रूपाधिकार: १३५
५४. क्षिप्रमारभसे कर्म न दीर्घयसि राधव (रा० २।१००।१९) ।
५५. यो मामस्थाने स्तुवीति भृशं तस्मा अभ्यसूयामि ।
.५६ स्फुरति तेऽधरः । मन्ये किमपि पिप्रच्छिषसि ।
५७. चर्म रत्नं च धनमित्रमेव प्रतिभजिष्यति (दशक ० पृष्ठे ११३) ।
५८. समये तिष्ठ सुग्रीव ! मा वालिपथमन्वगाः (रा० ४।३९।८१) ।
५९. एवं कदर्थिताः प्रजा अपरक्तार:१ प्रकोपं चानल्पं जनयितार इति
कः सन्दिग्धे ।
६०. राजान्नं तेज आदत्त इति तत् प्रत्याचचक्षुः पूर्वं तपःप्रधाना
द्विजातयः ।
६१. चिरन्तनो मे सखा यज्ञदत्तोऽद्य मया पथि२ समार्तेति नन्दामि ।
६२. केचिदविप्रकृता अप्यनाक्रान्ता अपि व्याला गर्हितं दंशन्ति ।
५४. दीर्घशब्दात्तत्करोति तदाचष्टे इति णिचि प्रातिपदिकाद्धात्वर्थे
बहुलमिष्ठवच्चेति इष्ठवद्भावेन दीर्घस्य द्राघादेशे द्राघयसीत्येव
साध्विति पाणिनीयाः । इष्ठनि प्रियस्थिरेत्यादिना सूत्रेण दीर्घस्य
द्राघभावो विधीयते ।
५५. तिपि ईटि गुणे स्तवीतीत्येव साधु ।
५६. किरश्च पञ्चभ्य इतीटि रुदविदमुषेत्यादिना सनः कित्त्वे तदाश्रये
सम्प्रसारणे च पिपृच्छिषसीत्येव साधु ।
५७. भज सेवायामित्यनिट् । तेन प्रतिभक्ष्यतीत्येव साधु ।
५८. न माङ्योग इत्यडाटोर्निषेधाद् अनुगा इत्येव साधु ।
५९. रजेन्लोपस्याप्राप्तेः कर्मकर्तरि लुटि अपरङ् क्तार इत्येव साधु ।
६०. चक्षिङ आत्मनेपदित्वात् प्रत्याचचक्षिरे इति वक्तव्यम् । पक्षे
ख्याञादेशे तु प्रत्याचख्युः प्रत्याचख्यिर इति च रूपे ।
६१. सम्पूर्वादर्तेर्लुङ् यात्मनेपदे तशब्दे सिज्लोपस्यासिद्धत्वाद् आट-
श्चेति वृद्धौ कृतायां ह्रस्वादङ्गादिति सिज्लोपाप्रवृत्त्या समार्ष्टेति
रूपमिष्यत इति तत्त्वबोधिनीकारः। लावास्थायामेवाडिति भाष्यो-
क्तसिद्धान्तादाटि कृते सर्वतोन्तरङ्गत्वावृद्धौ ह्रस्वाभावान्न
सिज्लोप इति समार्ष्टेत्येव रूपमिति च दाधिमथाः । तेन दीक्षि-
तोक्तं समार्तेति रूपं चिन्त्यम् ।
६२. दशन्तीत्येव साधु । उक्तो हेतु: पूर्वत्र ।१. अपपूर्वद् रञ्जे: कर्मकर्तरि लुटि प्रामादिकं रूपम् । अपरक्ता भविष्यन्ती-
त्यर्थः । २. सम्पूर्वादर्तेर्लुङि रूपम् ।