रूपाधिकारः १३३
३४. केचन ग्रामवृद्धा: कथं कथमप्या शतात् संख्यान्ति ।
३५. शाखिनोऽस्य शाखां चालयति शाखामृगः ।
३६. कुणिं१ वा खञ्जं वा खलतिं२ वा दृष्ट्वा मोपहासीः ।
३७. यदि साधुषु साधु वर्त्स्यसि३ तहि वर्त्स्यसि४ ।
३८. शर्करिल एष पन्थाः । स्खालयति नः पदे पदे ।
३९. न कितववचसि विश्वसेत् । कितव५ इति पर्यायः शठस्य ।
४०. किमेवं धृष्णोषि ? धर्षयसि गुरूनिति किं शोभते ते ?
४१. प्रवासादागतश्चैत्रः पणिगृहीतीं कण्ठे बलवत्समाश्लिषत् ।
४२. न हि ज्योतिरन्तरेणातिशीयते विवस्वान् ।
४३. तेन सम्यगभ्यूह्यतेऽध्येतुं ग्लायति ममानुज इति ।
४४. अन्वतापि पापेन कर्मणा पापकृदित्यनुशासनायाभूल्लोकस्य ।
३४. सम्पूर्वस्य ख्यातेः तिङि प्रयोगो नेति न्यासकारः । तेन संचक्षत
इत्येव प्रयोक्तव्यम् ।
३५. 'कम्पने चलिः' इति गणसूत्रेण मित्त्वे ह्रस्वत्वे चलयतीत्येव
साधु ।
३६. ह्यन्तक्षणश्वसेत्यादिना वृद्धिनिषेधे हसेर्लुङि माङ्युपपदे 'मोप-
हसीः' इत्येव रूपम् ।
३७. प्रथमं वयसीति रूपं वृतु वर्तन इत्यस्य लुटि । द्वितीयं वृधु वृद्धा-
वित्यस्य लुटि । 'वृद्भ्यः स्यसनोः' इति वा परस्मैपदम् । न
वृद्भ्यश्चतुर्य इति तङानयोरभाव इण्निषेधः । तेनोभयं साधु ।
३९. स्खल सञ्चलने इति घटादिः । तेन स्खलयतीत्येव साधु ।
३९. श्वस प्राणनेऽदादिः । तेन शपो लुकि विश्वस्यात् इत्येव साधु ।
४०. धृष्णोषीति निधृषा प्रागल्भ्ये इत्यस्य स्वादेर्लटि रूपम् । धर्षय-
सीति च धृष प्रसहने इत्यस्य चुरादेः ।
४१. शिलष आलिङ्गन इति क्से समश्लिक्षत् इत्येव साधु ।
४२. अयङ्यि क्डिति (७।४।२२) इति शीङोऽयङि अन्तादेशेऽति-
शय्यते इति कर्मणि यकि रूपं साधु ।
४३. 'उपसर्गाद्ध्रस्व ऊहतेः' इति यकि कित्प्रत्यये ह्रस्वेऽभ्युह्यते इत्येव
साधु ।
४४. तपोऽनुतापे चेति चिण्निषेधः । तेन सिचि अन्वतप्तेत्येव साधु ।१. कुकरम् । २. खल्वाटम् । ३. वर्तिष्यसे । ४. वर्धिष्यसे । ५. दुरोदरः,
द्यूतकरः ।