१३२ शब्दापशब्दविवेके
२५. यदि दुर्जनसंसर्गान्नोद्वेजिष्यसे नियतमात्मानं पातयिष्यसे ।
२६. वत्स ! त्रातारं मामुपस्थितोऽसि । अवेहि मां भुवः परिवृढम्१ ।
मा स्म शुचः।
२७. एतावतीभिरद्भिर्न शोधिष्यन्ति नो वस्त्राणि ।
२८. केकयान्प्रति दूतानप्रैषयनराजमन्त्रिणो भरत आनीयतामिति ।
२९. यदि त्वं तस्मिन्प्रेष्यसे सोऽपि त्वयि प्रीति करिष्यति ।
३०. यदि खलैः संजिगमिष्यसे२ तदा नरकाय रात्स्यसि ।
३१. न हि क्रोध: क्रोधेन शाम्यति यथा विषेण विषमिति सत्यमेवावोचि
तापसेन ।
३२. परिवर्ती लोकः । ये पूर्वत्र समृद्धिमर्च्छस्ते सम्प्रति व्यृद्धाः ।
३३. हनुमताधिष्ठिता वानरा अनेकानि काननानि पर्यटन् न च
सीतामासीदन् ।
२५. विज इट इतीडादिप्रत्ययस्य ङिद्वद्भावाद् गुणाभावे उद्विजिष्यसे
इत्येव साधु ।
२६. सेर्ह्यपिच्चेति हेरपित्त्वे गुणाभावे आद् गुण इति गुणैकादेशेऽवेहि
इति साधु ।
२७. शुध शौचे दिवादिरनिट् । तेन शीत्स्यन्तीत्येव साधु ।
२८. प्रैषयन्निति तु युक्तम् । उपसर्गयोगात्पूर्वमाडागमे प्राटश्चेति
वृद्धौ पुनरुपसर्गयोगे वृद्धिरेचीति वृद्धौ प्रपूर्वाद् दिवादेरिषेर्ण्यन्ता-
ल्लङि रूपमिष्टम् ।
२९. प्रीङ्प्रीतौ दिवादिरनिट् । तस्मात् प्रेष्यस इति लुटि साधु ।
३०. गम्यच्छिभ्यामिति सम्पूर्वाद् गमेरात्मनेपदम् । गमेरिट्परस्मैपदे-
ष्विति परस्मैपदे सकारादेरार्धधातुकस्य इड् विहितः । तेनात्मने-
पदे सन इण्नेति संजिगंसिष्यसे इत्येव साधु । सन्नन्तस्य तु स्ये
भवत्येवेट् । धातोरनेकाच्त्वात् ।
३१. वच उम् इत्यङि भवति न तु चिणि । तेनावाचीत्येव साधु ।
३२. ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु तुदादिषु पठ्यते । तस्येदं लडि
झौ रूपम् । आटश्चेति वृद्धिः । आर्छन्निति साधु ।
३३. आडजादीनामित्याटि वृद्ध्येकादेशे यणि पर्याटन्नित्येव साधु१. ईश्वरम् । स्वामिनम्।
२. प्रीङ् प्रीतौ इत्यस्माल्लृटि रूपम् । प्रीङ् अकर्मकः ।