१३० शब्दापशब्दबिवेके
६. अभ्युदीयादयं देशः स्वे महिम्नि च जागृयादिति नित्यमाशास्महे।
७. केचिद्रक्ता अनुसरन्ति श्रियम्, श्रिया च केचिद्विरक्ता अनुसर्यन्ते ।
८. राजान्नं तेजो जरयतीति नेदं प्रत्यगृह्णन् द्विजाः ।
९. किं मुधा विभ्रमयसि मुग्धान् स्वानुगान् ।
१०. नहीदानीं वेत्थ । कालेन कियतापि वेत्स्यसि सारमस्य ।
११. यज्ञदत्तः षोडशवर्षां गुण्यामात्मसदशीं१ कन्यामुपायत२ ।
१२. अतिश्रमः खलु जारयति तेज इन्द्रियाणाम् ।
१३. ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन्सर्वाणि भूतानि
यन्त्रारूढानि मायया (गीता १९।६१) ।
१४ स तीर्थाटनव्यपदेशेन वृथा भुवमानट ।
१५. गां बध्नीहि रज्ज्वा शिबके, नो चेद्व्रजान्निष्क्रामेत् स्वैरं च विच-
रेत् ।
१६. को नाम सृक्ष्यति विचित्रमिदं जगदन्यत्र विधेः ।
६. एतेर्लिङीत्यार्धधातुके लिडि उपसर्गात्परस्य इणोऽणो ह्रस्वेऽभ्यु
दियात् इत्येव साधु । जाग्रोऽविचिण्णल्ङित्सु (७।२।८५) इत्यार्ध-
धातुके लिङि यासुटि गुणे जागर्यात् इत्येव साधु ।
७. रिङ् शयग्लिङ्क्षु इति सरतेर्ऋकारस्य रिङादेशेऽनुस्रियन्त
इत्येव साधु ।
८. जनीजृष् क्रसुरञ्जोऽमन्ताश्चेति मित्त्वे ह्रस्वे जरयतीति साधु ।
६. अमन्तत्वान्मित्त्वे ह्रस्वे विभ्रमयसीति साधु ।
१०. विद् ज्ञाने सेट् । तेन वेदिष्यसीत्येव साधु ।
११. विभाषोपयमने इति विभाषा सिचः कित्त्वादनुनासिकलोपे उपा-
यतेति साधु । पक्षे उपायंस्तेति भवति ।
१२. जनीजृष्-इत्यत्र दिवाग्रहणात् क्रयादेर्निरनुबन्धकस्य जृ क्यो-
हानावित्यस्य ग्रहणं नेति मित्त्वाभावाद्ध्रस्वाभावे जारयतीति
साधु ।
१३. अमन्तत्वान्मित्त्वे ह्रस्वत्वे भ्रमयन्नित्येवेति पाणिनीयाः ।
१४. तस्मान्नुड्द्विहल इत्यस्याप्राप्तेर् आटेत्येव साधु ।
१५. हलः श्नः शानज्झाविति शानजादेशे हेर्लुकि च बधानेत्येव साधु ।
१६. सृजि दृशोर्झल्यमकितीति अमागमे स्रक्ष्यतीत्येव साधु ।
१. गुणवतीम् । २. ऊढवान् पर्थणयत् ।