रूपाधिकार १३७
७२. एवमाचरंस्तु बालोऽपि जिह्रेदात्मनां ध्रुवम् ।
७३. यदि साधुषु साधु वर्त्स्यसे तदा वर्धिष्यसे ।
७४. सूर्यप्रभवो वंशः सूर्यवद् व्यरुचदिति न नो विस्मयाय
७५. आकाशमन्तरेण प्रकृतिः परमाणवो वा कुत्र स्थीयेरन् ।
७६. पुरा भारते वर्षे गवादयो नावध्यन्तेत्यत्र कापि पयसः समृद्धिर-
भूत् ।
७७. अपि नाम प्रस्तरं द्रवयेन्नतु प्रत्यभिनिविष्टजनचित्तमाराधयेत् ।
७८. यन्नामासम्यक् चर्वितं निगिल्यते न तज्जीर्यति ।
७९. तिष्ठ, इदानीं ज्ञास्यसि जाल्म ! क्व न गमिष्यते त्वया ।
८०. दिने दिने जायमाना अमी वृत्तान्ता नोन्मीलन्ति विलोचने एषां
मूढानाम् ।
८१. क्रोधवशं गतः स सुहृदमाक्रुक्षन्महन्नाम चान्वताप्सीत् ।
७२. ह्री लज्जायामित्यस्मात्सार्वधातुके लिङि यासुटि जिह्रीयात्
इत्येव साधु।
८३. वृतु वर्तने इति सेट् । तेन लुटि वर्तिष्यस इत्येव न्याय्यम् ।
७४. 'द्युद्भ्यो लुङि' इति रुचेर्वा परस्मैपदम् । पुषादिद्युताय्लुदित
इत्यङ् । तेन व्यरुचत् इति साधु । अत्र रुचिर्दीप्त्यर्थः ।
७५. नात्र भावे प्रत्ययो युज्यत इति तिष्ठेयुरित्येव साधु ।
७६. लिङ् लुङोरेव हनो वधादेशोऽनुशिष्टः, तेनान्यत्र हन्तेरेव प्रयोगो
युक्त इति 'अहन्यन्त' इत्येव साधु । वधिः प्रकृत्यन्तरमस्तीति मतं
चेन्न दोषः ।
७७. द्रु गतौ इति न घटादिः । तेन णिचि वृद्धौ सत्यां द्रावयेदित्येव
साघु।
७८. अचि विभाषेति ग्रो लो विधीयते विभाषा । यकि परतोऽचोऽ
भावाद् निगीर्यत इत्येव साधु ।
७६. गमेरिट् परस्मैपदेष्विति परस्मैपदे विहित इडात्मनेपदे न भव-
तीति गंस्यत इत्येव साधु रूपम् । नश्चापदान्तस्य झलीति गमे-
र्मकारस्यानुस्वारः।
८०. मील निमेषणेऽकर्मकः । तेन णिचि उन्मीलयन्तीति वक्तव्यम् ।
८१. तपस्तपःकर्मकस्यैवेति नियमान्नात्र कर्मवद्भावः । अनुतापेर्थे
शुद्धे कर्मणि तपोऽनुतापे चेति चिणो निषेधे सिचि अन्वतप्तेत्येव
साधु । तेन कर्मणेति शेषः ।