादेशे हेर्लुकि च बधानेत्येव साधु । १६. सृजि दृशोर्झल्यमकितीति अमागमे स्रक्ष्यतीत्येव साधु । १. गुणवतीम् । २. ऊढवान् पर्थणयत् ।