१३४ शब्दापशब्दविवेके
४५. समारन्त ममाभीष्टाः संकल्पास्त्वय्युपागते (भट्टेः) ।
४६. विद्याशालं गच्छन्नहं गृहात्त्वामाह्वयिष्यामि ।
४७. सुव्रतेयं१ गौः स्वयमेव दुग्घे ।
४८. सर्वस्वर्णमयी लङ्का न मे लक्ष्मण रोचते । पितृक्रमागताऽयो-
ध्या निर्धनाऽपि सुखायते (रा०) ॥
४९. एवं प्रोत्साहितास्ते कमपि निगूढं स्वं महिमानं प्राचीकटन् ।
५०. अहो बत नक्तंदिवं श्राम्यन्नपि देवदत्तः परीष्टिं नापीपरत्२ ।
५१. एतावता कतकचूर्णेनात्यर्थं मलीमसान्यपि परिधेयानि नेनेजानि ।
५२. आवेशनेषु कर्मकरा वेतनवृद्धिं तदीश्वरानप्रार्थयन्त ।
५३. ये राष्ट्रियमिदं विधानं व्यतिक्रमिष्यन्ति ते बन्धिष्यन्ते ।
४५. सर्तिशास्त्यर्तिभ्यश्चेत्यङ् आत्मनेपदेऽपि भवति, पृथग्योगकरणा-
दिति वृत्तिः । अयं चाङ् इयर्तेरेव न त्वर्तेः । समो गम्यृच्छिभ्या-
मित्यात्मनेपदविधौ तुभयोर्ग्रहणमिति समारन्तेति साधु ।
४६. आदेच उपदेशेऽशितीत्यात्वे आह्वास्यामीत्येव साधु । ञित्त्वेऽपि
फलस्याकर्त्रभिप्रायत्वविवक्षायां परस्मैपदम् ।
४७. न दुहस्नुनमां यक्चिणाविति यगभावे दुग्धे इति कर्मकर्तरि लटि
साधु ।
४८. सुखयतीत्येव साधु । भृशादिषु सुखदुःखादयो द्रष्टव्या इति चेत्,
सिध्यति रूपमर्थस्तु नोपपत्तिमश्नुते। क्यङि सति असुखिनी
सुखिनी भवतीत्येवार्थः । स च प्रकृते न संगच्छते ।
४९. प्रकटशब्दात् तत्करोति तदाचष्टे इति णिचि लुङिचडि प्राचकटन्
इत्येव रूपम् । इष्ठवद्भावे 'टे:' इति टिलोपेन अग्लोपित्वात्स-
न्वद्भावो दीर्घश्च न भवतः ।
५०. पार तीर कर्मसमाप्तावदन्तश्चुरादिः । तेनाग्लोपित्वादुपधाह्रस्वो
न, सन्वद्भावश्च नेत्यपपारद् इत्येव साधु । पृ पूरणे चुरादेस्तु
लुङि अपीपरद् इति रूपम् ।
५१. नाभ्यस्तस्याचि पिति सार्वधातुक इत्युपधागुणनिषेधे नेनिजानी-
त्येव ।
५२. प्रार्थयन्तेत्येव साधु । उक्तो हेतुः पूर्वत्र ।
५३. बन्ध बन्धने इत्यनिट् । तेन भन्त्स्यन्त इत्येव कर्मणि लुटि साधु ।१. सुखसन्दोह्मा । २. पार तीर कर्मसमासौ इत्यस्माल्लुङि प्रामादिकं रूपम् ।