सामग्री पर जाएँ

पृष्ठम्:शङ्करविजयः.djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
153
दशमस्सर्गः

पू...रामः शुष्कबल्लीनिकायो।
जातश्शोच्यो निष्क​लत्रो गृहीव​ ।
धन्यो देशो यो नदीमातृकोऽयं
तस्मिन्नासीच्छोच्यभावो जनानाम् ॥ ६५ ॥

आपगास्समभवन्ननापगाः
शोषमाप​ सरसी शनैश्शनैः ।
दुस्सहज्वरगृहीतमर्त्यव​त्।
कूपजातमभवच्च​ पूर्ववत् ॥ ६६ ॥

जीवनन्तु परिलब्धुमनीशो
देवमातृकगतोऽपि सलज्जः ।
आपशायिकमियाय भोजनं
जीवनेऽसुलभ एव हि मानः ॥ ६७ ॥

शान्ते प्रवाहे सलिलानि वाप्या
उद्धर्तुमारप्सत यन्त्रमुख्यैः ।
कैदारिकञ्चापि कृषीवलास्ते
विशोषिसस्याय विधूतनिद्राः ॥ ६८ ॥

आपादकामस्तचन्दनोक्षिता
धारानिकेतेषु वसन्ति भोगिनः ।
लध्वेव वस्त्रं परिघातुमिच्छवो
जनास्तदा शीतलवस्तुसेविनः ॥ ६९ ॥

कालो न दूष्यः स्वयमेव दूष्य​तां
पुमानयं पुण्यकृतो महात्मनः ।
सुखाय सर्वं भवतीह विष्टपे
तत्तत्परीहारयुतस्य देहिनः ॥ ७० ॥