रूपाधिकारः १३१
१७. प्रज्वालय प्रदीपम्, उपस्थितः प्रदोषः ।
१८. प्रतीहि१ वा न वा । अहमस्य क्षोदिष्यामि जानू, भञ्जिष्यामि चोरू ।
१९. विप्राः शापेन शत्रूनपरेधू२ राजन्याश्च चापेन ।
२०. यो हि मन्द: परुषाक्षरैस्सन्तक्षणोति सुहृदः स विस्मरति न वाक्-
क्षतं संरोहतीति ।
२१. वनमक्षिकाः खलु गर्हितं दंशन्ति, मक्षिकान्तराणि तु न तथा
तुदन्ति ।
२२. केचित्पुरातत्त्वरत्नानि महता यत्नेनान्वसन्दधुरनुसन्दधति चापरे
साम्प्रतम् ।
२३. प्रचुरा अत्राशुद्धयो मातृकायाम्३ । तथाऽपि यथामति यत्नेना-
परिष्करवम् । तस्य सदसत्त्वे सुधिय: प्रमाणम् ।
२४. यो हि शादयति४ गा इति वक्तव्ये शातयति गा इति ब्रूयाद्
बाढं५ दुष्येत्६ स मन्दधीः ।
१७. ज्वलह्वलेत्यादिना घटादित्वान्नित्या मित्संज्ञाऽनुपसर्गस्य ज्वले-
र्विकल्पिता, न तु सोपसर्गस्येति प्रज्वलयेत्येव साधु ।
१८. क्षुदिर् सम्पेषणे भजो आमर्दने इति रौधादिकौ धातू अनिटौ ।
तेन लृटि क्षोत्स्यामि, भङ्क्ष्यामीति च साधुनी रूपे ।
१९. राधो हिंसायाम् (६।४।१२३) इत्यनेन एत्वाभ्यासलोपयो: 'अप-
रेधुः' इति साधु । अपोपसर्गश्च हिंसाद्योतकः प्रयुज्यते ।
२०. तनूकरणे तक्ष इति तनूकरणेर्थे शपः श्नुर्विहितः । प्रकृते तु
भर्त्सनमर्थ इति तस्याप्रसङ्गः । तेन सन्तक्षतीत्येव साधु ।
२१. दंशसञ्जस्वञ्जां शपीति दशेरनुनासिकलोपे दशन्तीत्येव युक्तम् ।
२२. लावस्थायामेवाडाटावित्यभ्युपगमादुपसर्गयोगात् पूर्वमेवाटि ‘अनु-
समदधुः' इति लङि रूपम् ।
२३. अत्रापि पूर्वमटि तत उपसर्गयोगे सुट् कात्पूर्व इति नियमात्
ककारात्पूर्वं सुटि सिवादीनां वाड्व्यवायेपिति वैकल्पिके मूर्धन्या-
देशे पर्यष्करवम्, पर्यस्करवमिति लङ्युत्तमे रूपे ।
२४. शदेरगतौ त इति गतिव्यतिरिक्ते निसूदने पातने वार्थे तोऽन्तादेशो
विधीयते । असमञ्जसं ब्रुवन् दोषेण लिप्यत इति किमाश्चर्यम् ।
१. विश्वसिहि । २. हिंसितवन्तः । राधो हिंसायामित्येत्वाभ्यासलोपौ ।
३. ग्रन्थादर्शे। ४. कालयति प्रचोदयति इत्यर्थं विवक्षति । ५. ध्रुषम् ।
६. दोषवान् भवेत् ।