सामग्री पर जाएँ

पृष्ठम्:शङ्करविजयः.djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
154
शङ्करविजये

विकासि सायंतनमल्लिकानां
धावल्यनि1र्भर्त्सितचन्द्रिकानाम् ।
दिग्व्यापिसौरभ्यमुचां समूहै-
र्जिग्ये स्मितं शुभ्रदतो मुरारेः ॥ ७१ ॥

पुष्प्यन्ति वृक्षास्सुरभौ प्रकामं
शुचौ द्रुमाणां विरलं प्रसूनम् ।
तन्न्यूनतां नूनमसौ विहन्तुं
नीपः प्रसूनं सुषुवेऽप्यगन्धम् ॥ ७२ ॥

निदाघकान्तारविहारजश्रमं
नितम्बिनीनां परिहर्तुमुद्यतः ।
गणो ययौ निर्मलनिम्नगातटं
तापस्य शान्तिः प्रथमं हि पाथसा ॥ ७३ ॥

निदाघतप्तोऽपि निसर्गभीरु-
र्जलं प्रवेष्टुं न शशाक भीत्या ।
विश्वासमुत्पादयितुं पुरस्ता-
न्नदीमगाहन्त युवान एव ॥ ७४ ॥

एतावदेव जलमित्यसकृद्ब्रुवाणे
पूर्वावगाढ​सलिले प्रियबन्धुवर्गे ।
वध्वाेऽवतेरुरुदकाशयमप्रगल्भाः
पीनस्तनावनतमध्यमभङ्गशङ्काः ॥ ७५ ॥

पीनस्तनस्तबकिताश्चुचि2दन्तपुष्पा
नेत्रच्छदा मुख​फलास्तरुणारुणाङ्ग्यः ।
शोणाधराङ्घ्रिक​रपल्लवशोभमाना
वध्वो भृशं शुशुभिरे नववल्लरीवत् ॥ ७६ ॥


1अ. निर्भासित । 2अ. शुभ ।