पृष्ठम्:शब्दापशब्दविवेकः.pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३६ शब्दापशब्दविवेके


६३. ये प्राणात्ययेऽप्यनृतं नोदीरयन्ति ते धीरा इति चक्ष्यते विच- क्षणैः। ६४. नहि प्रकरणमविज्ञाय श्लोकार्थः साध्ववदायते१ । ६५. यो दीनमार्तं जनं प्राणव्ययेनापि गोपयति स गोपाः । ६६. प्रवृद्धः काञ्चनो वृक्षः फलकाले निकृन्त्यते। ६७. आरिरात्सामि परार्थं शक्तश्चेत्स्यां न तु प्रतिरित्सामि । ६८. निश्चिनुहि सौम्य ! अनुच्छित्तिधर्माऽयमात्मेति । माऽत्र विचि- कित्सीः । ६९. यः परेभ्यश्च धियं रायेत् स धीर इति कथ्यते । ७०. ऐश्वर्यवृद्धिं मा विमुञ्चीः । ७१. निवृत्तश्च राज्याभिषेकः, अहं चामोचि सहेतरैः संयतैः । ६३. चक्षिङः ख्याञ् इति ख्याञादेशेन ख्यायत इत्येव कर्मणि लटि रूपम् । ६४. दैप् शोधने इति भूवादि: सकर्मक: परस्मैपदी । तेन अवदायत इति कर्मकर्तरि समाधेयम् । ६५. 'गुपूधूपविच्छिपणिपनिभ्य आयः' इत्याये प्रत्यये गोपायतीत्येव साधु । स्वार्थे गुपेर्णिज् इति कृत्वा गोपयतीत्यपि सुवचम् । ६६. अनिदितां हल इत्यादिनोपधानकारस्य लोपे निकृत्यत इत्येव साधु । ६७. राधो हिंसायां सनीस् वाच्य इति राध आकारस्य इस् । अत्र लोपोऽभ्यासस्येत्यभ्यासलोपः, स्कोरिति सलोपः । प्रतिशब्दो हिंसाद्योतकः । तेन प्रतिरित्सामीति साधु । संसिद्धावर्थे चाङ्- पूर्वस्य राधोऽच इस् नेत्यारिरात्सामीत्यपि न्याय्यमेव । ६८. उतश्च प्रत्ययादसंयोगपूर्वात् इति हेर्लुकि 'निश्चिनु' इत्येव रूपम् । ६९. रा दान आदादिकः, तस्माच्छपो लुकि सार्वधातुके लिङि रायात् इत्येव रूपम्। ७०. लुदित्वाद् अङि विमुच इत्येव साधु । ७१. मुचः कर्मणि लुङि इटि प्रत्यये सिचि अमुक्षि इत्येव रूपम् । तशब्दे परे चिण् इति चिणोऽप्रसङ्गः ।१. शुध्यति, स्पष्टीभवति इति वक्तुरभिप्रेतम् ।