पृष्ठम्:शङ्करविजयः.djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
155
दशमस्सर्गः

अभिययुर्ललनामुखपङ्कजं
मधुकरास्सरसीरुहबुद्धयः ।
सुर​भगन्धि1ललोचनपत्रकं
पटुलकण्ठमृणालमनोहरम् ॥ ७७ ॥

अभिपतद्भ्र​मरालिविनीतव-
न्निजममू: कमितारमुपाश्रयन् ।
अलमलं चकितेन मृगेक्षणाः
कुरुत मज्जनमित्युपपादिताः ॥ ७८ ॥

नितम्बिनीनां 2जघनस्थलादिभि-
र्दृढाभिघातात्पृथुलैजलाशयः ।
समुत्थितोर्मिः 3सरसाम्बुपूरः
स तीरभूमिं समपिप्लवत्क्षणात् ॥ ७९ ॥

तदङ्गरागैर्विविधैस्तद​म्भ-
स्सतीरपङ्कैः कलुषं बभूव ।
अन्योन्यवक्त्राणि जलैरसिञ्चन्
हस्तैर्न तत्क्लेशमजीगणंस्ताः ॥ ८० ॥

काचित्कमित्रावधृता भुजाभ्यां
ततार जानत्यविजानतीव ।
न चक्षमे तत्किल तत्स​पत्नी
भर्तारमैक्षिष्ट रुषाऽरुणाक्षी ॥ ८१ ॥

कश्चित्सिसेच सलिलैर्व​दनं प्रियाया-
स्सेहे न तत्प्रतिवधूर्विससर्ज बाष्पम् ।
वीक्षाम्बभूव कुटिलेन विलोचनेन
कोपारुणेन च बभूव पराङ्मुखी सा ॥ ८२ ॥


1अ. विलोचन । 2अ. स्तनादिभिः ।

3अ. स्त्वमिपातयन् मुहुः ।