पृष्ठम्:शङ्करविजयः.djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
156
शङ्करविजये

अन्यान्यसेच​नवशान्नयनान्तरस्थं
नीलाञ्जनं विलयमाप 1च तत्क्षणेन ।
आरुण्यमाप नयनं पुनरेव तासां
वक्त्रं रुचिं 2न विजहौ पुनरुक्तशोभम् ॥ ८३ ॥

अपनिनीषुरयं वनितागणो
व​नविहारपरिश्रममुल्ब​णम् ।
जलमगाह​त तद्वस​नाभू-
द्द्विगुणितं श्र​मदं वत सुभ्रुवाम् ॥ ८४ ॥

उत्तेरुरुत्तमगुणास्सलिलाशयार्ता
आर्द्राम्बरस्फुटनिब​द्धतनूलताकाः ।
उत्थाय सूक्ष्मवसनं वसते स्म कौश्यं:
वस्त्राण्यनेनिजुर​शोषि च ताभिरद्धा ॥ ८५ ॥

तत्स्थाङ्गरागनिवहैस्सुरभीकृताम्भः
स्पृष्ट्वा ववौ वनमहीरुहमातरिश्वा ।
तेन श्रमो निववृते ववृधे च कामः
पातुं मधुं सममियेष वधूगणः स्वैः ॥ ८६ ॥

युवतयो युवभिस्सममाश्रयन्
मृदुलकुट्टिमसौव​मनुत्तमम् ।
मणिमयं मणिसाधितवर्त्म​ना
कुचभरावनता 3कृशमध्यमाः ॥ ८७ ॥

सुरभिपुष्पसुवासितकुट्टिमे
क्रमत एव गतास्समुपाविशन् ।
प्रियतमैः पपुरासवमादृता-
श्च​षकरत्नवितीर्णममूस्सुखम् ॥ ८८ ॥


1अ. ततः क्षणेन । 2अ. नहि जहौ ।

3अ. नमिता ।