पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/६०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥१५॥
५७३
करयाणपीयूषव्याख्यासमेत

तत्तत्सर्वं ब्रह्मानन्दस्य प्रतिबिंबनात् प्रतिफलनात् हारभूतवादित्यर्थः ब्रह्मैव भवति । अन्तःकरणस्य वृर्तिषु अन्तर्मुखासु सतीषु विषयेष्वपि लब्धेषु तदिच्छोपरमे सति । अन्तर्मुखमनोवृत्तावानन्दः प्रतिबिंबती (११-८६) त्युक्तरीत्या अस्य ब्रह्मणः प्रतिबिंबनं निर्विघ्नं भवति । बाह्यवस्तुपरित्यागे हर्षादिवृत्तयो यदान्तर्मुखा भवन्ति तदा ब्रह्मानन्दस्य द्वारीभवन्तीति भावः ॥ ११॥

सच्चिदानन्दस्फुरणस्थलनिरूपणम् ।

 सर्वत्र वृत्तिषु यद्यद्वृत्तौ यद्यदूषेण ब्रह्मस्वरूपानुभवस्तप्रदर्शनाय तत्स्व- रूपं स्मारयति, सत्तेति ।

स त चितिः सुखं चेति खभावा ब्रह्मणस्त्रयः ॥१९॥

 स्पष्टोऽर्थः । सचिदानन्दस्वरूपं ब्रह्मैवेत्यर्थः ॥१९॥

 सतादित्रयाणां स्फुरणस्थानान्याह,मृदिति ।

मृच्छिलादिषु सत्तैव व्यज्यते नेतरद्वयम् ॥ २० ॥

सत्ता चितिर्द्वयं व्यक्त धीवृत्त्योर्घोरमूढयोः ।
शान्तवृत्तौ त्रयं व्यक्तं मिश्रं ब्रह्मेत्थमीरितम् ॥ २१॥

 तत्र सतैव । अस्तितामात्रधर्म एव मृच्छिलादिष्वचेतनेषु व्यज्यते । घटो ऽस्तीति व्यवहारात् । इतरद्वये चिदानन्दरूपं न व्यज्यते । अत्यन्तमालिन्यस्वभा वात् । घोरमूढयोः धीवृत्योः सत्ता चितिश्व द्वयं व्यक्तं भवति । शान्तवृत्तौ तु सच्चिदानन्दरूपं त्रयं व्यक्तं भवति । इत्थं मायामित्रं ब्रह्म, ईरितम् ॥२१॥

 अमिश्रब्रह्मानुभवस्थानमाह, अमिश्रमिति ।

अमिश्रं ज्ञानयोगाभ्यां तौ च पूर्वमुदीरितौ ।
आद्येऽध्याये योगचिन्ता ज्ञानमध्याययोरद्वबयोः ॥ २२ ॥

 स्पष्टः पूर्वार्धः । पूवोक्तप्रकारं विशदयति, आद्य इति । आधेऽध्याये । योगानन्दाध्याये अध्याययोर्द्वयोः आत्मानन्दाद्वैतानन्दाध्याययोः ॥२२॥

 अथ मायायाः रूपमाह,असत्तेति ।