अभिययुर्ललनामुखपङ्कजं
मधुकरास्सरसीरुहबुद्धयः ।
सुरभगन्धि1ललोचनपत्रकं
पटुलकण्ठमृणालमनोहरम् ॥ ७७ ॥
अभिपतद्भ्रमरालिविनीतव-
न्निजममू: कमितारमुपाश्रयन् ।
अलमलं चकितेन मृगेक्षणाः
कुरुत मज्जनमित्युपपादिताः ॥ ७८ ॥
नितम्बिनीनां 2जघनस्थलादिभि-
र्दृढाभिघातात्पृथुलैजलाशयः ।
समुत्थितोर्मिः 3सरसाम्बुपूरः
स तीरभूमिं समपिप्लवत्क्षणात् ॥ ७९ ॥
तदङ्गरागैर्विविधैस्तदम्भ-
स्सतीरपङ्कैः कलुषं बभूव ।
अन्योन्यवक्त्राणि जलैरसिञ्चन्
हस्तैर्न तत्क्लेशमजीगणंस्ताः ॥ ८० ॥
काचित्कमित्रावधृता भुजाभ्यां
ततार जानत्यविजानतीव ।
न चक्षमे तत्किल तत्सपत्नी
भर्तारमैक्षिष्ट रुषाऽरुणाक्षी ॥ ८१ ॥
कश्चित्सिसेच सलिलैर्वदनं प्रियाया-
स्सेहे न तत्प्रतिवधूर्विससर्ज बाष्पम् ।
वीक्षाम्बभूव कुटिलेन विलोचनेन
कोपारुणेन च बभूव पराङ्मुखी सा ॥ ८२ ॥
1अ. विलोचन । 2अ. स्तनादिभिः ।
3अ. स्त्वमिपातयन् मुहुः ।