१३८ शब्दापशब्दविवेके
८२. तथा बलमुपचिनुत यथा रन्धिष्यथ१ रिपून् ।
८३. इदानीमहं भवदनुगृहीतः समजनि ।
८४. पुस्तकं क्व न्यधासी:, लघ्विदं२ मृग्यताम् ।
८५. अहं हि भूयांसं श्रममतनोम्, अल्पीयश्च फलमवाप्नुवम् ।
८६. किं भवानाचक्षिष्ट ? नाहं भवदुक्तं प्रतिपद्ये३ ।
८७. स्वसुताया विवाहमङ्गलमहे४ ऽहं श्रद्धया ब्राह्मणानभ्यवहारयं
पायसम् ।
८८. यदि त्वं मिथ्या नापदेक्ष्यः परुषं च न व्यवहरिष्यस्तदा नाऽसौ
त्वयि विरसोऽभविष्यत् ।
८९. संकुच्यमानेवाङ्गेषु लज्जया याति कुलाङ्गना रथ्यया ।
८२. 'नेट्यलिटि रधे:' इति लिड्वर्जे इटि नुम्नेति रधिष्यतीत्येव
साधु ।
८३. सम्पूर्वात् जनेः कर्तरि लुङिइटि सिचि इडागमे समजनिषीति
साधु । 'समजनि' इति तु प्रथमपुरुषे चिणि साधु ।
८४. गातिस्थाधुपाभूभ्य इति सिचो लुकि 'न्यधाः' इत्येव दधातेर्लुङि
मध्यमैकवचने रूपम् ।
८५. मिपोऽम् । तस्य स्थानिवद्भावेन पित्त्वात् गुणेऽतनवमित्येव
साधु । एवमेव प्राप्नवम् इति शुद्धम् ।
८६. 'चक्षिङो नित्ये ख्याञादेशेऽस्यतिवक्तिख्यातिभ्योङ् इत्यङि
अख्यः, अख्यथा इति रूपद्वयं साधु । तेन 'आचक्षिष्ट' इति प्रामा-
दिकमेव ।
८७. उपसर्गयोगात्पूर्वमटि कृतेऽभ्यवाहारयमित्येव साधु । अभ्यवह-
रतिर्भोजने वर्तते ।
५८. अत्रापि पूर्वमटि तत उपसर्गयोगेऽपादेक्ष्य इति दिशतेर्लृङि रूपं
व्यवाहरिष्य इति च हरतेर्लृङि निर्दुष्टं रूपं ज्ञेयम् । अपपूर्वो
दिशतिर्व्याजीकरणे वर्तते ।
८६. कुच अल्पीभावे तौदादिक: कुटादि: परस्मैपदी । तेन शतरि सुंकु-
चती संकुचन्तीत्युभयं साधु ।१. रध हिंसासंराद्ध्योः इति धातुः । २. क्षिप्रम् ।
३. अभ्युपैमि, स्वीकरोमि । ४. उत्सवे ।