पृष्ठम्:शब्दापशब्दविवेकः.pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२८ शब्दापशब्दविवेके


२०२. भुजौ दीर्घौ विकुर्वाणम् (रा० ३।७४।१८) । २०३. इत्युक्त्वा मैथिलीं भर्तुरङ्के निविशती भयात् (रघु० १२,३८) । २०४. मातुं न क्षमते ततः प्रवहते (करुणा० ४०) । २०५. मनो ज्ञाने निर्विशते (करुणा० ४५) । २०६. मनो मुररिपोर्दिव्यं रसं प्राप्नुते (करुणा० ५५) । २०७. प्रायौक्षीत् सोपि नैजं चित्त विलासे (मो० १।३१) २०८. विनश्यतां तेन जनुर्मदीयम् (मोहः ७।३२) । २०९. गर्हन्ति देहं गृहे (मोह० ८।२३) । २१०. मतिमतां मतिर्भ्रश्यते (मोह० ८।१३) । २११. समाप्तिमधिगंस्यते किमथ कामनानां शती (मोह० ७/१२) । २१२. एतेषामपि पञ्चानां पृथक् संशृणु लक्षणम् (स्कन्द० मा० कौ० (२) ५५।२१)। २०२. विकुर्वाणम् इत्यत्र कृञो ञित्त्वात्कर्तृगामिनि फले आत्मनेपदम् । विकुर्वाणं वितन्वानम् इत्यर्थः। २०३. नेर्विश इत्यात्मनेपदेन भवितव्यम् । स्खलनधर्माणो मनुष्या इति महाकविरपि स्खलति । २०४. प्रबहत इति दुष्टम् । प्राद्वह इति नित्यं परस्मैपदेन भवितव्यम् । २०५. निर्विशत इत्यसाधु । विश प्रवेशने परस्मैपदी । निरत्रोपसर्गो न निः । तेन नेर्विश इत्यनेनात्मनेपदं न । २०६. प्राप्नुते इति किमपि तुदति शाब्दिकमशाब्दिकं च समम् । प्राप्नोतीत्येव प्रयोज्यं वाग्भ्रशश्च परिहार्यः । २०७. प्रायौक्षीत् इत्यत्र प्रोपाभ्यां युजेरयज्ञपात्रेष्विति शासनं लङ्घितम् शासनमलङ्घमानेन प्रायुक्तेति लुङि प्रयोक्तव्यम् । २०८. विनश्यतामिति तु गहितं स्खलितम् । आत्मनेपदं केन। अन्तर्गत शास्त्रमिति मन्ये। २०९. गर्ह गल्ह कुत्सायामिति भ्वादिष्वात्मनेपदी । तेन गर्हन्त इत्येव साधु २१०. भ्रश्यत इत्यसाधु । दिवादिष्वयं धातुः परस्मैपदी । २११. अधिगंस्यते इति कर्तरि गमेरात्मनेपदं केन । अधिगमिष्यतीत्येव साधु । २१२. अतिश्रुविदिभ्यश्चेत्यकर्मकादेव सम्पूर्वस्य शृणोतेरात्मनेपदं विहितम् । प्रकृते तु संशृणोति: सकर्मकः, तेन यथास्थितं पर- स्मैपदं साधु ।