रूपाधिकारः १३९
९०. बहवो ऽत्रार्थेऽपरप्रयुक्ता एव लोप्स्यन्ति१, एवमभिरूपोयमर्थः२ ।
९१. कुम्भीलको३ ऽस्मद्धनमपहरतीति किं वयमपि तद्गृहे सन्धिं
छिनद्मः ।
९२. सद्भिर्बहुधा शपमानाः४ प्रद्विषाणाश्चाप्यसन्तः क्षाम्यन्ते ।
९३. योऽभित्तौ चित्रं निर्मिमासति स साहसिको मूढः ।
९४. समानशीर्लौ कुलोद्गतौ शरच्चन्द्रो हेमन्तकुमारी चेति तां तेन
पर्यणैष्म ।
९५. बलीयसो नो द्विषतो निबर्हयेति ते परमेश्वरमप्रार्थयन्त ।
९६. कथं कथमपि व्यतीयन्तेऽमी दिवसाः, संक्षीयते चाहरहर्जीवितम् ।
९७. शब्दानामावापोद्वा५ पव्यापारेणैव सर्वं न आयुर्व्ययति ।
९८. यो ह्यमायिको वरीवर्तते तस्य कृच्छा वृत्तिरिति लौकिकाः ।
९०. लुभ गार्ध्ये इत्ययं सेट् । तेन लुटि लोभिष्यन्तीत्येव न्याय्यम् ।
९१. श्नसोरल्लोप इति छिन्द्म इत्येव साधु
९२. शप आक्रोशे स्वरितेत् । तेन कर्त्रभिप्रायक्रियाफलविवक्षायामा-
त्मनेपदे शानचि शपमाना इति साधु । क्षाम्यन्त इत्यत्रोपधादीर्घो
न प्राप्नोति । श्यनिं तद्विधे: । इह च परतः कर्मणि यक्
श्रूयते ।
९३. सनि मीमेति माधातोरच इसि, अत्र लोपोऽभ्यासस्येत्यभ्यासलोपे
निर्मित्सतीत्येव रूपम् । माङ् माने इत्यस्मात् सनि तु पूर्ववत्
सन आत्मनेपदे निर्मित्सते इत्येव निर्दुष्टं रूपम् ।
९४. अत्र प्रयोजकव्यापारोऽपेक्ष्यत इति णिच् प्रयोज्यः । णिचि च
सति लुङि चङि पर्यणीनयामेत्येव साधु ।
९५. प्रार्थयन्तेत्येव साधु । हेतुः पूर्वत्रासकृदुक्तः ।
९६. व्यतीयन्ते इति ईङ् गतौ दिवादिः, तस्य कर्तरि लटि रूपं
बोध्यम् । दिवादेराकृतिगरणत्वाङ्गीकारे संक्षीयत इति सिध्यती-
त्याहुः ।
९७. व्यय गताविति भ्वादिषु स्वरितेत् पठितः, तेन व्ययतीति साधु ।
पक्षे व्ययते इत्यपि ।
९८. यङ्लुगन्तात् शेषात् कर्तरि परस्मैपदमिति परस्मैपदे लटि
तिपि वरीवर्ति, वरिवर्तीति रूपे साधूनी ।
१. लुभ गार्ध्ये इति धातुः । २. सुन्दरः । ३. पाटच्चरः । ४. आक्रोशन्तः,
अपभाषमाणाः। ५. आवापोद्वापौ आधानोद्धारौ ।