रूपाधिकारः १२९
२१३. हाहाकारं सुराः सर्वे विचक्रुर्गमने स्थिता: (ब्रह्मवै० ४।११।३३) ।
२१४. स संयुनक्ति भूतानि स एव वियुनक्ति च (भा०पु० १।१३।४०) ।
२१५. विनानुमानेन पराभिसन्धिमसंविदानस्य तु नास्तिकस्य
(स्याद्वाद० ३०) ।
२१३. वेः शब्दकर्मणः (१।३।३४) इत्यत्रात्मनेपदेन भवितव्यम् ।
२१४. वियुनक्तीत्यपशब्दः । प्रोपाभ्यां युजेरयज्ञपात्रेषु (२।३।३४)
इत्यात्मनेपदेन भवितव्यम् । वियुङ्क्त इति प्रयोक्तव्यम् ।
२१५. संविदेरकर्मकादेवात्मनेपदं विहितम् । इह तु स सकर्मकः,
संविदेः शत्रा भवितव्यम् । असंविदत इति च वक्तव्यम् ।
इत्युपग्रहविवेचनम्
रूपाधिकारस्तृतीयः
१. यत्त्वं प्रास्तौषीस्तन्नाहमनुमोदे१ ।
२. श्वोऽहं भ्रात्रे पत्त्रं लिखितास्मि ।
३. वामनजयादित्यौ काशिकां वृत्तिं सम्भूयारीरचेतामित्यनुश्रूयते ।
४. सम्प्रति प्रासादेषु निवस्यते पङ्कजसुरभिषु दीधिकासु च स्नायते ।
५. वसुरातस्य सखाऽस्य यज्ञे न संनिदधे ततः सोऽनुमिमाय
कुपितोऽसौ मह्यमिति ।
१. स्तुसुधूञ्भ्यः परस्मैपदेष्विति सिचि परस्मैपदे परतो नित्यमि-
डागमः । तस्मिन् सति इट ईटीति सिचो लोपे प्रास्तावीद् इत्येव
साधु ।
२. लिख विलेखने इति कुटादिरिति भ्रमः । तेन लुटि डाप्रत्यये
तासि गुणे लेखितास्मीत्येव साधु ।
३. रच प्रतियत्ने चुरादिष्वदन्तः । तेनाग्लोपित्वात्सन्वद्भावो
नेत्यररचेतामित्येव लुङि चङि रूपम् ।
४. वसेर्यजादित्वाचिस्वपियजादीनामिति यकि सम्प्रसारणे न्युष्यत
इति रूपं साधु ।
५. अनुमिमायेति च्युतसंस्कृतिकम् । माङ् माने जुहोत्यादिः ।
तस्य लिटि अनुममे इति रूपम् । मिनोतेस्तु मीनातिमिनोति-
दीङां ल्यपि चेत्यात्वेऽनुममावित्येव ।
१. अभिनन्दामि, समर्थय इति यावत् ।
1