१४. शम्दापशब्दविवेके
९९. मन्ये तनुरियं ते तनुरनशनेनाधिकं तानवं भजिष्यते ।
१००. कृत्याकृत्ये विविच्य कृत्यमेवोद्वरति सुधीर्नाकृत्यम् ।
१०१. एवं चिन्त्यमानेष्वाभ्युदयिकेपूपायेष्वचिरादेव समुन्नमित्यव्ययं
नो देश ।
१०२. प्राणा इन्द्रियाणि चाहंश्रेयसि विवदिरे।
१०३. पूर्वे खलु स्वं बोधमभ्यासनैरन्तर्येणैधाञ्चक्रु: ।
१०४. अत्र विषये सभापतिमहोदया बहु सुमधुरमुपान्यस्यन्
१०५. यथा पुरा विविधविषयाः प्रबन्धा न्यबन्धिषत न तथेदानी
निबध्यन्ते ।
१०६. कार्यारम्भे रभसो१ न युक्त इत्येवाभिप्रैमः, न तु तत्र ते प्रवृत्तिं
वारयामः।
१०७. कस्मात्त्वं मध्येमार्गं तमरोधीः ? इदन्ते विचेष्टितं गर्हे ।
६६. भक्ष्यत इत्येव साधु । साधुत्वे पूर्वं हेतुरुक्तः ।
१००. उद्वरतीति वृञ् आवरणे चुरादिष्वाधृषीयः । इत्यस्माणिज-
भावपक्षे लटि तिपि रूपं शक्यं व्याकर्तुम् । उत्पूर्वस्यात्रार्थे प्रयोगो
व्यवहारमनुपतति न वेति सन्दिह्यते ।
१०२. वदेर्यजादित्वाल्लिटि किति सम्प्रसारणे व्यूदिरे इत्येव साधु ।
भासनोपसंभाषेत्यादिना वमत्यर्थविशेषणे आत्मनेपदम् ।
१०३. अत्र प्रयोजकव्यापारोऽपेक्षित इति णिचि एधयाञ्चक्रु:, एधया-
ञ्चक्रिरे इति वा स्यात् । एधाञ्चक्रुरिति तु न साधु । प्राकृते
ऽप्यर्थे आम्प्रत्ययवत्कृञोनुप्रयोगस्येति करोतेरात्मनेपदेनैव भवित-
व्यम् ।
१०४. उपनिपूर्वादस्यतेर्लङि 'उपन्यास्यन्' इत्येव साधु । उक्तो हेतुः ।
१०५. निपूर्वाब्दध्नातेः कर्मणि लुङि प्रथमपुरुषबहुवचने न्यभन्त्सतेत्येव
साधु । चिण्वद्भाव इट् चेति अज्झन्-ग्रहशामेवोक्तौ।
१०६. अभिप्रेम इत्येव साधु । वृद्धेर प्राप्तेः ।
१०७. इरितो वेति अङि अरुधः; अरौत्सीः इति च सिचि परस्मैपदे
साधुनी रूपे।१. वेगः ।